| YouTube Channel

अग्रेगूः (agregUH)

 
E Bharati Sampat
Sanskrit
(पुं) अग्रे गच्छति अग्रे+गम्लृ(गतौ)+ऊङ्। ‘ऊङ् गमादीनाम्०’ वा०६.४.४०। अग्रगामी, पुरोगन्ता
शब्दकल्पद्रुमः
Sanskrit
अग्रेगूः,
पुं,
(अग्रे गच्छति यः अग्रे + गम् + क्विप्ऊचगमादीनामित्युपसङ्ख्यानमिति पाणिनिवा-र्त्तिकेन मलोपः अकारस्य ऊकारः ।) अग्र-गामी इत्युणादिवृत्तिः
कृदन्तरूपमाला
Sanskrit
1 {@“गमॢ गतौ”@} 2 गामकः-मिका, 3 गमकः-मिका, 4 जिगमिषकः-षिका, 5 जङ्गमकः-जंगमकः-मिका
गन्ता-त्री, गमयिता-त्री, जिगमिषिता-त्री, जङ्गमिता-त्री
6 गच्छन्-न्ती, गमयन्-न्ती, 7 जिगमिषन्-न्ती
-- 8 गमिष्यन्-न्ती-ती, गमयिष्यन्-न्ती-ती, जिगमिषिष्यन्-न्ती-ती
9 सङ्गच्छमानः, गमयमानः, 10 आगमयमानः, 11 सञ्जिगंसमानः, जङ्गम्यमानः
सङ्गंस्यमानः, गमयिष्यमाणः, आगमयिष्यमाणः, सञ्जिगंसिष्यमाणः, जङ्गमिष्यमाणः
12 अङ्गगत्, 13 मार्गगत्, अग्रेगूः, 14 जगत् 15 16 अग्रेगाः
17 गतम्- 18 गतः- 19 प्रगतः-तवान्, 20 अन्तिकादागतः-अभ्याशादागतः- दूरादागतः-विप्रकृष्टादागतः, गमितः, जिगमिषितः, जङ्गमितः-तवान्
गमः, 21 सुतङ्गमः, 22 अन्तगः, 23 अत्यन्तगः, अध्वगः, दूरगः, पारगः, सर्वगः, अनन्तगः, सर्वत्रगः, 24 पन्नगः 25 उरगः, सुगः, 26 दुर्गः 27 निर्गः, 28 29 30 स्त्र्यगारगः-ग्रामगः, भुजङ्गः 31 -भुजङ्गमः-भुजगः, तुरङ्गमः-तुरगः-तुरङ्गः, हृदयङ्गमः, 32 विहङ्गः-विहङ्गमः, जग्मिः, 33 जग्मिवान् 34 -जगन्वान्, 35 गमी- 36 आगामी-गामी, 37 गत्वरः 38 - 39 गत्वरी, 40 41 गामी, 42 नगः, 43 44 45 पद्गः 46 प्लवङ्गः, विहगः, 47 अध्वगामी, 48 अग्रेगावा 49, 50 गामुकः, 51 52 हंसगामिनी, 53 54 सुगन्मा, 55 जनङ्गमः, गमः, जिगमिषुः, 56 जङ्गमः
57 गन्तव्यम्, गमयितव्यम्, जिगमिषितव्यम्, जङ्गमितव्यम्
58 प्रगमनीयम्, 59 प्रगमनीयम्, जिगमिषणीयम्, जङ्गमनीयम्
60 61 गम्यम्, गम्यम्, जिगमिष्यम्, जङ्गम्यम्
ईषद्गमः- 62 दुर्गमः-दुरधिगमः-सुगमः
-- -- गम्यमानः, गम्यमानः, जिगंस्यमानः, जङ्गम्यमानः
63 गमः, 64 एकाहगमः, 65 निगमः, 66 अभिगमः, 67 आगमः, गमः, जिगमिषः, जङ्गमः
गन्तुम्, गमयितुम्, जिगमिषितुम्, जङ्गमितुम्
गतिः, 68 अग्रगामिका, गमना, जिगमिषा, जङ्गमा
69 प्रगमनम्, प्रगमनम्, जिगमिषणम्, जङ्गमनम्
गत्वा, गमयित्वा, जिगमिषित्वा, जङ्गमित्वा
अवगत्य- 70 अवगम्य, 71 अवगमय्य, सञ्जिगंस्य, प्रजिगमिष्य, सञ्जङ्गम्य
72 गामम् २, गत्वा २, 73 गमम् २, गामम् २, गमयित्वा २, जिगमिषम् २, जिगमिषित्वा २, जङ्गमम्
जङ्गमित्वा
74 इत्यादिना तुन्प्रत्ययः।
गन्तुः = पथिकः।
आगन्तुः--अतिथिः।]] गन्तुः-आगन्तुः, 75 इति डोप्रत्ययः।
गच्छतीति गौः।]] गौः, 76 इति त्रन्प्रत्ययः।
गात्रं = शरीरम्।]] गात्रम्।
प्रासङ्गिक्यः
01
=>
(३७६)
02
=>
(१-भ्वादिः-९८२। अक। अनि। पर।)
03
=>
[[१। ‘जनीजॄष्क्रसु--’ (ग। सू। भ्वादौ) इत्यादिना अमन्तत्वेनास्य धातोर्मित्त्वम्। ‘मितां ह्रस्वः’ (६-४-९२) इति णौ उपधाह्रस्वः। एवं ण्यन्ते सर्वत्र बोध्यम्।]]
04
=>
[[२। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इति सन इडागमः। तत्र ‘परस्मैपदेषु’ इत्यस्य तङानयोरभावे--इत्यर्थः। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[३। ‘यस्य हलः’ (६-४-४९) इति यङो यकारस्य लोपः। ‘अतो लोपः’ (६-४-४८) इत्यकारलोपः। ‘नुगतोऽनुनासिकान्तस्य’ (७-४-८५) इत्यभ्यासस्य नुगागमः। यङवयवाकारलोपस्य स्थानिवद्भावेनाजादिक्ङित्प्रत्ययपरकत्वात् ‘गमहन--’ (६-४-९८) इत्युपधालोपो शङ्क्यः। तत्र, ‘अनङि’ इति पर्युदासेन, औपदे- शिकाजादिप्रत्यये एव लोप इति भट्टोजिदीक्षितैः ‘न धातुलोप--’ (१-१-४) इत्यत्रोक्तत्वात्। तदनुसारेण अकारलोपाघटितानि रूपाणि प्रदर्शितानि। नागेश- भट्टैस्तु--औपदेशिकाजादावित्यर्थो नाश्रितः। अतः ‘जङ्ग्मकः’ इति रूपं, ‘न धातुलोप--’ (१-१-४) इति सूत्रे उद्योते प्रदर्शितम्। प्राचीननवीनयोर्बहुषु लक्ष्येषु आशयमेदो यथा भवति, तथाऽत्रापीति बोध्यम्। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[४। ‘इषगमियमां छः’ (७-३-७७) इति शिति प्रत्यये धातोः छकारादेशः। ‘छे च’ (६-१-७३) इति तुक्। तस्य चर्त्वेन चकारः।]]
07
=>
[[आ। ‘पारं जिगमिषन् सोऽथ पुनरावर्त्स्यतां द्विषाम्। मत्तद्विरदवद् रेमे वने लङ्कानिवासिनाम्।।’ भ। का। ९-४३।]]
08
=>
[[५। ‘गमेरिट् परस्मैपदेषु’ (७-२-५८) इतीडागमः।]]
09
=>
[[६। ‘समो गम्यृच्छिभ्याम्’ (१-३-२९) इति शानच्।]]
10
=>
[[७। ‘आगमेः क्षमायामात्मनेपदं वक्तव्यम्’ (वा। १-३-२१) इति ण्यन्तात् आङ्पूर्वका- दस्मात् आत्मनेपदमेव।]]
11
=>
[[८। सम्पूर्वकत्वेन आत्मनेपदनिमित्तसद्भावादिडागमो न। ‘अज्झनगमां सनि’ (६-४-१६) इति दिर्घस्तु--अजादेशगमेरेव, त्वस्य।]]
12
=>
[पृष्ठम्०३७०+ ३४]
13
=>
[[१। ‘गमः क्वौ’ (६-४-४०) इत्यनुनासिकलोपे ‘ह्रस्वस्य पिति--’ (६-१-७१) इति तुक्।]]
14
=>
[[२। ‘ऊङ् गमादीनाम्--’ (वा। ६-४-४०) इत्यनुनासिकलोपः ऊकारादेशश्च।]]
15
=>
[[३। ‘द्युतिगमिजुहोतीनां द्वे च’ (वा। ३-२-१७८) इति क्विपि द्विर्वचनम्, अनुनासिक- लोपः। तुक्।]]
16
=>
[[४। ‘जनसनखनक्रमगमो विट्’ (३-२-६७) इति विट्। ‘विङ्वनोरनुनासिकस्यात्’ (६-४-४१) इत्यनुनासिकस्याकारादेशः। सवर्णदीर्घः। अग्रगामी इत्यर्थः।]]
17
=>
[[५। ‘क्तोऽधिकरणे ध्रौव्यगतिप्रत्यवसानार्थेभ्यः’ (३-४-७६) इति अधिकरणे क्तः। ‘इदमेषां गतम्’ इत्यधिकरणे। ‘गत्यर्थाकर्मक--’ (३-४-७२) इति कर्तरि क्तः ‘देवदत्तो गतः’ इत्यत्र। ‘गतमनेन’ इत्यत्र भावे क्तः। ‘अनुदात्तोपदेश--’ (६-४-३७) इत्यनुनासिकलोपः। एवं क्तिन्यपि।]]
18
=>
[[आ। ‘ततो मन्दगतः पक्षी तेषां प्रायोपवेशनम्। अशनीयमिवाशंसुः महानायादशोभनः।।’ भ। का। ७-७९।]]
19
=>
[[६। ‘आदिकर्मणि क्तः कर्तरि च’ (३-४-७१) इति आदिकर्मणि क्तः। गन्तुमारब्धवान् इत्यर्थः।]]
20
=>
[[७। ‘पञ्चम्याः स्तोकादिभ्यः’ (६-३-२) इति पञ्चम्या अलुक्।]]
21
=>
[[८। ‘गमश्च’ (३-३-४७) संज्ञायां खच्। ‘खित्यनव्ययस्य’ (६-३-६६) इति वर्तमाने, ‘अरुर्द्विषदजन्तस्य--’ (६-३-६७) इति मुम्। एवं हृदयङ्गमः, जनङ्गमः इत्यादीनि ज्ञेयानि।]]
22
=>
[[९। ‘अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः’ (३-२-४८) इति डप्रत्ययः। टेर्लोपः। एबम् अत्यन्तग इत्यादि अनन्तग इति पर्यन्तम्।]]
23
=>
[[B। ‘दूरगैरन्तगैर्बाणैर्भवान् अत्यन्तगः श्रियः। अपि सङ्क्रन्दनस्य स्यात् क्रद्धः किमुत वालिनः।।’ भ। का। ६-११०।]]
24
=>
[[१०। ‘सर्वत्रपन्नयोरुपसंख्यानम्’ (वा। ३-२-४८) इति डः।]]
25
=>
[[११। ‘उरसो लोपश्च’ (वा। ३-२-४८) इति डः सकारलोपश्च। उरसा गच्छतीति उरगः सर्पः।]]
26
=>
[[१२। ‘सुदुरोरधिकरणे’ (वा। ३-२-४८) इति डः। सुखेन दुःखेन चात्र गच्छन्तीति सुगः दुर्गः।]]
27
=>
[[C। ‘सुगेषु दुर्गेषु तुल्यविक्रमैर्जवादहंपूर्विकया यियासुभिः। गणैरविच्छेदनिरुद्धमाबभौ वनं निरुच्छ्रवासमिवाकुलाकुलम्।।’ किरातार्जुनीये-- १४-३२।]]
28
=>
[[१३। ‘निसो देशे’ (वा। ३-२-४८) इति डः। देशविशेषस्य नाम। निरन्तरं गच्छन्त्य- त्रेति अधिकरणे डः।]]
29
=>
[पृष्ठम्०३७१+ ३२]
30
=>
[[१। ‘डप्रकरणे--डोऽन्यत्रापि दृश्यते’ (वा। ३-२-४८) इति डः। एवं गुरुतल्पगः ग्रामगः इत्यादिकं ज्ञेयम्।]]
31
=>
[[२। ‘खच्च डिद्वा वक्तव्यः’ (वा। ३-२-३८) इति वा डित्त्वेन टिलोपः। मुम्। एवं प्लवङ्ग-तुरङ्ग-विहङ्गादयः।]]
32
=>
[[३। ‘विहायसो विह च’ (वा। ३-२-३८) इति विहायसो ‘विह’ इत्यादेशः, खचो डित्त्वं वा भवति। मुम्। डित्त्वपक्षे ‘विहग’ इति। एवं तुरग-प्लवगादयः।]]
33
=>
[[४। ‘भाषायां धाञ्कृञ्सृजनिगमिनमिभ्यः--’ (वा। ३-२-१७१) इति किः, किन् वा प्रत्ययः। तस्य लिड्वद्भावातिदेशात् द्वित्वादिकम्। ‘गमहन--’ (६-४-९८) इत्युपधालोपः।]]
34
=>
[[५। ‘क्वसुश्च’ (३-२-१०७) इति लिटः क्वसुः। द्विर्वचनम्। ‘विभाषा गमहनविद- विशाम्’ (७-२-६८) इतीड्विकल्पः। जगन्वान् इत्यत्र ‘म्वोश्च’ (८-२-६५) इति मकारस्य नकारः।]]
35
=>
[[६। ‘भविष्यति गम्यादयः’ (३-३-३) इति भविष्यत्काले इनिप्रत्ययः। “गमी गामी तथाऽऽगामी प्रयायिप्रतियायिनौ। प्रबोधी प्रतिबोधी भावी प्रस्थाय्यमी नव।।” इति प्रक्रियासर्वस्वे गम्यादेः परिगणनं कृतम्। ‘आङि णित्’ (ग। सू। ३-३-३) इति इनिप्रत्ययस्य णिद्वद्भावात् ‘अत उपधायाः’ (७-२-११६) इति वृद्धिः।]]
36
=>
[[आ। ‘साधोरपि स्वः खलु गामिताऽथो गमी तु स्वर्गमितः प्रयाणे। इत्यायती चिन्तयतो हृदि द्वे द्वयोरुदर्कः किमु शर्करे न।।’ नैषधे ६-९९।]]
37
=>
[[७। ‘गत्वरश्च’ (३-२-१६४) इति गमेः क्वरपि अनुनासिकलोपे तुक् निपात्यते तच्छीलादिषु कर्तृषु। स्त्रियां ‘टिड्ढाणञ्--’ (४-१-१५) इति ङीप्।]]
38
=>
[[B। ‘सृमरोऽभङ्गुरप्रज्ञो गृहीत्वा भासुरं धनुः। विदुरो जित्वरः प्राप लक्ष्मणो गत्वरान् कपीन्।।’ भ। का। ७-२२।]]
39
=>
[[C। ‘निद्रावशेन निभृतेक्षणमुत्थितानां द्वित्राणि मन्थरपदान्यपगत्वरीणाम्। काले गृहीतमुचिते रशनाः कथञ्चित् मौनव्रतं जहति मुग्धवधूजनानाम्।।’ यादवाभ्युदये १९-६।]]
40
=>
[व्रजं]
41
=>
[[८। ‘आवश्यकाधमर्ण्ययोर्णिनिः’ (३-३-१७०) इति णिनिः। ‘अकेनोर्भविष्यदाध- मर्ण्ययोः’ (२-३-७०) इति षष्ठीनिषेधः।]]
42
=>
[[९। ‘नगोऽप्राणिष्वन्यतरस्याम्’ (६-३-७७) इति नञ्समासे नलोपाभावो विकल्पेन। पक्षे--अगः। गच्छतीति नगः पर्वतः। गमेर्डः।]]
43
=>
[[ड्। ‘परिभावं मृगेन्द्राणां कुर्वन्तो नगमूर्धसु। विन्ध्ये तिग्मांशुमार्गस्य चेरुः परिभवोपमे।।’ भ। का। ७-५४।]]
44
=>
[पृष्ठम्०३७२+ ३०]
45
=>
[[आ। ‘वाचंयमान् स्थण्डिलशायिनश्च युयुक्षमाणाननिशं मुमुक्षून्। अध्यापयन्तं विनयात्प्रणेमुः पद्गाः भरद्वाजमुनिं सशिध्यम्।। भ। का। ३-४१।]]
46
=>
[[१। ‘डोऽन्यत्रापि दृश्यते’ (वा। ३-२-४८) इति गमेर्डप्रत्ययः। ‘पादस्य पदा- ज्यातिगोपहतेषु’ (६-३-५२) इति पद्भावः। पादाभ्यां गच्छन्तीति पद्गाः = पदातयः।]]
47
=>
[[२। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
48
=>
[[३। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति वनिप्। ‘विड्वनोरनुनासिकस्य--’ (६-४-४१) इत्यात्वे रूपम्। स्त्रियाम् अग्रेगावा इति भवति। ‘वनो हशः’ (वा। ४-१-७) इति ङीब्रेफादेशनिषेधात्।]]
49
=>
[[B। ‘अग्रेगावा शूराणाम् अभिभूः सर्वविद्विषाम्। शंस्थरूपः स्थिरप्रज्ञः पपात सहसा भुवि।।’ भ। का। ६-१२५।]]
50
=>
[[४। ‘लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ्’ (३-२-१५४) इति तच्छीलादिषु कर्तृषु उकञ्। स्त्रियां गामुका इति रूपम्।]]
51
=>
[[C। ‘अतीते वर्षुके काले प्रमत्तः स्थायुको गृहे। गामुको ध्रुवमध्वानं सुग्रीवो वालिना गतम्।।’ भ। का। ७-१८।]]
52
=>
[[५। ‘कर्तर्युपमाने’ (३-२-७९) इति णिनिः। हंस इव गच्छतीति हंसगामिनी।]]
53
=>
[[ड्। ‘योषिद्बृन्दारिका तस्य दयिता हंसगामिनी। दूर्वाकाण्डमिव श्यामा न्यग्रोधपरिमण्डला।।’ भ। का। ५-१८।]]
54
=>
[[६। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति मनिन्। ‘नेड् वशि कृति’ (७-२-८) इतीण्णिषेधः। ‘म्वोश्च’ (८-२-६५) इति मकारस्य नकारः।]]
55
=>
[[E। ‘औदुम्बरे वैदिशनैम्बमुख्ये देशेऽवसन् ये जनङ्गमौघाः। ये चाघिकौशाम्बि जनास्तदानीमाकस्मिकीं प्रीतिमयासिषुस्ते।।’ वासुदेवविजये ३-१९।]]
56
=>
[[F। ‘आ त्रिकूटमकार्षुर्ये त्वत्का निर्जङ्गमं जगत्।’ दशग्रीव कथं ब्रूषे तानवध्यान् महीपतेः।।’ भ। का। ९-१२६।]]
57
=>
[[७। यङन्तात् पचाद्यच् (३-१-१३४)। ‘यङोऽचि च’ (२-४-७४) इति यङो लुक्।]]
58
=>
[[८। ‘न भाभूपूकमिगमि--’ (८-४-३४) इति निषेधात् ‘कृत्यचः’ (८-४-२९) इति णत्वं न।]]
59
=>
[[९। ‘ण्यन्तभादीनामुपसंख्यानम्--’ (वा। ८-४-३४) इति वार्तिकात् ण्यन्तादपि णत्वं न।]]
60
=>
[पृष्ठम्०३७३+ २८]
61
=>
[[१। ‘पोरदुपधात्’ (३-१-९८) इति यत्प्रत्ययः।]]
62
=>
[[आ। ‘बलिनावमुमद्रीन्द्रं युवां स्तम्बेरमाविव। आचक्षाथामिथः कस्मात् शङ्करेणापि दुर्गमम्।।’ भ। का--६-९३।]]
63
=>
[[२। ‘ग्रहवृदृनिश्चिगमश्च’ (३-३-५८) इति, भावे अकर्तरि कारके घञपवादोऽप्- प्रत्ययः।]]
64
=>
[[३। एकाहेन गम्यते इत्येकाहगमः = अध्वा। कर्मणि अप्। ‘परिमाणाख्यायां सर्वेभ्यः’ (३-३-२०) इति प्राप्तस्य घञोऽपवादत्वेन ‘अश्वस्यैकाहगमः’ (५-२-१९) इति सूत्रे निपातनादप्।]]
65
=>
[[४। ‘गोचरसंचरवहव्रजव्यजापणनिगंमाश्च’ (३-३-११९) इति घञपवादः घप्रत्ययान्तो निपातः। निगम्यते = ज्ञायतेऽनेन--इति निगमः = वेदः। करणे घः। गत्यर्थानां ज्ञानार्थकत्वात् ज्ञायमानत्वम्।]]
66
=>
[[B। ‘ततः प्रविव्राजयिषुः कुमारम् आदिक्षदस्याभिगमं वनाय। सौमित्रिसीतानुचरस्य राजा सुमन्त्रनेत्रेण रथेन शोचन्।।’ भ। का। ३-९।]]
67
=>
[[C। ‘प्रग्राहैरिव पत्राणामन्वेष्या मैथिली कृतैः। ज्ञातव्या चेङ्गितैर्धर्म्यैर्ध्यायन्ती राघवाऽऽगमम्।।’ भ। का। ७-४४।]]
68
=>
[[५। ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति पर्यायार्थे ण्वुच् स्त्रियाम्। ‘अग्रगा- मिका अद्य भवतः।’ अग्रगामिका = अग्रगमनम्।]]
69
=>
[[ड्। ‘हरेः प्रगमनं नास्ति प्रभानं हिमद्रुहः। नातिप्रवेपनं वायोर्मया गोपायिते वने।।’ भ। का--९-१०७।]]
70
=>
[[६। ‘वा ल्यपि’ (६-४-३८) इति मान्तानिटां धातूनाम्, अनुनासिकलोपविकल्पः। लोपपक्षे तुक्। तेन रूपद्वयम्।]]
71
=>
[[७। ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
72
=>
[पृष्ठम्०३७४+ २६]
73
=>
[[१। ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति ण्यन्ताण्णमुलि उपधादीर्घविकल्पः।]]
74
=>
[[२। ‘सितनिगमि--’ [द। उ। १-१२२]
75
=>
[[३। ‘गमेर्डोः’ [द। उ। २-११]
76
=>
[[४। ‘गमेरा च’ [द। उ। ८-८५]