| YouTube Channel

अग्रजन्मन् (agrajanman)

 
शब्दसागरः
English
अग्रजन्मन्
m.
(-न्मा)
1. A priest or Brahman
a man of the sacerdotal
tribe.
2. An elder brother or first-born.
3. BRAHMĀ, the first-born
of the gods.
E.
अग्र first or best, and जन्मन् birth.
Capeller Eng
English
अग्रजन्मन्
m.
a Brahman (lit. =
prec.
).
Yates
English
अग्र-जन्मन् (न्मा) 5.
m.
A priest.
Wilson
English
अग्रजन्मन्
m.
(-न्मा)
1 A priest or Brahman
a man of the sacerdotal tribe.
2 An elder brother or first-born.
3 BRAHMĀ, the first-born of the gods.
E.
अग्र first or best, and जन्मन् birth.
Monier Williams Cologne
English
अग्र—जन्मन्
m.
the first-born, an elder brother, a Brahman,
Mn.
Yājñ.
&c.
a member of one of the three highest castes,
L.
Brahmā
Goldstucker
English
अग्रजन्मन् Bahuvr. m. (-न्मा)
^1 An elder brother or first-born.
^2 A priest or Brahman
a man of the sacerdotal tribe.
^3 Brahmā, the first-born of the gods. E. अग्र and जन्मन्.
Shabdartha Kaustubha
Kannada
अग्रजन्मन्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಬ್ರಾಹ್ಮಣ
अग्रजन्मन्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಜ್ಯೇಷ್ಠ ಸಹೋದರ
अग्रजन्मन्
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಮೊದಲು ಹುಟ್ಟಿದ
व्युत्पत्तिः - > अग्रे जन्म यस्य
L R Vaidya
English
agra-janman {% m. %} 1. an elder brother
2. a Brāhmaṇa, M.ii.20.
Indian Epigraphical Glossary
English
agrajanman (EI 9), same as agraja (q. v.)
wrongly used to
mean ‘the eldest son’ instead of ‘the elder brother’ (cf.
agraja).
(EI 24), a Brāhmaṇa.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
अग्रजन्मन् m. *älterer Bruder, Śrīk. XXV, 15. 18.
अभिधानचिन्तामणिः
Sanskrit
--source--
अवदानं कर्म शुद्धं ब्राह्मणस्तु त्रयीमुखः ८११
भूदेवो वाडवो विप्रो द्व्यग्राभ्यां जातिजन्मजाः
वर्णज्येष्ठः सूत्रकण्ठः षट्कर्मा मुखसंभवः ८१२
वेदगर्भः शमीगर्भः सावित्रो मैत्त्र एतसः
-wordlist-
अवदान (क्ली), शुद्धकर्मन् (क्ली), ब्राह्मण (पुं), त्रयीमुख (पुं), भूदेव (पुं), वाडव (पुं), विप्र (पुं), द्विजाति (पुं), द्विजन्मन् (पुं), द्विज (पुं), अग्रजाति (पुं), अग्रजन्मन् (पुं), अग्रज (पुं), वर्णज्येष्ठ (पुं), सूत्रकण्ठ (पुं), षट्कर्मन् (पुं), मुखसम्भव (पुं), वेदगर्भ (पुं), शमीगर्भ (पुं), सावित्र (पुं), मैत्त्र (पुं), एतस (पुं)
अभिधानरत्नमाला
Sanskrit
ब्राह्मण
ब्राह्मण, वाडव, विप्र, भूमिदेव, द्विजोत्तम, अग्रजन्मन्, द्विजन्मन्, षट्कर्मन्, सोमपा, द्विज
ब्राह्मणो वाडवो विप्रो भूमिदेवो द्विजोत्तमः
अग्रजन्मा द्विजन्मा षट्कर्मा सोमपा द्विजः ३९१
verse 2.1.1.391
page 0046
वाचस्पत्यम्
Sanskrit
अग्रजन्मन्
पु०
अग्रे जन्म यस्य जन--मनिन् व्यधि० बहु० ।ज्येष्ठभ्रातरि, विप्रे अग्रजातमात्रे
त्रि०
अग्रात्प्रधानाङ्गात् मुखात् जन्मास्य व्यधि० बहु० ब्रह्मणोमुखोत्-पन्ने विप्रे, तस्य तन्मुखोत्पत्तिश्च ताण्ड्यमहाब्राह्मणेउक्ता यथा “सोऽकामयत यज्ञं सृजेयेति मुखत एवत्रिवृतमसृजत तं गायत्रीच्छन्दोऽन्वसृज्यताग्निर्द्देवताब्राह्मणोमनुष्यो वसन्त ऋतुस्तस्मात्त्रिवृत् स्तोमानां मुखं, गायत्री च्छन्दसाम्, अग्निर्देवतानां, ब्राह्मणो मनुष्याणां, वसन्त ऋतूनां, तस्माद्ब्राह्मणो मुखेन वीर्य्यङ्करोतिमुखतो हि सृष्टः” इति व्याख्यातञ्चैतत् भाष्ये “सःप्रजापतिरकामयत् किमिति”? सर्व्वसाधकं यज्ञं सृजेयेतिस एतमग्निष्टोममपश्यत् तमाहरदित्युक्तस्यैवेदं विवरणं सःप्रजापतिः मुखत आत्मनो मुखादेव त्रिवृतमावृत्ति-त्रयसाध्यमेतन्नामकंस्तोममसृजत तं त्रिवृतमनु पश्चाद्गायत्री-छन्दः गायत्रं नाम छन्दोऽसृज्यत तदनु अग्निर्देवताऽ-सृज्यत तमनु मनुष्यो ब्राह्मणोऽसृज्यत तथा तदनु वस-न्ताख्यश्च ऋतुरसृज्यत यस्माद्यदेते मुखतएव सृष्टाः तस्मादेतेत्रिवृदादयः स्वस्वजातीयानां मध्ये मुख्या अभवन् त्रिवृदा-दीनां मुख्यानां मध्ये ब्राह्मणस्य मुख्यत्वप्रयुक्तं वीर्य्यं लोक-सिद्धं दर्शयति तस्मान्मुखसृष्टत्वेन मुख्यत्वात् ब्राह्मणो मुखे-नेदानीमपि वीर्य्यं स्वाध्यायप्रवचनादिजन्यं सामर्थ्यङ्करोतितस्मादित्युक्तं विवृणोति हि यस्माद्ब्राह्मणो मुखतः सृष्ट-स्तस्मादित्यर्थः
एवमुक्तमर्थं यो वेद सोऽपि मुखेन वीर्य्यं-ङ्करोति मुखसाध्येन स्वाध्यायप्रवचनादिनैवाभीष्टं साधयतिइत्यर्थः” इति “ब्राह्मणोऽस्य मुखमासीदिति” पुरुषसूक्तम् अतएव विप्रस्य मुखजातत्वेन मुखसाध्यस्वाध्यायाभ्यसने एववीर्य्यं भवतीत्यप्युक्तम् अतएव मनुना “वेदमेव सदाभ्यस्ये” दित्यु-क्तम् हारीतसंहितायां तु “षट् कर्म्माणि, निजान्याहुर्ब्राह्म-णस्य महात्मनः तैरेव सततं यस्तु वर्त्तयेत् सुखमेधतेअध्यापनं चाध्ययनं याजनं यजनं तथा दानं प्रतिग्रहश्चेति षट् कर्म्माणीति चोच्यते” इति “वेदञ्चैव सदाभ्यस्येत्शुचौ देशे समाहितः धर्म्मशास्त्रं तथा पाठ्यं ब्राह्मणैः शुद्ध-मानसैः वेदवत् पठितव्यञ्च श्रोतव्यञ्च दिवानिशिश्रुतिहीनाय विप्राय स्मृतिहीने तथैव दानं भोजन-मन्यच्च दत्तं कुलविनाशनम् तस्मात् सर्वप्रयत्नेन वेदशास्त्रं पठेत्, द्विज इति” “सत्त्वप्रधाना विप्राः स्युरितिभारतोक्तेः विप्रस्य सत्वप्रधानतया “ब्राह्मणक्षत्त्रियविशांशूद्राणाञ्च परन्तप! कर्म्माणि प्रविभक्तानि स्वभावप्रभवै-र्गुणैः शमोदमस्तपः शौचं क्षान्तिरार्जवमेव ज्ञानंविज्ञानमास्तिक्यं ब्रह्मकर्म्म स्वभावजमिति” गीतायांसात्विकधर्म्माएवास्य स्वाभाविका इत्युक्तम् विवृतञ्चैतत्श्रीधर स्वामिना “तत्र ब्राह्मणस्य स्वाभाविकानि कर्म्माण्याहशम इति, शमश्चित्तोपरमः (बाह्यविषयान्निवर्त्तनम्) दमो-बाह्येन्द्रियोपरमः (स्वस्वविषयान्निवर्त्तनम्) तपः पूर्व्वोक्तं(सगुणब्रह्मोपासनादि) शौचं वाह्यमाभ्यन्तरञ्च क्षान्तिः(शीतोष्णादिद्वन्द्वसहिष्णुता) आर्जवम् अवक्रता (बाह्या-भ्यन्तरयोः कापठ्याभावः) ज्ञानं शास्त्रीयं विज्ञानमनुभवःआस्तिक्यम् अस्ति परलोक इति निश्चयः एतत् शमादिब्राह्मणस्य स्वभावात् जातं कर्म्मेति” “मुखजातादयोप्यत्रअग्रे प्रथमं जन्म यस्य चतुर्मुखे ब्रह्मणि, “यो वै ब्रह्माणंविदधाति पूर्वं यश्चास्मै प्रहिणोति वेदमिति” “हिरण्यगर्भः समवर्त्तताग्रे” इति श्रुतौ परब्रह्मसकाशात् तस्यप्रथमोत्पत्तिरुक्ता, तदुत्पत्तिप्रकारस्तु मनुना “सोऽभिध्यायशरीरात् स्वात् सिसृक्षुर्बहुधा प्रजाः अप एव ससर्जादौतासु बीजमवासृजत् तदण्डमभवद्धैमं सहस्रांशुसमप्रभम्तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामह” इत्यनेनोक्तः