| YouTube Channel

अग्रः (agraH)

 
Apte Hindi
Hindi
अग्रः
पुं*
- "अङ्ग्+रक्, ङलोपः"
पहाड़ की नोक या अगला भाग
E Bharati Sampat
Sanskrit
(वि) अगति | अग(कुटिलायां गतौ)+रन् | ‘ऋज्रेन्द्राग्र०’ उ०२.२९। १.प्रमुखः, प्रधानम् २.अधिकः। ३.प्रथमः। ४.पुरस्तात् स्थितः। (पुं) ५.स्वप्नः। ‘संस्कारमात्रजः स्वप्नः, अदृष्टजस्त्वत्र चाग्रः’ वैज०। ६.उपरि, ऊर्ध्वभागः। ‘पद्मानि यस्याग्रसरोरुहाणि’ कुमा०१.१६। ७.पुरोभागः, पूर्वभागः। ‘अथाग्रहस्ते मुकुलीकृताङुलौ’ कुमा०। ८.आलम्बनम्, आश्रयः, विश्रान्तिस्थानम् ‘मनुरेकाग्रमासीनम्’ मनुः१.१। (न) ९.समूहः, यूथम् ।१०.अग्रभागः। ‘प्रणर्तितानेकलताभुजाग्रान्’ माघ०४.७। ११.पलुपरिमाणम् १२.बाह्यणभोजनम्, भोजनप्रत्याम्नायवस्तुदानम् १३.उत्कर्षः, श्रेष्ठत्वम् १४.प्रान्तभागः, समीपप्रदेशः। ‘हर्म्याग्रसंरूढतृणाङ्कुरेषु’ रघुः६.४७। १५.शिखरम् ‘शिरोऽग्रं शिखरं वा ना’ अमरः। ‘कैलासाग्रसमासीनम्’ तन्त्रम् ‘अग्रं पुरस्तादुपरि परिमाणे पलस्य आलम्बने समूहे प्रान्ते स्यान्नपुंसकम् अधिके प्रधाने प्रथमे चाभिधेयवत्’ मेदिनी
Wordnet
Sanskrit
Synonyms:
अग्रः, शिरः, शिखरम्
noun
कस्यपि वस्तुनः सूचिवत् अग्रभागः।
"दुर्योधनः श्रीकृष्णाय अकथयत् नाहं ददामि सूच्याः अग्रेण तुल्यां भूमिम् अपि पाण्डवेभ्यः।"
शब्दकल्पद्रुमः
Sanskrit
अग्रः, त्रि, श्रेष्ठः उत्तमः इत्यमरः
प्रधानं ।अधिकः प्रथमः इति मेदिनी