| YouTube Channel

अग्न्युद्धार (agnyuddhAra)

 
वाचस्पत्यम्
Sanskrit
अग्न्युद्धार
पु०
अग्नेःआधनार्थमुद्धारः अरणिमन्थनेन उत्था-पनम् अरणिद्वयघर्षणेनानलोत्पादने तत्प्रकारस्तु“अश्वत्थो यः शमीगर्भः प्रशस्तोर्वीसमुद्भवः तस्य या प्राङ्-मुखी शाखा वोदीची वोर्द्धगापि वा
अरणिस्तन्मयी प्रोक्तातन्मय्येवोत्तरारणिः सारवद्दारवञ्चत्रमोविली प्रश-स्यते
संसक्तमूलो यः शम्याः शमीगर्भ उच्यते ।अलाभे त्वशमीगर्भादुद्धरेदविलम्बितः
चतुर्विंशतिरङ्गुष्ठ-दैर्घ्यं षडपि पार्थिवम् चत्वार उच्छ्रये मानमरण्योःपरिकीर्त्तितम्
अष्टाङ्गुलः प्रमन्थः स्याच्चत्रं स्याद्द्वाद-शाङ्गुलम् ओविली द्वादशैव स्यादेतन्मन्थनयन्त्रकम्
अङ्गुष्ठाङ्गुलमानन्तु यत्र यत्रोपदिश्यते तत्र तत्र बृहत्-पर्व्वग्रन्थिभिर्म्मिनुयात् सदा
गोबालैः शणसंमिश्रैस्त्रि-वृत्तममलात्मकम् व्यामप्रमाणं नेत्रं स्यात् प्रमथ्यस्तेनपावकः
मूर्द्धाक्षिकर्णवक्त्राणि कन्धरा चापि पञ्चमी ।अङ्गुष्ठमात्राण्येतानि द्व्यङ्गुष्ठं वक्ष उच्यते
अङ्गुष्ठमात्रंहृदयं त्र्यङ्गुष्ठमुदरं स्मृतम् एकाङ्गुष्ठा कटिर्ज्ञेया द्वौवस्तिर्द्वौ गुह्यकम्
ऊरू जङ्घे पादौ चतुस्त्र्येकैर्यथाक्रमम् अरण्यवयवाह्येते याज्ञिकैः परिकीर्त्तिताः
यत्तद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते अस्यां योजायते वह्निः कल्याणकृदुच्यते
अन्येषु ये तु मथ्नन्तिते रोगभयमाप्नुयुः प्रथमे मन्थने त्वेष नियमो नोत्तरेषुच
उत्तरारणिनिष्पन्नः प्रमन्थः सर्व्वदा भवेत् योनि-सङ्करदोषेण युज्यते ह्यन्यमन्थकृत्
आर्द्रा सशुषिराचैव घूर्णाङ्गी पाटिता तथा हिता यजमानानामर-णिश्चोत्तरारणिः
परिधायाऽहतं वासः प्रावृत्य यथा-विधि बिभृयात् प्राङ्मुखो यन्त्रमावृता वक्ष्यमाणया
चत्रव्रध्नप्रमन्थाग्रं गाढं कृत्वा विचक्षणः कृत्वोत्तराग्रामरणिं तद्व्रध्नमुपरि न्यसेत्
चत्राधः कीलकाग्रस्थामोवि-लीमुदगग्रकाम् विष्टम्भाद्धारयेद् यन्त्रं निष्कम्पं प्रयतःशुचिः” इति कात्या० स०