अग्न्युत्पात (agnyutpAta)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Goldstucker
EnglishApte Hindi
Hindiअग्न्युत्पातः
अग्निः-उत्पातः -
"अग्निसंबंधी उत्पात, उल्का या धूमकेतु आदि"
Shabdartha Kaustubha
Kannadaअग्न्युत्पात
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಗ್ನಿಯಿಂದ ಸೂಚಿತವಾದ ಅನಿಷ್ಟ
अग्न्युत्पात
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅನಿಷ್ಟಸೂಚಕವಾದ ಬೆಂಕಿಯ ಸುರಿಮಳೆ
अग्न्युत्पात
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಧೂಮಕೇತು
व्युत्पत्तिः - > अग्नेः उत्पातः ।
वैजयन्तीकोषः
SanskritWord: अग्न्युत्पातः
Root: अग्न्युत्पात
Gender: पुं
Number: all
अर्थः ⇒ आकाशादिषु अग्निविकारः
Meaning(s):
⇒ Meteor
Shloka(s):
1|2|33|1 ► भसितं भस्म भूतिः स्यादग्न्युत्पात उपाहितः। (स्वर्गकाण्डः/लोकपालाध्यायः)
Synonym(s):
➠ 1|2|33|1 ⇢ अग्न्युत्पातः (अग्न्युत्पात) (पुं) ⇒ Meteor ⇒ आकाशादिषु अग्निविकारः
➠ 1|2|33|1 ⇢ उपाहितः (उपाहित) (पुं) ⇒ Meteor ⇒ आकाशादिषु अग्निविकारः
Related word(s):
परा_अपरासंबन्धः ➡ अग्निः
जातिः ➡ दिव्यम्
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritअग्न्युत्पात अग्निना दिव्यानलेन कृत उत्पातः (अनिष्ट-सूचकोपद्रवः) उद् + पत--घञ् ३ त० । आकाशस्थानलविकारसूचितोपद्रवे, उल्कापातादावशुभसूचके, धूमकेतुकृत-विकारे च । स च नाभस उत्पातः उल्कादिरूपः पञ्चविधः धिष्ण्योल्काशनिविद्युत्ताराभेदात् । तेषां लक्ष-णादिकं फलसहितम् बृहत्संहितायामुक्तं ३३ अ० यथा“दिवि भुक्तशुभफलानां पततां रूपाणि यानि तान्युल्काः ।धिष्ण्योल्काशनिविद्युत्तारा इति पञ्चधा भिन्नाः ॥
उल्का पक्षेण फलं तद्वद्धिष्ण्याशनिस्त्रिभिः पक्षैः ।विद्युदहोभिः षड्भिस्तद्वत्तारा विपाचयति ॥
ताराफलपादकरी फलार्धदात्री प्रकीर्त्तिता धिष्ण्या । तिस्रःसम्पूर्णफला विद्युदयोल्काशनिश्चेति ॥
अशनिः स्वनेनमहता मृगजाश्वमृगाश्मवेश्मतरुपशुषु । निपतति विदा-रयन्ती धरातलं चक्रसंस्थाना ॥
विद्युत्सत्वत्रासं जनयन्तीतटतटस्वना सहसा । कुटिलविशाला निपतति जीवे-न्धनराशिषु ज्वलिता ॥
धिष्ण्या कृशाल्पपुच्छा धनूंषिदश दृश्यतेऽन्तराभ्यधिकम् । ज्वलिताङ्गारनिकाशा द्वौहस्तौ सा प्रमाणेन ॥
तारा हस्तं दीर्घा शुक्ला ताम्राब्ज-तन्तुरूपा वा । तिर्यगधश्चोर्ध्वं वा याति वियत्युह्य-मानेव । उल्का शिरसि विशाला निपतन्ती वर्धते प्रत-नुपुच्छा । दीर्घा भवति च पुरुषा भेदा बहवो भवन्त्यस्याः ।प्रेतप्रहरणखरकरभनक्रकपिदंष्ट्रिलाङ्गलमृगाभाः । गो-धाहिधूमरूपाः पापा या चोभयशिरस्का ॥
ध्वजझष-करिगिरिकमलेन्दुतुरगसन्तप्तरजतहंसाभाः । श्रीवत्सव-ज्रशङ्खस्वस्तिकरूपाः शिवसुभिक्षाः ॥
अम्बरमध्याद्बह्व्योनिपतन्त्यो राजराष्ट्रनाशाय । बम्भ्रमती गगनोपरि विभ्र-ममाख्याति लोकस्य ॥
संस्पृशती चन्द्रार्कौ तद्विसृता वासभूप्रकम्पा च । परचक्रागमनृपबध--दुर्भिक्षावृष्टिभयजननीपौरेतरघ्नमुल्कापसव्यकरणं दिवाकरहिमांश्वोः । उल्काशुभदा पुरतो दिवाकरविनिःसृता यातुः ॥
शुक्ला रक्तापीता कृष्णा चोल्का द्विजादिवर्णाभा । क्रमशश्चैतान्हन्युर्मूर्धोरःपार्श्वपुच्छस्थाः ॥
उत्तरदिगादिपतिता विप्रा-दीनामनिष्टदा रूक्षा । ऋज्वी स्निग्धाखण्डा नीचोपगताच तद्वृद्ध्यै ॥
श्यामा वारुणनीलाऽसृग्दहनासितभस्मनिभारूक्षा । सन्ध्यादिनजा वक्रादलिता च परागमभयाय ॥
नक्षत्रग्रहधाते तद्भक्तीनां क्षयाय निर्दिष्टा । उदये घ्नतीरवीन्दू पौरेतरमृत्यवेऽस्ते वा ॥
भाग्यादित्यधनिष्ठामूले-षूल्काहतेषु युवतीनाम् । विप्रक्षत्रियपीडा पुष्यानिलविष्णुदेवेषु ॥
ध्रुवसौम्येषु नृपाणामुग्रेषु सदारुणेषु चौराणाम् ।क्षिप्रेषु कलाविदुषां पीडा साधारणे च हते ॥
कुर्वन्त्येताःपतिता देवप्रतिमासु राजराष्ट्रभयम् । शक्रोपरि नृपतीनांगृहेषु तत्स्वामिनां पीडाम् ॥
आशाग्रहोपघाते तद्दे-श्यानां खले कृषिरतानाम् । चैत्यतरौ सम्पतिता सत्कृति-पीडां करोत्युल्का ॥
द्वारि पुरस्य पुरक्षयमथेन्द्रकीले जनक्षयोऽभिहितः । ब्रह्मायतने विप्रान् विनिहन्याद्गोमिनोगोष्ठे ॥
क्ष्वेडास्फोटितवादितगीतोत्क्रुष्टस्वना भवन्ति यदा ।उल्का निपातसमये भयाय राष्ट्रस्य सनृपस्य ॥
यस्याञ्चिरंतिष्ठति खेऽनुषङ्गो दण्डाकृतिः सा नृपतेर्भयाय । याचोह्यते तन्तुधृतेव खस्था या वा महेन्द्रध्वजतुल्यरूपा ॥
श्रेष्ठिनः प्रतीपगा तिर्यगा नृपाङ्गनाः । हन्त्यधोमुखीनृपान् ब्राह्मणानथोर्द्ध्वगा ॥
बर्हिपुच्छरूपिणी लोकसङ्क्षयावहा । सर्पवत् प्रसर्पिणी योषितामनिष्टदा ॥
हन्तिमण्डला पुरं छत्रवत् पुरोहितम् । वंशगुल्मवत् स्थिताराष्ट्रदोषकारिणी ॥
व्यालसूकरोपमा विस्फुलिङ्गमालिनी ।खण्डशोऽथ वा गता सस्वना च पापदा ॥
सुरपतिचाप-प्रतिमा राज्यं नभसि विलीना जलदान् हन्ति । पवन-विलोमा कुटिलं याता न भवति शस्ता विनिवृत्ता वा ॥
अभिभवति यतः पुरं बलं वा भवति भयं तत एवपार्थिवस्य । निपतति च यया दिशा प्रदीप्ताजयति रिपूनचिरात्तया प्रयातः” ॥
तत्कारण-मुक्तं गर्गसंहितायाम् “अतिलोभादसत्याद्वा नास्ति-क्याद्वाप्यधर्म्मतः । नरापचारान्नियतमुपसर्गः प्रवर्त्तते ।ततोऽपराधान्नियतमपवर्जन्ति देवताः । ताः सृजन्त्यद्भुतां-स्तांस्तु दिव्यनाभसभूमिजान् । त एव त्रिविधा लोकेउत्पाता देवनिर्म्मिताः । विचरन्ति विनाशाय रूपैः संबो-धयन्ति च” इति । अनिष्टसूचकरूपभेदाश्च बृहत्संहिता-वाक्ये प्राक् दर्शिताः । तल्लक्षणं काश्यपेन सामान्यत उक्तम्“बृहच्छिखा च सूक्ष्माग्रा रक्तनीलशिखोज्ज्वला । पौरु-षेय प्रमाणेन उल्का नानाविधा स्मृतेति” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
