| YouTube Channel

अग्नीन्धनम् (agnIndhanam)

 
E Bharati Sampat
Sanskrit
(न) अग्निः इध्यते अनेन अस्मिन् वा अग्नि+इधि(दीप्तौ)+ल्युट् ‘करणाधिकरणयोश्च’ ३.३.११७। १.हविर्दानादिपूर्वकाग्निज्वालनम्, अग्निकार्यम् ‘अग्नीन्धनमग्निकार्यम्’ हैमः। ‘अग्नीन्धनं भैक्ष्यचर्यामधःशय्यां गुरोर्हितम् समावर्तनात् कुर्यात् कृतोपनयनो द्विज:’ मनु:२.१०८। (स्त्री) अग्नीन्धनी