| YouTube Channel

अग्नीन्धनं (agnIndhanaM)

 
शब्दकल्पद्रुमः
Sanskrit
अग्नीन्धनं,
क्ली,
(अग्नौ इन्धनम् अग्नि + इन्ध् +करणे ल्युट् ।) अग्निकार्य्यं हविर्द्दानादिपूर्व्व-काग्निज्वालनं इति हेमचन्द्रः
यथाह मनुः --“अग्नीन्धनं भैक्षचर्य्यामधः शय्यां गुरोर्हितम् ।आसमावर्त्तनात् कुर्य्यात् कृतोपनयनो द्विजः”