| YouTube Channel

अग्निहोत्रं (agnihotraM)

 
पुराणम्
English
अग्निहोत्रम् / AGNIHOTRA(M). This is a sacrifice offered to Agnideva. This has two parts, nitya and Kāmya.
शब्दकल्पद्रुमः
Sanskrit
अग्निहोत्रं,
क्ली,
(अग्नये होत्रम् अत्र इतिबहुव्रीहिः ।) यज्ञविशेषः तत् द्विविधं ।माससाध्यं यावज्जीवनसाध्यञ्च द्वितीये वि-शेषोऽयं तदग्नौ यावज्जीवं प्रत्यहं प्रातःसायं हवनं तदग्निना यागकर्त्तुर्दाहश्च इतिस्मृतिः
तत्र क्रमो यथा ब्राह्मणक्षत्त्रिय-वैश्यानां कृतदारपरिग्रहाणां काणत्वान्धत्व-वधिरत्वपङ्गुत्वादिदोषरहितानां वर्णक्रमेण वस-न्तग्रीष्मशरत्सु अग्न्याधानं विहितं अग्न-यस्त्रयः गार्हपत्यः दक्षिणाग्निः आहवनीयः३ एषामाधानं नाम देशविशेषे तत्तन्मन्त्रैःस्थापनं तेष्वग्निषु सायंकाले प्रातःकाले चा-ग्निहोत्रहोमः कर्त्तव्यः अग्निहोत्रं नाम होमस्यनामधेयं अग्नये होत्रं होमो यस्मिन् कर्म्म-णीति व्यधिकरणबहुव्रीहिः तत्र द्रव्याणिदश पयः दधि यवागूः घृतं ओदनः५ तण्डुलाः सोमरसः मांसं तैलं माषाः१० सम्प्रति कलियुगे पयसा तण्डुलैर्यवाग्वाच होम-शिष्टाचारप्रसिद्धः तत्र एक ऋत्विक्नित्यं होमः यजमानेन वा कर्त्तव्यः ऋत्विजा वाकारयितव्यः अमावास्यायान्तु रात्रौ यवा-गूद्रव्येण यजमानेनैव कर्त्तव्यः चाग्निहोत्र-होमः आरम्भप्रभृति यावज्जीवनं कर्त्तव्यः ।प्रथमदिने पूर्व्वोक्तानां दशानां द्रव्याणां मध्येसम्प्रति प्रचलद्रूपाणाञ्च मध्ये येन द्रव्येणप्रथमाग्निहोत्रहोमः कृतः तेनैव द्रव्येण या-वज्जीवनं कर्त्तव्यः प्रथमहोमश्च यस्मिन्दिने अग्न्याधानं कृतं तस्मिन् दिने सायं-काले आरम्भणीयः तत्र शतहोमे सूर्य्योदेवता सायंकाले अग्निर्देवता आधानानन्तरंप्रथमपौर्णमास्यां दर्शपूर्णमासयागारम्भः क-र्त्तव्यः दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेतिविधिवाक्यं तत्र षड्यागाः पौर्णमास्यांत्रयः अमायां त्रयः पौर्णमास्यामाग्नेयाग्नी-षोमीयोपांशुयागास्त्रयो यागाः अमावस्या-यामाग्नेयैन्द्रदधिपयो यागास्त्रयः तत्रामायांकर्त्तव्ययागत्रयस्य दर्शपदं नामधेयं पौर्ण-मास्यां कर्त्तव्ययागत्रयस्य पूर्णमासपदं नाम-धेयं दर्शश्च पूर्णमासश्च दर्शपूर्णमासावितिद्वन्द्वः पौर्णमासयागस्य प्राथमिकत्वेऽपि अल्पा-च्तरमिति पाणिनीयानुशासनानुसारेण दर्श-शब्दस्याल्पाच्कत्वात् पूर्व्वनिपातः दर्शपूर्ण-मासावपि यावज्जीवं कार्य्यौ तत्रापि त्रयाणांवर्णानामुपरि लिखितान्धत्वाद्यधिकारप्रतिबन्ध-कीभूतदोषसम्बन्धाभाववतां कृताग्निधानानां स-पत्नीकानामधिकारः सामान्यतः पर्ब्बण्यारम्भःप्रतिपदि याग इति परिभाषा तत्राकृत-सोमयागस्य यजमानस्य पौर्णमास्यामाग्नेयपुरो-डाशयागः आज्येनोपांशुयाजयागः अमायान्तुआग्नेयपुरोडाशयागः ऐन्द्राग्नपुरोडाशयागः ।कृतसोमयागस्य यजमानस्य तु पौर्णमास्यामा-ग्नेयपुरोडाशयागः आज्येनोपांशुयाजयागः अग्नी-षोमीयपुरोडाशयागः अमायान्तु आग्नेयपुरो-डाशयागः ऐन्द्रपयोयागः ऐन्द्रदधियागश्चेतित्रयः तत्र ऋत्विजश्चत्वारः अध्वर्य्युः ब्रह्मा२ होता अग्नीदिति यजुर्वेदकर्म्मकर्त्ताअध्वर्य्युः ऋग्यजुःसामवेदत्रयकर्म्मकर्त्ता ब्रह्मा ।ऋग्वेदकर्म्मकर्त्ता होता अग्नीत्तु प्रायशो-ऽध्वर्य्योरेवानुयायी तत्प्रेरितकर्म्मकर्त्ता पुरो-डाशो व्रीहितण्डुलैर्यवतण्डुलैर्वा कर्त्तव्यः अग्नि-होत्रवद्येन द्रव्येणारम्भः कृतस्तेनैव द्रव्येण याव-ज्जीवं यागः कर्त्तव्यः आरम्भवेलायामिच्छैवनियामिकेत्यादिदिङ्यात्रमिदं इति यजुर्वेदः
*
यज्ञाग्निसञ्चयः तत्पर्य्यायः अग्न्याधानं अ-ग्निरक्षणं इति हेमचन्द्रः