| YouTube Channel

अग्निस्वात्ताः (agnisvAttAH)

 
शब्दकल्पद्रुमः
Sanskrit
अग्निस्वात्ताः,
पुं,
(अग्निना सुष्ठु यथा स्यात् एवम्आत्ताः भक्षिताः, श्रौतस्मार्त्ताग्निदग्धा इत्यर्थः ।मन्वादिस्मृतिषु मूर्द्ध्वन्यषकारवान् एव पाठः ।मूर्द्ध्वन्यादेशस्तु युक्तः ।) मरीचिपुत्त्रपितृगण-विशेषः नित्यबहुवचनान्तशब्दोऽयं इतिशब्दमाला, --“विराट्सुताः सोमसदः साध्यानां पितरः स्मृताः ।अग्निस्वात्ताश्च देवानां मारीच्या लोकविश्रुताः”
इति मनुः