| YouTube Channel

अग्निस्वात्त (agnisvAtta)

 
Monier Williams Cologne
English
अग्नि—स्वात्त See -ष्वात्त॑.
Goldstucker
English
अग्निस्वात्त See अग्निष्वात्त.
वाचस्पत्यम्
Sanskrit
अग्निष्वा(स्वा)त्त
पु०
ब० व० अग्नितः (श्राद्धीयविप्रकर-रूपानलात् सुष्ठु आत्तं ग्रहणं येषां आद-दा-क्त षत्वमितिबहवः मरीचिपुत्रे पितृगणविशेषे “अग्निष्वा(स्वा)त्ताःवर्हिषदः ऊष्मपा आज्यपास्तथेति” मनुः तैत्ति-रीयब्राह्मणे तु अन्यथा निरुक्तं यथा “अग्निष्वात्ता-नृतुमतो हवामहे नराशंसे सोमपीथं आशुः ।ते नो अर्वन्तः सुहवा भवन्तु शन्नो भवन्तुद्विपदे शं चतुष्पदे” इति “अग्निष्वात्ता अग्निष्वात्त-नामकाः पितरः पितृविशेषाः ते चातुर्मास्यगतपितृ-यज्ञब्राह्मणे स्पष्टमभिहिताः, “ये वा अयज्वानो गृहमेधिनस्वे पितरोऽग्निष्यात्ता” इति मनुष्यजन्मन्यग्निष्टोमादिया-गमकृत्वा स्मार्त्तकर्म्मनिष्ठाः सन्तो मृत्वा पितृत्वं गताः ।तानग्निष्वात्तान्” इति तद्भाष्ये माधवाचार्य्यः