| YouTube Channel

अग्निस्तम्भनः (agnistambhanaH)

 
E Bharati Sampat
Sanskrit
(वि) अग्नेः स्तम्भनः। अग्निं स्तभ्नाति अग्नि+स्तभु(स्तम्भने)+ल्युः ’नन्दि०’ ३.१.१३४। अग्निदाहनशक्तिनिरोधकः १.मणिः। २.मन्त्रः। ३.ओषधिः। (न) अग्नेः स्तम्भनम् ४.मणिमन्त्रौषधिद्वारा अग्नेः दाहकशक्तिनिवारणम् ‘शाल्मलीरसमादाय खरमूत्रे निधापितम् अग्न्यागारे क्षिपेत् तेन अग्निस्तम्भनमुत्तमम् ॥’ गरुडपु०१८६अ०।