| YouTube Channel

अग्निस्तम्भन (agnistambhana)

 
Monier Williams Cologne
English
अग्नि—स्तम्भन
n.
the (magical) quenching of fire.
शब्दकल्पद्रुमः
Sanskrit
अग्निस्तम्भनं,
क्ली,
(अग्नेः स्तम्भनम् षष्ठीतत्-पुरुषः ।) मन्त्रौषधिद्वारा अग्नेर्द्दाहिकाशक्ति-निवारणं तद्यथा, --“मालूरस्य वासां ग्टह्य जलौकां तत्र पेषयेत् ।हस्तौ तु लेपयेत्तेन अग्निस्तम्भनमुत्तमं
मालूरस्य स्थाने मानुषस्य इति वा पाठः
शाल्मलीरसमादाय खरमूत्रे निधापितं ।अग्न्यागारे क्षिपेत्तेन अग्निस्तम्भनमुत्तमं
वायसी उदरं ग्टह्य मण्डूकवसया सह ।गुटिकां कारयेत्तेन ततोऽग्निं प्रक्षिपेद्वशी
एवमेतत् प्रयोगेण अग्निस्तम्भनमुत्तमं
रक्तपाटलमूलन्तु अवष्टब्धञ्च मूलकैः
दिव्यं स्तम्भयते क्षिप्रं पयःपिण्डं जलान्तकं
मुण्डीतका वचा कुष्ठं मरीचं नागरं तथा
चर्व्वित्वा इमं सद्यो जिह्वया ज्वलनं लिहेत् ।गोरोचनां भृङ्गराजं चूर्णीकृत्य घृतं समं
दिव्यस्तम्भश्च पीत्वा स्यान्मन्त्रेणानेन वै तथा” ।ओमह्यं अग्निस्तम्भनं कुरु इति गारुडे १८६अध्यायः