| YouTube Channel

अग्निष्टोमसाम (agniSTomasAma)

 
Monier Williams Cologne
English
अग्नि—ष्टोम—साम॑,
m.
and अग्नि—ष्टोम—साम॑न्,
n.
the passage of the Sāma-veda chanted at the Agniṣṭoma
E Bharati Sampat
Sanskrit
(न) (अग्निष्टोमसामन्) अग्निष्टोमे अवसाने विहितं साम गानविशेषः। अग्निष्टोमयज्ञसमापके तृतीयसवने विहितः ‘यज्ञायज्ञीय’ इत्यादौ ऋचि गीयमानः सामवेदः।
वाचस्पत्यम्
Sanskrit
अग्निष्टोमसाम
न०
अग्निष्टोमे अवसाने विहितंसाम गानविशेषः अग्निष्टोमयज्ञसमापके तृतीय-सवने विहिते “यज्ञायज्ञीय” इत्यस्यामाग्न्येय्यामृचि गीय-माने सामवेदे “प्रकृतौ (अग्निष्टोमे) तृतीयसवने आर्भव-पवमानस्योपरि यज्ञायज्ञीयं साम गीयते तेन साम्नाअग्निष्टोमस्य समाप्यमानत्वादग्निष्टोमसामेत्युच्यते इति सा०भा० “ब्रह्मणो वा एष रसो यद्यज्ञाज्ञीयं स्तुवन्तिब्रह्मणएव रसे यज्ञं प्रतिष्ठापयन्तीति” ताण्ड्यब्राह्मणम्तच्च साम यज्ञायज्ञीयशब्दे वक्ष्यते