| YouTube Channel

अग्निष्टोमः (agniSTomaH)

 
Apte Hindi
Hindi
अग्निष्टोमः
नपुं*
अग्निः-स्तोमम् -
वसन्त में कई दिन तक चलने वाला यज्ञीय अनुष्ठान या दीर्घकालिक संस्कार जो ज्योतिष्टोम का एक आवश्यक अंग है
E Bharati Sampat
Sanskrit
(पुं) अग्नेः स्तोमः स्तुतिसाधनं तृचसमुदायः अवसाने यत्र १.अग्निस्तुतियुक्तः यागविशेषः। ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ श्रुतिः। २.षष्ठस्य मनोः पुत्रः।
Wordnet
Sanskrit
Synonyms:
अग्निष्टोमः
noun
वसन्तऋतौ अनुष्ठीयमानः ज्योतिष्टोमयागस्य विकारः।
"अग्निष्टोमस्य अधिकारी केवलः अग्निहोत्रिब्राह्मणः एव अस्ति।"
शब्दकल्पद्रुमः
Sanskrit
अग्निष्टोमः,
पुं,
(अग्नीनां स्तोमः अग्नेः स्तुत्-स्तोमसोमा इति षः ।) यज्ञविशेषः इतिशब्दरत्नावली
तस्य विधिः ज्योतिष्टोमेनस्वर्गकामो यजेतेति वाक्यविहितज्योतिष्टोमना-मकयागविशेषस्य गुणविकारोऽग्निष्टोमो नाम ।तस्य कालो वसन्तः तत्राधिकारी अधीतवेदआहिताग्निश्च द्रव्यं सोमः देवता इन्द्रवाष्वा-दयः ऋत्विजः षोडशः तेषाञ्च चत्वारो गणाः ।होतृगणः अध्वर्य्युगणः ब्रह्मगणः उद्गातृ-गणः एकैकस्य गणस्य चत्वारश्चत्वारः तत्रहोतृगणे होता प्रशास्ता अच्छावाकः ३ग्रावस्तोता अध्वर्य्युगणे अध्वर्य्युः प्रति-प्रस्थाता नेष्टा उन्नेता ब्रह्मगणे ब्रह्मा १ब्राह्मणाच्छंशी अग्नीतृ पोता उद्गातृ-गणे उद्गाता प्रस्तोता प्रतिहर्त्ता सु-ब्रह्मण्यः पञ्चाहसाध्यः प्रथमदिनेदीक्षा दीक्षणीयादितदङ्गानुष्ठानं तत्र द्वितीय-दिवसे प्रायणीययागः सोमलताक्रयणं ततोद्वितीयतृतीयचतुर्थदिवसेषु प्रातःकाले सायंकालेच प्रवर्ग्योपसन्नामकयागानुष्ठानं चतुर्थदिवसेप्रवर्ग्योद्वासनानन्तरं अग्नीषोमीयपश्वनुष्ठानं ।तत्र यस्य यजमानस्य ग्टहे पितृपितामहप्रपिता-महानां मध्ये केनापि वेदो नाधीतोऽग्निष्टोमोवा कृतः दुर्ब्राह्मणो भवति तस्य दौ-र्ब्राह्मण्यपरिहारायाश्विनपशुः कर्त्तव्यः यस्ययजमानस्य पितृपितामहप्रपितामहानां मध्येकेनापि सोमपानं कृतं स्यात् तस्य सोमपान-विच्छेददोषपरिहारार्थमैन्द्राग्नपश्वनुष्ठानं कर्त्तव्यं ।इत्थं त्रयाणां पशूनां युगपदालम्भपक्षे एकस्मि-न्नेव यूपे त्रयाणां पशूनां बन्धनं इत्थं पशु-त्रयानुष्ठानं चतुर्थदिवसे तस्मिन्नेव दिने वातृतीयभागे उत्थाय प्रयोगारम्भः कार्य्यः तत्रपात्रासादनं पात्राणि ग्रहाश्चमसाः स्थाल्य-श्चेति तत्र ग्रहपात्राणि वितस्तिमात्राणिउलूखलाकाराणि ऊर्द्धपात्राणि चमसपात्राणितावत्परिमितान्येव तिर्य्यगाकृतीनि कोणचतु-ष्टयविशिष्टानि धारणार्थदण्डयुक्तानि स्थाल्योमार्त्तिक्यः तत आरभ्य सोमलताकण्डनेनसोमरसं निष्कास्य निष्कास्य ग्रहैश्चमसैश्च होमःकर्त्तव्यः तत्र सूर्य्योदयानन्तरं आग्नेयपशुयागःकर्त्तव्यः एवमुक्थ्यपर्य्यायान्ते कृते प्रातःसवन-समाप्तिः ततो मध्यन्दिनसवनं तत्र दक्षिणा-दानं दक्षिणा द्वादशोत्तरशतं गावः तत-स्तृतीयसवनं इत्थं प्रातःसवनमाध्यन्दिनसवन-तृतीयसवनरूपसवनत्रयात्मकः अग्निष्टोमः प्र-धानयागः इतरेऽङ्गयागाः तृतीयसवनसमा-प्त्युत्तरमवभृथयागः उदके वरुणदेवताकपुरो-डाशहोमः तदनन्तरमनुबन्ध्या पशुयागः ।तत्र गौः पशुः तस्य कलिनिषिद्धत्वात् तस्यच नित्यत्वात् तत् स्थाने आमीक्षायागः ततउदयनीया तत उदवसानीया सा पञ्चम-दिवसे यावद्रात्रि कर्त्तव्या तत्समाप्तावग्निष्टोम-यागसमाप्तिः इत्यग्निष्टोमयागीयपदार्थकला-सूची