| YouTube Channel

अग्निरेतस् (agniretas)

 
वाचस्पत्यम्
Sanskrit
अग्निरेतस्
न०
त० अग्निशुक्रे, तज्जातत्वात् सुवर्णे चतत्कथा प्रस्कन्नरुद्रशुक्रस्य अग्निसंक्रान्तस्याग्निना देवताप्रार्थनया गङ्गयामाहितस्य तया वोढुमसमर्थया “समु-त्ससर्ज्ज तं गर्भं मेरौ गिरिवरे तदेत्यनेन” मेरौ पातने कृतेतस्य तेजसैव मेरुस्थं सर्व्वं वस्तु सुवर्ण्णीकृतं यथोक्तमानु-शासनिके प० भा० “तेजसा तस्य गर्भस्य भास्करस्येवरश्मिभिः यद्द्रव्यं परिसंसृष्टं पृथिव्यां पर्व्वतेषु ।तत् सर्व्वं काञ्चनीभूतं समन्तात् प्रत्यदृश्यत” इति अन्ते च“तस्मात् सुवर्णं माङ्गल्यं रत्नानामुत्तमोत्तमम् सहजंकार्त्तिकेयस्य वह्नेस्तेजः परं मतमिति” ८६ अध्याये