| YouTube Channel

अग्निमुखः (agnimukhaH)

 
Apte Hindi
Hindi
अग्निमुखः
पुं*
अग्निः-मुखः -
देवता
अग्निमुखः
पुं*
अग्निः-मुखः -
ब्राह्मणमात्र
अग्निमुखः
पुं*
अग्निः-मुखः -
"मुंह में आग रखने वाला, जोर से काटने वाला, खटमल का विशेषण "
E Bharati Sampat
Sanskrit
(पु) अग्निः मुखम् इव यस्य, अग्निः मुखे अग्रे यस्य वा १.देवः। हुतद्रव्यं हि देवैः अग्निरूपमुखद्वारा एव अश्यते ‘अग्निमुखा वै देवाः’ ‘अग्निरग्रे प्रथमं देवानाम्’ श्रुतिः। २.अग्निः मुखं प्रधानम् उपास्यः अस्य अग्निहोत्री द्विजः। ३.अग्निः शापाग्निः मुखे यस्य विप्रः। ४.चित्रकवृक्षः। ५.अग्निः इव स्पर्शात् दुःखदायकं मुखम् अग्रं यस्य भल्लातकः। ६.मत्कुणभेदः। ‘अग्निमुखो नाम मत्कुणः समायातः’ पञ्चत०१.१७५। (वि) अग्निः मुखम् आद्यः यस्य ७. अग्न्यादिः। (न) अग्नेः जठरानलस्य मुखं द्वारम् ८.जठराग्निदीपकः चूर्णभेदः। ‘कासं श्वासं निहन्त्याशु तथैव यक्ष्मनाशनम् चूर्णमग्निमुखं नाम क्वचित् प्रतिहन्यते’ चक्रदत्त: ।‘अग्निमुखो द्विजे देवे भल्लाते चित्रके क्वचित्’ विश्वः। ‘भवेदग्निमुखो देवे विप्रे’ मेदिनी
शब्दकल्पद्रुमः
Sanskrit
अग्निमुखः,
पुं,
(अग्निः मुखं यस्य, बहुव्रीहिः ।)देवता ब्राह्मणः इति मेदिनी
चित्रकवृक्षः ।भल्लातकः इति विश्वः
(क्ली अग्नेः पञ्चसुमुखेषु ।)