| YouTube Channel

अग्निमन्थः (agnimanthaH)

 
Apte Hindi
Hindi
अग्निमन्थः
पुं*
अग्निः-मन्थः -
घर्षण या रगड़ द्वारा आग पैदा करना
E Bharati Sampat
Sanskrit
(पुं) अग्नेः मन्थः १. घर्षणेन पीडनेन वा अग्नेः उत्पादनम् २. मन्त्रपुरस्सरम् अरणेः काष्ठद्वयाद् अग्नेः उत्पादनम् ३. गणिकारिकावृक्षः। ‘अग्निमन्थः स्यात्कणिका गणिकारिका’ अमरः। ४.अग्निमथनसाधनमन्त्रः।
Wordnet
Sanskrit
Synonyms:
अरणी, श्रीपर्णम्, अग्निमन्थः, कणिका, गणिकारिका, जया, अरणिः, तेजोमन्थः, हविर्मन्थः, ज्योतिष्कः, पावकः, वह्निमन्थः, मथनः, अग्निमथनः, तर्कारी, वैजयन्तिका, अरणीकेतुः, श्रीपर्णी, कर्णिका, नादेयी, विजया, अनन्ता, नदीजा
noun
हिमालयेषु वर्तमानः वृक्षविशेषः यस्य खाद्यं फलं भवति एवं तस्य बीजमपि उपयोगाय वर्तते।
"अरणी तु औषधवृक्षः भवति।"
शब्दकल्पद्रुमः
Sanskrit
अग्निमन्थः,
पुं,
(अग्निं मथ्नाति इति मन्थ विलो-डने कर्म्मणि अण् ।) गणिकारिकावृक्षः ।इत्यमरः
(यथा वैद्यके, --“अग्निमन्थः श्वयथुहृद् वीर्य्योष्णः कफवातहृत् ।पाण्डुनुत् कटुकस्तिक्तस्तुवरो मधुरोऽग्निदः”
अग्निमन्थकुसुमशाकस्तु --“अग्निमन्थभववालसुनीतासप्तरात्रमुदके सुसाधिता ।तक्रतप्तघृतयुक्तपाचिताहिङ्गुना जनितवासवासिता”
अपिच --“अग्निमन्थोऽथ हृद्यश्च त्रिदोषशमनः सरः ।आध्मानच्छर्द्दिहा शोथचक्षूरोगविषापहः”
)