| YouTube Channel

अग्निदीपनः (agnidIpanaH)

 
E Bharati Sampat
Sanskrit
(वि) अग्नेः जठरानलस्य दीपनः। १. जठरानलोद्दीपक: औषधभेदः। ‘दीयते तु शणकानुमानतः सद्य एव जठराग्निदीपनः’ रसेन्द्रः। २.अग्निप्रज्वालकः। (स्त्री) अग्निदीपनी ‘हरीतकी तथा शुण्ठी भक्ष्यमाणा गुडेन वा सैन्धवेन युता वा स्यात् सातत्येनाग्निदीपनी ॥’ भावप्र०।
शब्दकल्पद्रुमः
Sanskrit
अग्निदीपनः, त्रि, (अग्नेः जठरानलस्य दीपनः ।)अग्निवर्द्धकः जठराग्निकारकौषधविशेषः यथारसेन्द्रचिन्तामणौ, --“पारदामृतलवङ्गगन्धकं, भागयुग्ममरिचेन मिश्रितम् ।तत्र जातिफलमर्द्धभागिकं, तित्तिडीफलरसेन मर्दितम्
बह्निमान्द्यदशवक्त्रनाशनो, रामवाण इति विश्रुतो रसः ।संग्रहग्रहणिकुम्भकर्णक-मामवातखरदूषणं जयेत्
दीयते तु शणकानुमानतः, सद्य एव जठराग्निदीपनः” ।“हरीतकी तथा शुण्ठी भक्ष्यमाणा गुडेन वा ।सैन्धवेन युता वा स्यात् सातत्येनाग्निदीपनी”
इति भावप्रकाशः