| YouTube Channel

अग्निदः (agnidaH)

 
E Bharati Sampat
Sanskrit
(वि) अग्निं गृहादौ दाहार्थं ददाति अग्नि+डु दाञ्(दाने)+कः। ‘आतोऽनुपसर्गे कः’ ३.२.३। १.अग्निना गृहादिदाहकः आततायिभेदः। ‘अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः। क्षेत्रदारापहारी षडेते ह्याततायिनः’ स्मृतिः। २.क्षुधावर्धकः जाठराग्निवर्धकः लेह्यादिः।