| YouTube Channel

अग्नितेजाः (agnitejAH)

 
E Bharati Sampat
Sanskrit
(वि) (अग्नितेजस्)। अग्नेरिव तेजः अस्य १. अग्नितुल्यतेजस्कः। ‘अग्निलोकेऽग्नितेजसः’ काशी (न) अग्नितेजः। अग्नेः तेजः कान्तिः। २.अग्नेः प्रकाशः। अग्नित्रयम्(न) अग्नीनां त्रयम् १.त्रयः अग्नयः। दक्षिणाग्निगार्हपत्याहवनीयाः, त्रेता ‘अग्नित्रयमिदं त्रेता’ अमर:। २.गार्हपत्यदक्षिणाग्न्याहवनीयवह्निरूपः पित्रादिः। ‘एत एव त्रयो लोका एत एव त्रयोऽग्नयः। पिता गार्हपत्याग्निर्माता दक्षिणाग्निः॥ आचार्य आहवनीयः’ विष्णुः।