| YouTube Channel

अग्निजिह्वः (agnijihvaH)

 
E Bharati Sampat
Sanskrit
(पु) अग्निः जिह्वा अस्वादसाधनं यस्य १.अग्निमुखः देवः। ‘ये अग्निजिह्वा उत वा यजत्राः’ ऋक्.६.५२.१३ २.विष्णोः वराहरूपम् ‘अग्निजिह्वो दर्भरोमा’ विष्णुः। (वि) अग्निः इव जिह्वा यस्य ३.अग्नितुल्यजिह्वान्वितः। (स्त्री) अग्नेः जिह्वा ४.अग्नेः ज्वाला सा सप्तधा-‘कराली धूमिनी श्वेता लोहिता नीललोहिता सुवर्णा पद्मरागा जिह्वाः सप्त विभावसोः’ ५.गजपिप्पली ६.लाङ्गलीवृक्षः। ७.योगविशेषः। ‘सप्तषष्ट्यादितिथयः सोमवारादिभिर्युताः। अग्निजिह्वाः सप्त योगा मङ्गलेष्वतिगर्हिताः॥’ योगशास्त्रम्