| YouTube Channel

अग्निघृत (agnighRta)

 
वाचस्पत्यम्
Sanskrit
अग्निघृत
न०
अग्न्युद्दीपनं घृतं शा० त० वैद्यकोक्ते घृत-भेदे यथा चक्रदत्तः ।“पिप्पलीपिप्पलीमूलं चित्रको हस्तिपिप्पली हिङ्गुचव्या-ऽजमोदा पञ्चैव लवणानि
द्वौ क्षारौ हवुषा चैवदद्यादर्द्धपलोन्मितान् दधिकाञ्जिकशुक्तानि स्नेहमात्रा-समानि आर्द्रकं सरसं प्रस्थं घृतप्रस्थं विपाचयेदिति ।एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते इति”
“भल्लातकसहस्रार्द्धं जलद्रोणे विपाचयेत् अष्टभागावशे-षञ्च कषायमवतारयेत् घृतप्रस्थं समादाय कल्कानीमानिदापयेत् व्यूषणं पिप्पलीमूलं चित्रको हस्तिपिप्पली
हिङ्गुचव्याजमोदा पञ्चैव लवणानि द्वौ क्षारौहवुषा चैव दद्यादर्द्धपलोन्मितान्
दधिकाञ्चिकशुक्तानिस्नेहमात्रासमानि आर्द्रकं सरसञ्चैव शोभाञ्जनरस-न्तथा
तत् सर्व्वमेकतः कृत्वा शनैर्मृद्वग्निना पचेत् ।एतदग्निघृतं नाम मन्दाग्नीनां प्रशस्यते” इति