| YouTube Channel

अग्निगर्भः (agnigarbhaH)

 
Apte Hindi
Hindi
अग्निगर्भः
पुं*
अग्निः-गर्भः -
सूर्यकान्त मणि जिसे सूर्य की किरणों के स्पर्श से आग उगलने वाला माना जाता है
E Bharati Sampat
Sanskrit
(वि) अग्निः गर्भे यस्य १.सूर्यकान्तमणिः। सूर्यकिरणसम्पर्कात् अग्न्युत्पादकः। २.अग्निमन्थनकाष्ठम् अरणिः। ३.अग्निजारवृक्षः। (स्त्री) अग्निगर्भा अग्निः अग्नेः वा गर्भः यस्याः। ४.शमीलता शम्याः गर्भे अग्नेः स्थितिः। ‘अश्वत्थान्निर्गतो वह्निः शमीगर्भमुपाविशत्’ महाभा०१३.८५अ०। ‘अवेहि तनयां ब्रह्मन् अग्निगर्भां शमीमिव’ शाकु०४.३। ५.पृथिवी सा अग्निरूपगर्भं धृतवती ‘यथाग्निगर्भा पृथिवी यथा द्यौरिन्द्रेण गर्भिणी’ श्रुतिः। ६.अग्निः इव गर्भः मध्यभागः यस्याः। अग्निदीप्ता ज्योतिष्मतीलता
Wordnet
Sanskrit
Synonyms:
सूर्यकान्तः, सूर्यमणिः, सूर्याश्मा, दहनोपमः, तपनमणिः, तापनः, रविकान्तः, दीप्तोपलः, अग्निगर्भः, ज्वलनाश्मा, अर्कोपलः
noun
स्फटिकविशेषः।
"मनहरः सूर्यकान्तेन युक्तम् अङ्गुलीयकम् अक्रीणात्।"
शब्दकल्पद्रुमः
Sanskrit
अग्निगर्भः,
पुं,
(अग्निः गर्भे अभ्यन्तरे यस्य सः ।)अग्निजारवृक्षः सूर्य्यकान्तमणिः इति राजनि-र्घण्टः
(शमीवृक्षः त्रि अग्नियुक्तगर्भविशिष्टः ।यथा, -- “अग्निगर्भां शमीमिव” इति शाकुन्तले ।)