| YouTube Channel

अग्निकुमार (agnikumAra)

 
Monier Williams Cologne
English
अग्नि—कुमार
m.
a particular preparation of various drugs.
N.
of a class of Bhavanavāsin deities,
Jain.
Goldstucker
English
अग्निकुमार Tatpur. m. (-रः) A particular preparation of
medicaments. E. अग्नि and कुमार.
Apte Hindi
Hindi
अग्निकुमारः
पुं*
अग्निः-कुमारः -
कार्तिकेय जो अग्नि से उत्पन्न हुए कहे जाते हैं
अग्निकुमारः
पुं*
अग्निः-कुमारः -
स्कन्द
Shabdartha Kaustubha
Kannada
अग्निकुमार
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಕಾರ್ತಿಕೇಯ / ಷಣ್ಮುಖ
व्युत्पत्तिः - > अग्नेः केतुरिव
L R Vaidya
English
agni-kumAra {% m. %} a name of Kārtikeya.
Aufrecht Catalogus Catalogorum
English
अग्निकुमार, a name of Viṭṭhala, son of Vallabhācārya.
Hall p. 147.
अग्निकुमार, son of Rudrakumāra, elder brother of Ha-
radatta (Padamañjarī, etc.).
विट्ठल दीक्षित or विट्ठलेश or विट्ठलेश्वर or अग्निकुमार,
son of Vallabhācārya, younger brother of Gopīnātha,
father of Giridhara Dīkṣita and Raghunātha. He
is said to have been born in 1515:
Avatāratāratamyastotra.
Āryā.
Kāyenetivivaraṇa.
Kṛṣṇapremāmṛta.
Gīta.
Gītagovindaprathamāṣṭapadīvivṛti.
Gokulāṣṭaka.
Janmāṣṭamīnirṇaya.
Jalabhedaṭīkā.
Tāratamyastava and vyākhyā. Aṇutāratamya, Bṛ-
hattāratamya.
Dhruvapada.
Nāmacandrikā.
Nyāsādeśavivaraṇa.
Prabodha.
Premāmṛtabhāṣya.
Bhaktihaṃsa.
Bhaktihetunirṇaya.
Bhagavatsvatantratā.
Bhagavadgītātātparya.
Bhagavadgītāhetunirṇaya.
Bhāgavatatattvadīpikā.
Bhāgavatadaśamaskandhavivṛti.
Bhujaṅgaprayātāṣṭaka.
Yamunāṣṭapadī.
Rasasarvasva.
Rāmanavamīnirṇaya.
Vallabhāṣṭaka.
Vidvanmaṇḍana.
Vivekadhairyāśrayaṭīkā.
Śikṣāpattra.
Śṛṅgārarasamaṇḍana.
Ṣaṭpadī.
Saṃnyāsanirṇayavivaraṇa.
Samayapradīpa.
Sarvottamastotra and C..
Siddhāntamuktāvalī and C..
Sevākaumudī.
Svatantralekhana.
Svāminīstotra.
पुराणम्
English
अग्निकुमार / AGNIKUMĀRA. An epithet of Lord subrahmaṇya.
वाचस्पत्यम्
Sanskrit
अग्निकुमार
पु०
त० कार्त्तिकेये तस्याग्निरेतोजातत्वमुक्तंमहाभारते वनपर्वणि २२३ अध्याये सप्तर्षिपत्नीरूपदर्शनात्जातस्मरविकारस्याग्नेस्तेषां गार्हपत्य--प्रवेशेन अनिशं तद्दर्श-नेन जाताधिकविकार तयानिर्वेदपूर्व्वकं वनगमनमुपक्रम्य, “स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा
सा तस्य छिद्रमन्वैच्छच्चिरात् प्रभृति भाविनी अप्रमत्तस्य देवस्य नचापश्यदनिन्दिता
सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम् तत्त्वतः कामसन्तप्तं चिन्तयामास भाविनी
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् कामयि-ष्यामि कामार्त्ता तासां रूपेण मोहितम्
एवङ्कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत्
२२३ अध्या०मार्कण्डेय उवाच शिवा भार्य्या त्वङ्गिरसः शीलरूप-गुणान्विता तस्याः सा प्रथमं रूपं कृत्वा देवी जनाधिप ।जगाम पापकाभ्यासं तञ्चोवाच वराङ्गना
मामग्ने! काम-सन्तप्तां त्वं कामयितुमर्हसि करिष्यसि चेदेवं मृतांमामुपधारय
अहमङ्गिरसो भार्य्या शिवा नाम हुताशन! ।शिष्टाभिः प्रहिता प्राप्ता मन्त्रयित्वा विनिश्चयम्
अग्नि-रुवाच कथं मां त्वं विजानीषे कामार्त्तमितराः कथम् ।यास्त्वया कीर्त्तिताः सर्व्वाः सप्तर्षीणां प्रियाः स्त्रियः
शिवोवाच अस्माकं त्वं प्रियो नित्यं बिभीमस्तु वयं तव ।त्वच्चित्तमिङ्गितैर्ज्ञात्वा प्रेषितास्मि तवान्तिकम्
मैथुनायेहसंप्राप्ता कामं प्राप्तुं द्रुतं चर यातरो मां प्रतीक्षन्तेगमिष्यामि हुताशन!
मार्कण्डेय उवाच ततोऽग्नि-रुपयेमे तां शिवां प्रीतिमुदायुतः प्रीत्या देवी समायुक्ताशुक्रं जग्राह पाणिना
व्यचिन्तयन्ममेदं ये रूपं द्रक्ष्यन्तिकानने ते ब्राह्मणीनामनृतं दोषं वक्ष्यन्ति पावके
तस्मादेतद्रक्षमाणा गरुडी संभवाम्यहम् वनान्निर्गमन-ञ्चैव सुखं मम भविष्यति
मार्कण्डेय उवाच सुपर्णीसा तदा भूत्वा निर्जगाम महावनात् अपश्यत् पर्वतंश्वेतं शरस्तम्बैः सुसंवृतम्
दृष्टिविषैः सप्तशीर्षैर्गुप्तंभोगिभिरद्भुतैः रक्षोभिश्च पिशाचैश्च रौद्रैर्भूतगणैस्तथाराक्षसीभिश्च संपूर्णमनेकैश्च मृगद्विजैः
सा तत्र सहसागत्वा शैलपृष्ठं सुदुर्गमम् प्राक्षिपत् काञ्चने कुण्डे शुक्रंसा त्वरिता शुभा
शिष्टानामपि सा देवी सप्तर्षीणां महा-त्मनाम् पत्नीस्वरूपकं कृत्वा कामयामास पावकम्
दिव्यं रूपमरुन्धत्याः कर्त्तुं शकितं तया तस्यास्तपःप्रभावेन भर्तृशुश्रूषणेन
षट्कृत्वस्तत्र निक्षिप्तमग्ने-रेतः कुरूत्तम! तस्मिन् कुण्डे प्रतिपदि कामिन्या स्वाहयातदा
तत् स्कन्नं तेजसा तत्र संवृतं जनयत् सुतम् ।ऋषिभिः पूजितं स्कन्नमनयत् स्कन्दतां ततः षट्शिराद्विगुणश्रोत्रो द्वादशाक्षिभुजक्रमः एकग्रीवैकजठरःकुमारः समपद्यत
वन० मा० स० २२३ अध्यायःअग्निकुमारत्वेऽपि तस्य रुद्रकुमारत्वं तदप्युक्तं तत्रैव“ततो ब्रह्मा सहासेनं प्रजापतिरथाब्रवीत् अभिगच्छमहादेवं पितरं त्रिपुरार्द्दनम्
रुद्रेणाग्निं समाविश्यस्वाहामाविश्य चोमया हितार्थं सर्व्वलोकानां जातस्त्वमपराजित!
उभायीन्याञ्च रुद्रेण शुक्रं सिक्तं महात्मनाअस्मिन् गिरौ निपतितं मिञ्जिकामिञ्जिकं ततः
सम्भूतंलोहितोदे तु शुक्रशेषमवापतत् सूर्य्यरश्मिषु चाप्यन्यदन्यच्चैवापतद्भुवि आसक्तमन्यद्वृक्षेषु तदेवं पञ्चधापतत्
इति २२४ अध्याये अग्नितनयाग्निसुतादयोऽप्यत्र