| YouTube Channel

अग्निकार्य्यं (agnikAryyaM)

 
शब्दकल्पद्रुमः
Sanskrit
अग्निकार्य्यं,
क्ली,
(अग्नि + कार्य्यं ।) अग्नावग्नेर्वा कार्य्यं ।हविर्दानादिपूर्व्वकाग्निज्वालनं तत्पर्य्यायः ।अग्नीन्धनं अग्नीध्रा अग्निकारिका ।इति हेमचन्द्रः
(होमादौ हविर्दानादिपूर्व्वका-ग्निज्वालनां अग्नौ सायं प्रातः समिद्धोमानुष्ठान ।यथा --“उपनीय गुरुः शिष्यं शिक्षयेच्छौचमादितः ।आचारमग्निकार्य्यञ्च सन्ध्योपासनमेव च”
इति मनुः ।)