| YouTube Channel

अगस्त्योदयः (agastyodayaH)

 
शब्दकल्पद्रुमः
Sanskrit
अगस्त्योदयः,
पुं,
(अगस्त्यस्य नक्षत्रस्य उदयः शर-त्काले गगने आविर्भावः ।) आकाशे नक्षत्र-रूपेण अगस्त्यमुनेरुदयः तु सौरभाद्रस्य सप्त-दशदिने भवति अस्यार्घ्यदानं तन्मासीयशेष-दिनत्रये कर्त्तव्यं यथा, --“अगस्त्यार्घ्यदानं सौरेण सिंहराशौ विधानात्” ।यथा ब्रह्मवैवर्त्ते, --“अप्राप्ते भास्करे कन्यां शेषभूतैस्त्रिभिर्दिनैः ।अर्घ्यं दद्यरगस्त्याय गौडदेशनिवासिनः”
यथा भीमपराक्रमे ।“यस्तु भाद्रपदस्यान्ते उदिते कलसोद्भवे ।अर्घ्यं दद्यादगस्त्याय सर्व्वान् कामान् लभेत सः”
यथा नारसिंहे ।“शङ्खे तोयं विनिक्षिप्य सितपुष्प्राक्षतैर्युतं ।मन्त्रेणानेन वै दद्यात् दक्षिणाशामुखस्थितः
काशपुष्पप्रतीकाश अग्निमारुतसम्भव ।मित्रावरुणयोः पुत्त्र कुम्भयोने नमोऽस्तु ते”
प्रार्थनन्तु ।“आतापिर्भक्षितो येन वातापिश्च महासुरः ।समुद्रः शोषितो येन मेऽगस्त्यः प्रसीदतु”
गन्धादिकन्तु अगस्त्याय नमः इत्यनेन देयं ।विशेषानुपदेशे सामान्यतः प्राप्तचात् दक्षि-णाशामुखस्थित इति गन्धादावपि प्रयोगाङ्ग-कर्तृधर्म्मत्वादिति रत्नाकरः
*
तत्पत्न्यर्घ्य-मन्त्रस्तु ।“लोपामुद्रे महाभागे राजपुत्रि पतिव्रते ।गृहाणार्घ्यं मया दत्तं मित्रावरुणिवल्लभे”
इति मलमासतत्त्वं
(अगस्त्योदये जलानिप्रसीदन्ति इत्यागमः तथा रघौ, --“प्रससादोदयादम्भः कुम्भयोनेर्महौजसः