| YouTube Channel

अगस्त्यचार (agastyacAra)

 
Spoken Sanskrit
English
अगस्त्यचार agastyacAra
m.
path of Canopus
Monier Williams Cologne
English
अगस्त्य—चार
m.
the path of Canopus.
वाचस्पत्यम्
Sanskrit
अगस्त्यचार
पु०
अगस्त्यस्य नक्षत्ररूपेण दक्षिणस्थस्य चारःशुभाशुभसूचकगत्यादि वराहसंहितोक्ते अगस्त्यनामक-नक्षत्रस्य उदयादौ यथा “विन्ध्यमस्तम्भयद्यश्च तस्योदयःश्रूयताम्” इत्युपक्रम्य “उदये मुनेरगस्त्यनाम्नः कु--समा-योगमलप्रदूषितानि हृदयानि सतामिव स्वभावात् पुन-रम्बूनि भवन्ति निर्मलानि
पार्श्वद्वयाधिष्ठितचक्रवाकामा-पुष्णती सस्वनहंसपङ्क्तिम् ताम्बूलरक्तोत्कषिताग्रदन्तीविभाति योषेव सरित्सहासा
इन्दीवरासन्नसितोत्पला-न्विता सरिद्भ्रमत्षट्पदपङ्क्तिभूषिता सभ्रूलताक्षेपकटाक्ष-वीक्षणा विदग्धयोषेव विभाति सस्मरा
इन्दोः पयोदवि-गमोपहितां विभूतिम् द्रष्टुं तरङ्गवलया कुमुदं निशासु ।उन्मीलयत्यलिनिलीनदलं सुपक्ष्म वापी विलोचनमिवा-सिततारकान्तम्
नानाविचित्राम्बुजहंसकोककारण्डवा-पूर्णतडागहस्ता रत्नैः प्रभूतैः कुसुमैः फलैश्च भूर्यच्छतीवार्धमगस्त्यनाम्ने
सलिलममरपाज्ञयोञ्झितं यद्घन-परिवेष्टितमूर्त्तिभिर्भुजङ्गैः फणिजनितविषाग्निसम्प्रदुष्टंभवति शिवं तदगस्त्यदर्शनेन
स्मरणादपि पापमपा-कुरुते किमुत? स्तुतिभिर्वरुणाङ्गरुहः मुनिभिः कथितोऽस्ययथार्घविधिः कथयामि तथैव नरेन्द्रहितम्
संख्या-विधानात् प्रतिदेशमस्य विज्ञाय सन्दर्शनमादिशेज्ज्ञः ।तच्चोज्जयिन्यामगतस्य कन्यां भागैः स्वराख्यैः स्फुट-भास्करस्य
ईषत्प्रभिन्नेऽरुणरश्मिजांलैर्नैशेऽन्धकारे दिशिदक्षिणस्याम् सांवत्मरावेदितदिग्विभागे भूपोऽर्घमुर्व्यांप्रयतः प्रयच्छेत्”
इत्युक्त्वान्ते उपसहृतं यथा “दृश्यते सकिल हस्तगतेऽर्के रोहिणीमुपगतेऽस्तमुपेतीति”