| YouTube Channel

अखण्डः (akhaNDaH)

 
E Bharati Sampat
Sanskrit
(वि) खण्ड्यते खडि(भेदने)+घञ् ‘अकर्तरि०’ ३.३.१९। खण्ड:। १. सम्पूर्ण: , समग्र:। ‘समग्रं सकलं पूर्णमखण्डम्’ अमरः। ‘अखण्डं पुण्यानां फलमिव तद्रूपमनघम्’ शाकु०२.१०। (क्रि.वि) २.निरन्तरम्, अविरामम् ‘अखण्डमाखण्डलतुल्यधामभि:’ किरा०१.२२।
शब्दकल्पद्रुमः
Sanskrit
अखण्डः, त्रि, (न खण्ड्यते इति खडि भेदनेघञ् नास्ति खण्डो यस्य इति वा ।) खण्डरहितः पूर्णः इत्यमरः
(“अखण्डं पुण्यानांफलमिव तद्रूपमनघम्” इति शाकुन्तले ।)