| YouTube Channel

अक्षू (akSU)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
अक्ष्
मूलधातुः:
अक्षू
धात्वर्थः:
व्याप्तौ
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
वेट्
उपग्रहः:
परस्मैपदी
रूपम्:
अक्ष्णोति, अक्षति
अनुबन्धादिविशेषः:
उदित्
धातुप्रदीपः
Sanskrit
अक्षूँ अक्षू व्याप्तौ, संघाते
- अक्षति ।अक्ष्णोति ।अक्षिता। अष्टा ।अष्टः, अष्टवान् अक्षित्वा अष्ट्वा.। 655 ।।
क्षीरतरङ्गिणी
Sanskrit
अक्षूँ अक्षू व्याप्तौ, संघाते
- अक्षोऽन्यतरस्याम् (3175) श्नुः- अक्षति अक्ष्णोति अष्टा, अक्षिता अक्षम् अक्षरम् 634
धातुवृत्तिः
Sanskrit
अक्षूँ अक्षू (अर्थः) व्याप्तौ
( अक्षति आनक्ष आनष्ठ आनक्षिथ आनक्ष्व आनक्षिव ) उदित्त्वादिड्विकल्पः थल्यनिट्पक्षे "स्कोः'' इति कलोपे ष्टुत्वे ( अक्षिता अष्टा अक्षिष्यति अक्ष्यति ) "षढोः कः सि'' इति कत्वे आद्यस्य "स्कोः'' इति लोपः ( अक्षतु आक्षत् अक्षेत् अक्ष्यात् मा भवानक्षीत् मा भवानक्षिष्टाम् ) "नेटि'' इति वृद्धिः अनिट्पक्षे "वदव्रजहलन्तस्य'' इति वृद्धौ (मा भवानाक्षीत् मा भावनाक्षिष्टामित्यादि ) ननु येन नाव्यवधानमिति न्यायेनैकेन वर्णेन व्यवधानमाश्रयितुं युक्तं त्वनेकेनेति वलोपस्यासिद्धत्वादनेकेन व्यवधानात् कथं वृद्धिः नैतत् तत्र हल्यग्रहणं हल्समुदायप्रतिपत्त्यर्थमित्युक्तत्वात्. तथाहि "वदव्रजोः'' इति योगो विभज्यते तत्रात इति अनुवर्त्तंयिष्यते ततो ऽचइति द्वितीयो योगस्तत्राङ्गेनाचो विशेषणात् अपाक्षीदित्यादावेकेन वर्णन व्यवधाने वृद्धिसिद्धौ पुनः क्रियमाणं हल्यहणं हल्समुदायप्रतिपत्त्यर्थं भवति अस्य कर्तृवाचिसार्वधातुकपरत्वे "अक्षोन्यतरस्याम्'' इति पक्षे श्नुर्भवति ( अक्ष्णोति अक्ष्णुतः अक्ष्णुवन्ति ) अजादौ "अचि श्नुधातु'' इत्यादिनोवङ् ( अक्ष्णोतु अक्ष्णुहि) इत्यत्र "उतश्च प्रत्ययात्'' इति हि लुङ् भवति, तत्रैवासंयोगपूर्वादित्युक्तत्वात् ( अक्ष्णवानि ) इत्यत्र आटि परत्वादुवङबाधित्वा गुणः ( आक्ष्णोत् अक्ष्णुयात् अचिक्षिपति ) अनिट्पक्षे [ पूर्वत्रासिद्धीयमद्विर्वचने ] इत्युक्तत्वात् अस्मात्परत्वात् "स्कोः'' इति कलोपे "षङोः'' इति कत्वे सनः ककारसहितस्य द्वितीयस्यैकाचो द्विर्वचने हलादिशेषे "सन्यतः'' इतीत्वे (अचिक्षतीति) भवति ( अक्षयति ) चङि णिलोपस्य स्थानिवत्त्वात् क्षिशब्दस्य द्विर्वचने ( आचिक्षत अक्षित्वा अष्ट्वा निष्ठायामष्टः अक्षी)"हन्'' इतीन्प्रत्ययः ( अक्षणा ) ( सूत्रम्) अस्थिदक्षिधक्थ्यक्ष्णामनङुदात्तः (इति सूत्रम्) इति तृतीयाद्यजादावन्तस्यानङादेशे "अल्लोपोनः'' इत्यल्लोपः ङौ "विभाषाङिश्योः'' इति विकल्पनात् (अक्षणि अक्ष्णि) इत्युभयं भवति ) विशालमक्षि यस्य (विशालाक्षः ) " ( सूत्रम्) बहुव्रीहौ सक्थ्यक्ष्णोःस्वाङ्गात् षच् (इति सूत्रम्) '' इति षच् स्वाङ्गववाचिसक्थ्यक्ष्यन्ताद् बहुव्रीहेः षच् षित्त्वात् स्त्रियां (विशालाक्षी) स्वाङ्गाचिति वचनात् (स्थूलाक्षा वेणुयष्ठिः)इत्यत्र ( सूत्रम्) अक्ष्णोदर्शनात् (इति सूत्रम्) इत्यचि टाब् भवति अदर्शनवाच्यक्षन्तात् समासमात्रादजिति सूत्रार्थः इह दर्शनं चक्षुरिति ( गवाक्षं कबराक्षम् ) इत्यत्राचक्षुर्वचनस्याक्षिशब्दस्याज् भवति यद्वात्र समुदायो दर्शनसाधनं तु तदवयवोक्षिशब्द इति तस्य दर्शनयोगाभावाददर्शनादिति दर्शनादिति निषेधस्य नैव प्रसङ्गः कबराक्षमिति सच्छिद्रं यदश्वानां मुखपिधानं तदुच्यते कथं स्थूलाक्षिरिक्षुरिति, यदि दृश्यते, अनित्यः समासान्तइति निर्वाह्यः अयं समासान्तः स्वतिपूर्वस्यापि भवति "न पूजनात्'' इत्यत्र [ बहुव्रीहौ सक्थ्यक्ष्णोरनिषेधः ] इत्युक्तत्वात् 644
कृदन्तरूपमाला
Sanskrit
1 {@“अक्षू व्याप्तौ”@} 2 ‘संघाते च’ इति क्षीरस्वामी।
अक्षकः-क्षिका, अक्षकः-क्षिका, अचिक्षिषकः-षिका
3 अक्षिता-त्री, अष्टा-ष्ट्री, अक्षयिता-त्री, अचिक्षिषिता-त्री
अक्षन्-न्ती, अक्षयन्-न्ती, अचिक्षिषन्-न्ती
4 अक्ष्णुवन्-वती, अक्षिष्यन्-अक्ष्यन्-ती-न्ती, अक्षयिष्यन्-ती-न्ती, अचिक्षिषिष्यन्-ती-न्ती
अक्षयमाणः, अक्षयिष्यमाणः
अट् 5 -अक्षौ-अक्षः, अक् 6 अक्षौ-अक्षः, 7 अष्टः-ष्टम्-ष्टवान्, अक्षितः, अचिक्षिषितम्-तः-तवान्
8 अक्षः, अक्षः, 9 काष्ठाक्षः 10, अचिक्षिषुः, अचिक्षयिषुः
अक्षितव्यम् अष्टव्यम् अक्षयितव्यम्, अचिक्षिषितव्यम्
अक्षणीयम्, अक्षणीयम्, अचिक्षिषणीयम्
अक्ष्यम्, अक्ष्यम्, अचिक्षिष्यम्
ईषदक्षः-दुरक्षः-स्वक्षः
अक्ष्यमाणः, अक्ष्यमाणः, अचिक्षिष्यमाणः
अक्षः, अक्षः, अचिक्षिषः
अक्षितुम्-अष्टुम्, अक्षयितुम्, अचिक्षिषितुम्
अष्टिः, अक्षणा, अचिक्षिषा, अचिक्षयिषा
अक्षणम्, अक्षणम्, अचिक्षिषणम्
अक्षित्वा, अष्ट्वा, अक्षयित्वा, अचिक्षिषित्वा
समक्ष्य, समक्ष्य, समचिक्षिष्य
अक्षम् २, अक्षित्वा २, अष्ट्वा अक्षम् २, अक्षयित्वा २, अचिक्षिषम् २, अचिक्षिषित्वा २, अक्षि 11।।
प्रासङ्गिक्यः
01
=>
(३)
02
=>
(भ्वादिः-१-६५४। सक-वेट्-पर।)
03
=>
[[५। ‘स्वरतिसूति--’ (७-२-४४) इतीड्विकल्पः।]]
04
=>
[[६। ‘अक्षोऽन्यतरस्याम्’ (३-१-७५) इति वा श्नुः। उवङ्।]]
05
=>
[[७। ‘स्कोः--’ (८-२-२९) इति कलोपः।]]
06
=>
[[८। ‘संयोगान्तस्य लोपः’ (८-२-२३)।]]
07
=>
[[९। ऊदित्त्वात्, ‘यस्य विभाषा’ (७-२-१५) इतीण्णिषेधः। ककारलोपः।]]
08
=>
[पृष्ठम्०००६+ २४]
09
=>
[[१। ‘कर्मण्यण्’ (३-२-१) इत्यण्।]]
10
=>
(ज्वलनः)
11
=>
[[२। औणादिक इन् प्रत्ययः।]]