| YouTube Channel

अक्षिगतः (akSigataH)

 
E Bharati Sampat
Sanskrit
(वि) अक्ष्णि अक्षिविषयं गत: सर्वदा भावनावशात् असन्निकृष्टोऽपि उपस्थित: इव १. द्वेष्य:, शत्रु: ‘द्वेष्यस्त्वक्षिगतोऽनिष्ट:’ वैज०। २. नेत्रगोचर:, चक्षुःसन्निकृष्टः। ‘न विभावयत्यक्षिगतामपि’ माघ: ९.८१।
शब्दकल्पद्रुमः
Sanskrit
अक्षिगतः त्रि, (अक्षि गतः, अक्षिविषय इव खेद-कृदित्यर्थः ।) द्वेष्यः इत्यमरः