| YouTube Channel

अक्षारलवणं (akSAralavaNaM)

 
शब्दकल्पद्रुमः
Sanskrit
अक्षारलवणं
क्ली,
(न क्षारलवणम् इति नञ्-समासः ।) हविष्यान्नविशेषः महाहविष्यमितिख्यातं यथा “अशौचादिभक्ष्यगोक्षीरगोघृत-धान्यमुद्गतिलयवसैन्धवसामुद्रलवणात्मकद्रव्यं कृ-त्रिमात् लवणात् भिन्नमक्षारलवणं मतं” इदंमतन्तु स्मार्त्तस्य रत्नाकरमतं यथा --“गोक्षीरं गोघृतं चैव धान्यमुद्गयवास्तिलाः ।सामुद्रं सैन्धवञ्चैवमक्षारलवणं मतं”
इति नारायणवन्द्यघटीयकृतशुद्धिकारिका
(यथाह मनुः --“मुन्यन्नानि पयः सोमो मांसं यच्चानुपस्कृतं ।अक्षारलवणं चैव प्रकृत्या हविरुच्यते”
)