| YouTube Channel

अक्षरं (akSaraM)

 
Hindi
Hindi
अविनाशी
शब्दकल्पद्रुमः
Sanskrit
अक्षरं
क्ली,
(न क्षरति इति व्युत्पत्त्या ।) ब्रह्म ।(अविनाशि निर्व्विशेषं प्रणवाख्यं ब्रह्म कूटस्थःनित्यः आत्मा यथा, --“क्षराद्विरुद्धधर्म्मत्वादक्षरं ब्रह्म भण्यते ।कार्य्यकारणरूपं तु नश्वरं क्षरमुच्यते
यत्किञ्चिद्वस्तु लोकेऽस्मिन् वाचो गोचरतां गतं ।प्रमाणस्य तत्सर्व्वमक्षरे प्रतिषिध्यते
यदप्रबोधात् कार्पण्यं ब्राह्मण्यं यत्प्रबोधतः ।तदक्षरं प्रबोद्धव्यं यथोक्तश्वरवर्त्मना”
अकारादिक्षकारान्तैकपञ्चाशद्वर्णः इति मेदिनी
अस्योत्पत्तिकारणं यथा वृहस्पतिः, --“षाण्मासिके तु सम्प्राप्ते भ्रान्तिः सजायते यतः ।धात्राक्षराणि सृष्टानि पत्रारूढाण्यतः पुरा”
इत्याह्निकतत्त्वं
तच्च पञ्चविधं यथा, --“मुद्रालिपिः शिल्पलिपिर्लिपिर्लेखनिसम्भवा ।गुण्डिका घुर्णसम्भूता लिपयः पञ्चधा स्मृताः” ।इति वाराहीतन्त्रं
*
अन्यत् मुद्राशब्देवर्णशब्दे द्रष्टव्यं
गगनं धर्म्मः तपस्या
अपामार्गः इति हेभचन्द्रः
मोक्षः इत्यमरः
जलं इति वेदप्रयोगः