| YouTube Channel

अक्षक्षेत्र (akSakSetra)

 
वाचस्पत्यम्
Sanskrit
अक्षक्षेत्र
न०
अक्षनिमित्तं क्षेत्रम् शा० त० ज्योतिषोक्तेषुअक्षसाधनार्थं क्षेत्रतया कल्पितेषु अक्षभवेषु अष्टसु क्षेत्रेषु ।तानि सिद्धान्तशिरोमणौ गणिताध्याये दर्शितानि यथा ।“भुजोऽक्षभा कोटिरिनाङ्गुलोना कर्णोऽक्षकर्णः खलुमूलमेतत्क्षेत्राणि यान्यक्षभवानि तेषां विद्येव मानार्थयशःसुखा-नाम्
लम्बज्यका कोटिरथाक्षजीवा भुजोऽत्र कर्णस्त्रि-भुजे त्रिभज्या कुज्या भुजः कोटिरपक्रमज्या कर्णो-ऽग्रका त्रिभुजं तथेदम्३
तथैव कोटिः समवृत्तशङ्कु-रग्रा भुजस्तद्धृतिरत्र कर्णः भुजोऽपमज्या समना चकर्णःकुज्योनिता तद्धृतिरत्र कोटिः
अग्रादिखण्डं कथिता चकोटिरुद्वृत्तना दोः श्रवणोऽपमज्या उद्वृत्तना कोटि-रथाग्रकाग्रखण्डं भुजस्तच्छ्रवणः क्षितिज्या
खण्डंयदूर्द्ध्वं समवृत्तशङ्को र्यत्तद्धृतेस्तावथ कोटिकर्णौ अग्रादि-खण्डं भुज एवमष्टौ क्षेत्राण्यमून्यक्षभवानि तावत्
”क्षेत्राणि दर्शयेत्, “तत्र दक्षिणोत्तरमण्डले विषुवद्वृत्तसम्पा-तादधो यावाँल्लम्बः क्षितिजसमसूत्रपर्य्यन्तः सा तत्र कोटिः, लम्बनिपातकुमध्ययोरन्तरं साऽक्षज्या तत्र भुजः, भूमध्या-ल्लम्बाग्रगामिसूत्रं त्रिज्या सा तत्र कर्णः, इदमभ्यक्षक्षेत्रम्, इष्टाहोरात्रवृत्तं यत्र क्षितिजे लग्नं तस्य प्राक् स्वस्ति-कस्य चान्तरमग्रा (चापांशाः) तेषां ज्याऽग्रा तावती चप्रत्यक्क्षितिजे अग्राग्रयोर्निबद्धं सूत्रमुदयास्तसूत्रम् अहो-रात्रवृत्तोन्मण्डलसम्पातस्य प्राच्यपरसूत्रस्य यदन्तरं साक्रान्तिज्या, सा तत्र कोटिः, अग्रा कर्णः, तदग्रयोरन्तरंसा कुज्या भुजः इदमक्षक्षेत्रं, तथाहोरात्रवृत्तसममण्डल-सम्पातादधोवलम्बः, समवृत्तशङ्कुः सा कोटिः, अग्रा भुजः, अहोरात्रवृत्ते ज्याखण्डकं तद्धृतिः कर्णः, इदमक्षक्षेत्रं, तथा कुज्योनिता तद्धृतिरहोरात्रवृत्ते ज्यार्द्धं सा कोटिः, उन्मण्डले क्रान्तिज्या भुजः, समवृत्तशङ्कुः कर्णः, इदमक्ष-क्षेत्रम्, तथाहोरात्रोन्मण्डलयोः सम्पातादवलम्ब उन्मण्डल-शङ्कुः भुजः, उन्मण्डलवृत्ते क्रान्तिज्या कर्णः, उन्म-ण्डलशङ्क मूलस्य प्राच्यपरसूत्रस्य यदन्तरं तदग्रादि-खण्डं सा तत्र कोटिः, इदमक्षक्षेत्रं, तथोन्मण्डलशङ्कः कोटिः, शङ्कुमूलोदयास्तसूत्रदोरन्तरमग्राग्रखण्डं भुझः, कोटि-भुजाग्रयोरन्तरसूत्रं सा कुज्या तत्र कर्णः, इदमक्षक्षेत्रं, तथोन्मण्डलशङ्कना हीनः समशङ्कुस्तत्समशङ्कोरूर्द्ध्वं खण्डंसा कोटिः, कुज्योना तद्धृतिस्तद्धृतेरूर्द्ध्वखण्डं कर्णः, अग्रादिखण्डं भुजः, इदमक्षक्षेत्रम् एतान्यष्टौ तावत्कथि-तानि एवमन्यान्यपि भवन्ति