| YouTube Channel

अक्षक्रीडा (akSakrIDA)

 
Sanskrit Tibetan
Tibetan
cho lo rtse ba
अक्षक्रीडा / द्यूतक्रीडा
शब्दकल्पद्रुमः
Sanskrit
अक्षक्रीडा,
स्त्री,
(अक्षैः या क्रीडा) द्यूतक्रीडापाशकक्रीडा यथा अक्षक्रीडायां व्यासयुधि-ष्ठिरसंवादः प्रचरति इति तिथ्यादितत्त्वं
तद्विवरणं चतुरङ्गशब्दे द्रष्टव्यं
*
कार्त्तिक-शुक्लप्रतिपदि तत्क्रीडाविधिर्यथा ब्रह्मपुराणे, --“शङ्करश्च पुरा द्यूतं ससर्ज सुमनोहरं ।कार्त्तिके शुक्लपक्षे तु प्रथमेऽहनि भूपते
जितश्च शङ्करस्तत्र जयं लेभे पार्व्वती ।अतोऽर्थाच्छङ्करो दुःखी गौरी निथं सुखोषिता
तस्मात् द्यूतं प्रकर्त्तव्यं प्रभाते तत्र मानवैः ।तस्मिन् द्यूते जयो यस्य तस्य संवत्सरः शुभः
पराजयो विरुद्धस्तु लब्धनाशकरो भवेत” ।द्यूतञ्चाप्राणिभिः क्रीडनं यथा मनुः, --“अप्राणिभिर्यत् क्रियते तल्लोके द्यूतमुच्यते” ।इति तिथ्यादितत्त्वं
*
दशमीद्वादश्योस्तत्-करणनिषेधो यथा स्मृतिः, --“शाकं माषं मसूरञ्च पुनर्भोजनमैथुने ।द्यूतमत्यम्बुपानञ्च दशम्यां वैष्णवस्त्यजेत्”
कूर्म्मपुराणं, --“कांस्यं मांसं सुरां क्षौद्रं हिंसां तैलमसत्यताम् ।द्यूतक्रीडां दिवानिद्रां व्यायामं क्रोधमैथुनं
द्वादश्यां द्वादशैतानि वैष्णवः परिवर्ज्जयेत्” ।इत्येकादशीतत्त्वं
*
अन्यत् द्यूतशब्दे द्रष्टव्यं