| YouTube Channel

अक्रियः (akriyaH)

 
शब्दकल्पद्रुमः
Sanskrit
अक्रियः, त्रि, (नास्ति क्रिया यस्य अप्रशस्तावा क्रिया यस्य ।) अक्रियान्वितः कुकर्म्म-विशिष्टः क्रियारहितः यथा ‘अक्रियत्वाच्चसर्व्वदा’ इति चरकः
(निश्चेष्टः स्पन्द-रहितः कर्म्मत्यागी यथा, --“अनाश्रितः कर्म्मफलं कार्य्यं कर्म्म करोति यः ।स सन्न्यासी योगी निरग्निर्न चाक्रियः”
इति गीतायाम् ।) (स्त्री क्रियाभावः क्रिया-त्यागः अयथाक्रिया यथा, --“अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः सर्वकर्म्मिणाम् ।अक्रिया परोक्ता तृतीया चायथाक्रिया”
इति काव्यसङ्कलितः ।)