| YouTube Channel

अकृत्रिमं (akRtrimaM)

 
शब्दकल्पद्रुमः
Sanskrit
अकृत्रिमं, त्रि, (करणात् जातः कृत्रिमः नभवतीति नञ्समासः ।) अकरणजं अजन्यं ।सिद्धं अकरणजातं यथा दक्षः ।“चतुर्थे तथा भागे स्नानार्थं मृदमाहरेत् ।तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले”
इत्याह्निकाचारतत्त्वं
किञ्च कात्यायनः ।“पूर्व्वपक्षं स्वभावोक्तं प्राड्विवाकोऽथ लेखयेत् ।शोधयेत् पूर्व्वपक्षन्तु यावन्नोत्तरदर्शनं”
स्वभावोक्तं अकृत्रिमं इति व्यवहारतत्त्वं
(अक्रियोत्पन्नः नैसर्गिकः अयत्नकृतः यथा, --“तदकृत्रिमसौहार्द्दमापत्स्वपि मुञ्चति” ।इति हितोपदेशः ।)