| YouTube Channel

अकि (aki)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
अङ्क्
मूलधातुः:
अकि
धात्वर्थः:
लक्षणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
अङ्कते
अनुबन्धादिविशेषः:
इदित्
धातुप्रदीपः
Sanskrit
अकिँ अकि लक्षणे
- अङ्कते आनङ्के अङ्क्यते अङ्कः मन्दिवासिमथि (उण्, 1/38) इत्यादिना उरच्-अङ् कुरः ।। 86 ।।
क्षीरतरङ्गिणी
Sanskrit
अकिँ अकि लक्षणे
(अर्थविवरणम्) लक्षणं चिह्नम्
अङ्कते घञि (3319) अङ्कः गुरोश्च हलः (33103) इत्यः - अङ्का न्द्राः संयोगादयः (613) इति नो द्विरुच्यते - अञ्चिकिषते चुरादौ (10355) अङ्कयति ण्यासश्रन्थ (33107) इति युच् - अङ्कना खड्गादिलालना मन्दि-वाशि (उ0138) इत्युरच् - अङ्कुरः 85
अकि लक्षणे
- अङ्कयति गाम् भ्वादौ (169) अङ्कते केचिद् एकादिपदे 365
धातुवृत्तिः
Sanskrit
अकिँ अकि (अर्थः) लक्षणे
( अङ्कते आनङ्के अङ्कितेत्त्यादि अञ्चिकिषते ) अनुस्वारपरसवर्णयोः पूर्वत्रासिद्धत्वात् "नन्द्राः'' इति निषेधात् ककारादिर्द्विरुच्यते पूर्वत्रासिद्धीयमद्विर्वचन]इति असिद्धत्वनिषेधः "नन्द्राः'' इत्यस्य निषेधरूपत्वादित्यतन्तौ स्थापितम् आहुश्चात्र स्वामिकाश्यपादयोपि, "नन्द्रा'' इति निषेधात् कादेर्द्विर्वचनम् ( प्राङ्कनम् ) "कृत्यचः'' इतिः णत्वस्य ( सूत्रम्) इजादेः सनुमः (इति सूत्रम्) हशन्ताद्धातोः सनुमो यदि भवति तर्हिं इजादेरेवेति नियमादभावः ( अङ्कुरः ) "मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच'' इत्युरच् अकि कुटिलायां गतावित्यग्रे अङ्क लक्षण इति चुरादौ 87
कृदन्तरूपमाला
Sanskrit
1 {@“अकि लक्षणे”@} 2 लक्षणं = चिह्रम्।
‘इदितस्त्वङ्कते तत्र कुटिलायां गतावकेत्।’ 3 इति देवः।
4 ङ्ककः--ङ्किका, अङ्ककः-किका, 5 अञ्चिकिषकः--षिका
अङ्किता-त्री, अङ्कयिता-त्री, अञ्चिकिषिता-त्री
अङ्कयन्-न्ती, अङ्कयिष्यन्-न्ती-ती
अङ्कमानः, अङ्कयमानः, अञ्चिकिषमाणः
अङ्किष्यमाणः, अङ्कयिष्यमाणः, अञ्चिकिषिष्यमाणः
अन् 6 -अङ्कौ-अङ्कः
अङ्कितः- 7 तं, अङ्कितः-तम्-तवान्, अञ्चिकिषितः-तवान्
अङ्कः, अङ्कः, अञ्चिकिषुः, अञ्चिकयिषुः
अङ्कितव्यम्, अङ्कयितव्यम्, अञ्चिकिषितव्यम्
अङ्कनीयम्, अङ्कनीयम्, अञ्चिकिषणीयम्
अङ्क्यम्, अङ्क्यम्, अञ्चिकिष्यम्
ईषदङ्कः-दुरङ्कः-स्वङ्कः
8 अङ्क्यमानः, अङ्क्यमानः, अञ्चिकिष्यमाणः
9 अङ्कः, पर्यङ्कः- 10 पल्यङ्कः, अङ्कः, अञ्चिकिषः
अङ्कितुम्, अङ्कयितुम्, अञ्चिकिषितुम्
अङ्का 11, अङ्कना, अञ्चिकिषा, अञ्चिकयिषा
अङ्कनम्, 12 प्राङ्कनम् अङ्कनम्, अञ्चिकिषणम्
अङ्कित्वा, अङ्कयित्वा, अञ्चिकिषित्वा
समङ्क्य, समङ्क्य, समञ्चिकिष्य
अङ्कमङ्कम् अङ्कित्वा २, अङ्कम् २, अङ्कयित्वा २, अञ्चिकिषम्
अञ्चिकिषित्वा
अङ्कुरः 13
प्रासङ्गिक्यः
01
=>
(२)
02
=>
(भ्वादिः-१-८७। सक-सेट्-आत्मनेपदी।)
03
=>
(श्लो ४१)
04
=>
[[३। ‘इदितो नुम् धातोः’ (७-१-५८) इति नुम्।]]
05
=>
[[४। ‘न न्द्राः संयोगादयः’ (६-१-३) इति नकारस्य द्वित्वनिषेधः। ‘कुहोश्चुः’ (७-४-६२) इत्यभ्यासस्य चकारः।।]]
06
=>
[[५। ‘संयोगान्तस्य लोपः’ (८-२-२३)।]]
07
=>
[[B। ‘फलाङ्कितान् वङ्कितवल्लिमङ्कितान् वनप्रदेशान् उरुकाककोकिलान्’ धा-का। १-१३।]]
08
=>
[[६। इदित्त्वात् ‘अनिदितां’ (६-४-२४) इति नलोपो न।]]
09
=>
[पृष्ठम्०००५+ २९]
10
=>
[[१। ‘परेश्च घाङ्कयोः’ (८-२-२२) इति लत्वं वा। मञ्च इत्यर्थः।]]
11
=>
[[२। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियां अक्दमप्रत्ययः।]]
12
=>
[[३। ‘इजादेस्सनुमः’ (८-४-३२) इति नियमात् णत्वं न।]]
13
=>
[[४। औणादिक उरच्।]]