| YouTube Channel

अकारणगुणोत्पन्नगुणः (akAraNaguNotpannaguNaH)

 
शब्दकल्पद्रुमः
Sanskrit
अकारणगुणोत्पन्नगुणः,
पुं,
(विना कारणगुणंउत्पन्ना जाताः ये गुणाः अकारणगुण +उत्पन्न + गुण ।) स्वाभाविकगुणः न्यायमते वि-भुनिष्ठविशेषगुणाः यथा, -- बुद्धिः सुखं २दुःखं इच्छा द्वेषः यत्नः धर्म्मः अ-धर्म्मः भावना शब्दः १० ।(“अतीन्द्रिया विभूनान्तु ये स्युर्वेशेषिका गुणाः ।अकारणगुणोत्पन्ना एते तु परिकीर्त्तिताः”
इति भाषापरिच्छेदे अकारणेति कारणगुण-पूर्व्वका रूपादयो वक्ष्यन्ते बुद्ध्यादयस्तु नतादृशाः आत्मादेः कारणाभावात् ।) इतिसिद्धान्तमुक्तावली