| YouTube Channel

अकर्म्म (akarmma)

 
शब्दकल्पद्रुमः
Sanskrit
अकर्म्म, [न्]
क्ली,
(न कर्म्म नञ्समासः ।) अक-रणीयकार्य्यं यथा, --“किं कर्म्म किमकर्म्मेति कवयोऽप्यत्र मोहिताः ।तत्ते कर्म्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्
कर्म्मणो ह्यपि बोद्धव्यं बोद्धव्यञ्च विकर्म्मणः ।अकर्म्मणश्च बोद्धव्यं गहना कर्म्मणो गतिः
कर्म्मण्यकर्म्म यः पश्येदकर्म्मणि कर्म्म यः ।स बुद्धिमान् मनुष्येषु युक्तः कृत्स्नकर्म्मकृत्”
इति श्रीभगवद्गीतायां अध्याये १६ १७ ।१८ श्लोकाः
(अप्रशस्तं कर्म्म कर्म्माभावः ।दुष्कर्म्म ।)