| YouTube Channel

अकर्त्तव्यं (akarttavyaM)

 
शब्दकल्पद्रुमः
Sanskrit
अकर्त्तव्यं, त्रि, (न + कृञ् + तव्य कर्त्तव्यं नञ्-समासः ।) अकरणीयं अकरणार्ह्यं अकार्य्यं ।यथा, --“अविरोधी भवाब्धौ सर्व्वमङ्गलमङ्गलं ।विरोधी नाशवीजञ्च सर्व्वोपद्रवकारणं
अकर्त्तब्यो विरोधश्च दारुणैः क्षत्त्रियैः सह” ।इति ब्रह्मवैवर्त्ते गणपतिखण्डे २८ अध्यायः