| YouTube Channel

अकम्पितः (akampitaH)

 
E Bharati Sampat
Sanskrit
(वि) कम्पितः। १.कम्परहितः। ‘असन्दिग्धान् स्वरान् ब्रूयादविकृष्टानकम्पितान्’ ऋक्प्राति०। २.न कम्पितं चित्तचाञ्चल्यं यस्य स्थिरमनस्कः। (पुं) ३.बौद्धगणाधिपभेदः। ‘एकादश गणाधिपाः’ ‘मण्डितमौर्यपुत्रावकम्पितः’ हैमः।
शब्दकल्पद्रुमः
Sanskrit
अकम्पितः,
पुं,
(न कम्पितः नञ्समासः ।)बौद्धगणाधिपविशेषः इति हेमचन्द्रः
कम्प-रहिते वाच्यलिङ्गः
(असंदिग्धान् स्वरान् ब्रूया-दविकृष्टानकम्पितान् इति ऋग्वेदीयप्रातिशा-ख्यसूत्रम् ।)