अकथह (akathaha)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English अकथह akathaha kind of diagram
वाचस्पत्यम्
Sanskritअकथह अ, क, थ, ह, इत्यादिवर्णसंघक्रमेण वर्णसमुदायो-ऽस्त्यस्मिन् अच् । तन्त्रोक्तमन्त्रग्रहणार्थं तत्तन्मन्त्राणां शुभा-शुभविचारोपयोगिनि चक्रभेदे तत्स्वरूपं यथा रुद्रयामले ।“वक्ष्येऽकथहचक्राख्यं सर्व्वचक्रोत्तमोत्तमम् । यस्य विचार-मात्रेण कामरूपी भवेन्नरः ॥
तत्प्रकारं वीरनाथ ।क्रमशः क्रमशः शृणु । चतुरस्रे लिखेत् वर्ण्णान् चतुः-कोष्ठसमन्विते ॥
चतुःकोष्ठ--चतुकोष्ठचतुर्गृहसमन्वितम् ।मन्दिरं षोडशं प्रोक्तं सर्व्वकर्म्मार्थसिद्धिदम् ॥
चतु-रस्रं लिखेत् कोष्ठं चतुष्कोष्ठसमन्वितम् । पुनश्चतुष्कं तत्रापिलिखेद्धीमान् क्रमेण तु ॥
सर्व्वेषु गृहमध्येषु प्रादक्षिण्यक्रमेण तु । अकारादिक्षकारान्तान् लिखित्वा गणयेत्-ततः ॥
चन्द्रमग्निं रुद्रवर्णं नवमं युगलन्तथा ॥
वेदमङ्कंदश रसं वसुं षोडशमेव च । चतुर्दशं भास्करं च सप्त पञ्च-दशेति च ॥
वह्नीन्दु कोष्ठगं वर्णपञ्चाशैकं मयोदितम् ।एतदङ्कस्थितान् वर्णान् गणयेत् तदनन्तरम् ॥
नामाद्यक्षर-मारभ्य यावत् मन्त्रादिमाक्षरम् । चतुर्भिः कोष्ठैरेकैकमितिकोष्ठचतुष्टयम् ॥
पुनः कोष्ठगकोष्ठेषु सव्यतो नामकादितः ।सिद्धः साध्यः सुसिद्धोऽरिः क्रमशो गणयेत् वशी ॥
सिद्धःसिध्यति कालेन साध्यस्तु जपहोमतः । सुसिद्धो ग्रहणाज्-ज्ञानी शत्रुर्हन्ति चिरायुषम् । सिद्धस्तु बान्धवः प्रोक्तःसाध्यः सेवक उच्यते । सुसिद्धः पोषकः प्रोक्तः शत्रुर्घातकउच्यते । सिद्धकोष्ठस्थिता वर्णा बान्धवाः सर्वकामदाः ।जपेन बन्धुः सिद्धः स्यात् सेवकोऽधिकसेवनात् ॥
पुष्णातिपोषकोऽभीष्टं घातको नाशयेत् ध्रुवम् । सिद्धो यथोक्तकालेनद्विगुणात् सिद्धसाध्यकः ॥
तत्सुसिद्धोऽर्द्धजप्येन सिद्धारि-र्हन्ति बान्धवान् । साध्यसिद्धो द्विगुणतः साध्यसाध्योनिरर्थकः ॥
तत्सुसिद्धो द्विघ्नजपात् साध्यारिर्हन्तिगोत्रजान् । सुसिद्धसिद्धोऽर्द्धजपात् तत् साध्यो द्विगुणाधि-कात् । तत्सुसिद्धो ग्रहादेव सुसिद्धारिः सगोत्रहा ॥
अरिसिद्धः सुतान् हन्यात् अरिसाध्यस्तु कन्यकाः । तत्-सुसिद्धस्तु पत्नीघ्नस्तदरिर्हन्ति साधकमिति” ॥
एतच्च सर्व्व-मन्त्रेषु सिद्धादिचक्रत्वेन व्यवह्रियते ।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
