| YouTube Channel

अंह (aMha)

 
नाममाला
Sanskrit
अघ, अंह, दुरित, पाप्मन्, पाप, किल्बिष, वृजिन, कलिल, एनस्, दुष्कृत
अघमंहश्च दुरितं पाप्मा पापं किल्बिषम्
वृजिनं कलिलं ह्येनो दुष्कृतम् तज्जयी जिनः १३१
verse 0.1.1.131
page 0066
शब्दकल्पद्रुमः
Sanskrit
अंहः, [स्]
क्ली,
(अमति गच्छति प्रायश्चि-त्तादिना अम गत्यादिषु अमेः हुक् चइति असुन् हुगागमश्च अमति गच्छतिअघोऽनेन वा अहेरसुना सिद्धे अघेरसुनिअङ्घ इति मा भूदिति अमेः हुक् चेति सूत्रं ।तथा --“स्यान्मध्योष्मचतुर्थत्वमंहसोरंहसस्तथा” ।इति द्विरूपकोषः एवञ्च ‘दत्तार्धाः सिद्धसङ्घै-र्विदधतु घृणयः शाघ्रमङ्घोविघातम्’ इति सूर्य्य-शतके पाठः अनुप्रासरसिकानां प्रामादिक इतिवद्न्ति ।) पापं इत्यमरः
(दुःखं विघ्नः ।स्वधर्म्मत्यागः ।)
वाचस्पत्यम्
Sanskrit
अंह भासने अद०
चु०
उभ०
अंहयति ते आञ्जिहत्