| YouTube Channel

अंशुमान् (aMzumAn)

 
Hindi
Hindi
उज्ज्वल
Apte Hindi
Hindi
अंशुमान्
पुं*
- अंशु+मतुप्
सूर्य
अंशुमान्
पुं*
- अंशु+मतुप्
"सगर का पौत्र, दिलीप का पिता और असमंजस का पुत्र "
भूतसङ्ख्या
Sanskrit
१, अंशुमान्, अचला, अब्ज, अमृतांशु, अवनि, आदि, आस्य, इन्दु, इला, उडुपति, उर्वरा, उर्वी, ऋक्षेश, एक, एणधर, औषधीश, क, कलाधर, कलि, कु, कुमुदाकरप्रिय, क्षपाकर, क्षमा, क्षिति, क्षोणि, क्षोणी, क्षमा, गो, गोत्र, गोत्रा, ग्लौ, चन्द्र, चन्द्रमस्, जगती, जैवातृक, ज्या, तनु, दाक्षायणीप्राणेश, धरणी, धरा, धरित्री, नायक, निशाकर, निशेश, पितामह, पृथिवी, पृथ्वी, प्रालेयांशु, ब्रह्मा, भुवन्यु, भू, भूमि, मही, मुख, मृगलाञ्छन, मृगाङ्क, मेदिनी, रजनीकर, रजनीश, रात्रिप, रात्रीश, रुग्ण, रूप, लपन, वक्त्र, वदन, वसुधा, वसुन्धरा, वाक्, विधु, विरञ्चि, विश्वम्भरा, शशधर, शशभृत्, शशलाञ्छन, शशाङ्क, शशि, शशी, शीतकर, शीतकिरण, शीतद्युति, शीतमयूख, शीतरश्मि, शीतांशु, शुभ्रभानु, श्वेत, श्वेतांशु, सितरश्मि, सुधांशु, सोम, स्थिरा, हरिणधृत्, हरिणाङ्क, हिमकर, हिमगु, हिमरश्मि, हिमांशु
E Bharati Sampat
Sanskrit
(पुं) (अंशुमत्) अंशवः अस्य सन्ति अंशु+मतुप् ‘तदस्यास्त्यस्मिन्निति मतुप्’ ५.२.९४। १.सूर्यः, रविः। ‘अंशुधरः करांशुर्भा रविः’ ‘अंशुमानंशुमाली’ त्रिका०। ‘अविभिद्य निशाकृतं तमः प्रभया नांशुमताप्युदीयते’ किरा०२.३६। २.सगरपौत्रः, असमञ्जपुत्रः। ‘सगरस्यासमञ्जस्तु असमञ्जादथांशुमान्’ रामा०१.८.७०। (वि) ३.प्रभायुक्तः। ‘ज्योतिषां रविरंशुमान्’ गीता १०.२१। ४.सूक्ष्माग्रवान्। (स्त्री) अंशुमती
Wordnet
Sanskrit
Synonyms:
अंशुमान्
noun
अदितिकश्यपयोः पुत्रविशेषः।
"अंशुमान् द्वादशसु आदित्येषु गण्यते।"
Synonyms:
अंशुमान्
noun
इक्ष्वाकुवंशीयः राजा यः रामस्य पूर्वजः असमंजस्य पुत्रः आसीत्।
"राजा दिलीपः अंशुमतः पुत्रः आसीत्।"
पुराणम्
English
अंशुमान् / AṀŚUMĀN. Name of a King belonging to the Solar dynasty (sūrya Vaṁśa).1) Genealogy. aṁśumān was descended from viṣṇu through brahmā-marīci-kaśyapa-vivasvān-Vaivasvatamanu-ikṣvāku-vikukṣi-śaśāda-purañjaya-KakutsthaAnenas-pṛthulāśva-prasenajit-yuvanāśva-MāndhātāPurukutsa-trasadasyu-anaraṇya-Aryaśvan-vasumanas-sudhanvā-Traiyyāruṇa-satyavrata-triśaṅku-hariścandra-rohitāśva-harita-cuñcu-sudeva-BharukaBāhuka-sagara-Asamañjas-aṁśumān.2) Birth. sagara, a king of the sūrya vaṁśa, (mentioned above) had two wives, sumati (vaidarbhī) and keśinī (Saibā) by name. keśinī gave birth to a son named Asamañjas. aṁśumān was the son of Asamañjas and the father of the famous bhagīratha. (See under the title, bhagīratha).3) Some other details. aṁśumān was one of the Kings who attended the svayaṁvara of pāñcālī. (Vide Śloka 11, Chapter 185 of Ādi Parva of the mahābhārata).
अंशुमान् / AṀŚUMĀN II. There is a reference to one aṁśumān in the course of the description of the Viśvedevas.
अंशुमान् / AṀŚUMĀN III. King of bhoja who was killed by droṇa in the war at kurukṣetra (Vide Śloka 14, Chapter 6 of karṇa Parva).
शब्दकल्पद्रुमः
Sanskrit
अंशुमान् [त्]
पुं,
(अंशवो विद्यन्ते अस्य इति ।तदस्यास्तीति मतुप् ।) सूर्य्यः
इति त्रिकाण्ड-शेषः
असमञ्जपुत्त्रः सूर्य्यवंशीयराजविशेषः
यथा ।“सगरस्यासमञ्जस्तु असमञ्जादथांशुमान् ।दिलीपोऽशुंमतः पुत्त्रो दिलीपस्य भगीरथः”
इति रामायणे बालकाण्डे ७० सर्गः
सूर्य्यवंशौ-यासमञ्जोराजपौत्त्रः यथा, --“ततश्चकारासमञ्जा गङ्गानयनकारणं ।लक्षवर्षं तपस्तप्त्वा ममार कालयोगतः
दिलीपस्तस्य तनयो गङ्गानयनकारणं ।तपः कृत्वा लक्षवर्षं ययौ लोकान्तरं नृपः
अंशुमांस्तस्य पुत्त्रोऽभूद्गङ्गानयनकारणं ।तपः कृत्वा लक्षवर्षं ममार कालयोगतः
भगीरथस्तस्य पुत्त्रो महाभागवतः सुधीः ।तपः कृत्वा लक्षवर्षं ममार कालयोगतः”
इत्यादि ब्रह्मवैवर्त्ते प्रकृतिखण्डे अध्यायः
(विश्वव्यापिप्रकाशः परमात्मा ।) अंशुयुक्ते त्रि
सोमलताया अवयवविशिष्टः ।)