| YouTube Channel

अंशुकः (aMzukaH)

 
E Bharati Sampat
Sanskrit
(पुं) अंशुः एव अंशु+कन्(स्वार्थे) १.किरणः। २.प्रभा, रश्मिः। (न) अंशुभिः काशते। अंशु+काशृ(दीप्तौ)+डः। ‘अन्येष्वपि दृश्यते’ ३.२.१०१। ३.सूक्ष्मवस्त्रस्त्रम्, श्लक्ष्णवस्त्रम् ४.वस्त्रम् ५.उत्तरीयम् ‘अंशुकं श्लक्ष्णवस्त्रे स्याद्वस्त्रमात्रोत्तरीययोः’ मेदिनी ‘यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किं पुरुषाङ्गनानाम्’ कुमा०१.१४।