| YouTube Channel

अंशसवर्ण्णन (aMzasavarNNana)

 
वाचस्पत्यम्
Sanskrit
अंशसवर्ण्णन
न०
समानोवर्ण्णः योगवियोगयोग्यता सवर्ण्णः ततःकरणार्थे णिचि भावे ल्युट् सवर्णनम् अंशयोः अतुल्य-च्छेदयोः राश्योः समच्छेदकरणम् त० लीलावत्युक्तेअतुल्यच्छेदराश्योः योगवियोगयोग्यतासम्पादके समच्छेद-साधने क्रियाविशेषे, तत्रादावंशसवर्णनमित्युक्तस्य “अन्योन्य-हाराभिहतौ हरांशौ राश्योः समच्छेदविधानमेवमितिलीलावत्यामुक्तम्