| YouTube Channel

अं (aM)

 
शब्दकल्पद्रुमः
Sanskrit
अं अंकारः तु अनुस्वारः तन्त्रमते पञ्चदश-स्वरवर्णः (स तु पाणिन्यादिमते अयोगवाह एव“अयोगवाहा विज्ञेया आश्रयस्थानभागिनः” ।इत्यक्तेः नस्ति योगः अक्षरसमाम्नायसूत्रेषु येषांते अयोगास्तथापि वाहयन्ति णत्वषत्वकार्य्यं नि-र्व्वाहयन्तीति वाहाः अयोगाश्च ते वाहाश्चेतिअयोगवाहा अनुस्वारविसर्गजिह्वामूलीयोपाध्मा-नीया इत्यर्थः ।)विन्दुमात्रानुनासिकवर्णोऽयं अकार उच्चारणार्थः ।वोपदेवेनास्य नुरिति संज्ञा कृता तु नकार-मकारस्थानेऽपि भवति
*
“नुवीपूर्व्वेण संबद्धौ मून्यौ तु परगामिनौ ।चत्वारोऽयोगवाहाख्या णत्वकर्म्मण्यचो मताः”
इति दुर्गादासः
*
“अंकारं विन्दुसंयुक्तं पीतविद्युत्समप्रभम् ।पञ्चप्राणात्मकं वर्णं ब्रह्मादिदेवतामयम्
सर्व्वज्ञानमयं वर्णं विन्दुत्रयसमन्वितम्”
इति कामधेनुतन्त्रम्
(वङ्गीयभाषायाम् ।) तस्यलेखनप्रकारो यथा ।“अकाररूपशीर्षे तु दक्षिणे विन्दुरूपिणी ।ब्रक्ष्मा विष्णुश्च रुद्रश्च क्रमशस्तासु तिष्ठति
या तु विन्दुमयी रेखा सैवाद्या शक्तिरीरिता”
इति वर्णोद्धारतन्त्रम्
*
अस्य नामानि यथा ।“अंकारश्चक्षुषो दन्तो घटिका समगुह्यकः ।प्रद्युम्नः श्रीमुखी प्रीतिर्वीजयोनिर्वृषध्वजः
परं शशी प्रमाणीशः सोमविन्दुः कलानिधिः ।अक्रूरश्चेतना नादपूर्णा दुःखहरः शिवः
शिवः शम्भुर्नरेशश्च सुखदुःखप्रवर्त्तकः ।पूर्णिमा रेवती शुद्धः कन्याचरवियद्रविः
अमृताकर्षिणी शून्यं विचित्रा व्योमरूपिणी ।केदारो रात्रिनाशश्च कुब्जिका चैव वुद्वुदः”
इति तन्त्रशास्त्रम्
अं,
क्ली,
परं ब्रह्म इत्येकाक्षरकोषः
(महेश्वरः ।यदुक्तम् महाभारते १३ १७ १२६ ।“विन्दुर्विसर्गः सुमुखः शरः सर्व्वायुधः सहः”
)