सेवा (sevA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishCapeller Eng
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishसेवा - sevA - - service
{ सेवां कृ } - {sevAMkR} - verb - doservice
जालाधारितसेवा - jAlAdhAritasevA - - onlineservice [ computer ]
जालसंयुक्तसेवा - jAlasaMyuktasevA - - onlineservice [ computer ]
संयुक्तसेवा - saMyuktasevA - - onlineservice [ computer ]
अर्प - arpa - - service(tennis)
अन्तर्जालसेवाकल्पक - antarjAlasevAkalpaka - - Internetserviceprovider(ISP) [ computer ]
अन्तर्सेवक - antarsevaka - - Internetserviceprovider(ISP) [ computer ]
अन्तस्सेवक - antassevaka - - Internetserviceprovider(ISP) [ computer ]
उपासना - upAsanA - - service
परिचर्या - paricaryA - - service
उपचर्या - upacaryA - - service
अनुसेवा - anusevA - - service
वेषणा - veSaNA - - service
उपक्रिया - upakriyA - - service
अरङ्कृति - araGkRti - - service
उपचरितव्या - upacaritavyA - - service
उपसत्ति - upasatti - - service
कनिष्ठिका - kaniSThikA - - service
क्लिष्टि - kliSTi - - service
Wilson
EnglishApte
Englishसेवा [sēvā], [सेव्-अ]
Service, servitude, dependence
attendance
सेवां लाघवकारिणीं कृतधियः स्थाने श्ववृत्तिं विदुः 3.14
हीनसेवा न कर्तव्या 3.11.
Worship, homage, honouring.
Addiction or devotion to, fondness for.
Use, practice, employment, exercise.
Frequenting, resorting to.
Flattery, coaxing or flattering words
अलं सेवया मध्यस्थतां गृहीत्वा भण 3. -आकार in the form of servitude
सेवाकारा परिणतिरहो स्त्रीषु कष्टो$धिकारः 3.1. -काकुः change of voice in service
(this is a variant in 3.1 for सेवाकारा).
धर्मः the duty of service
सेवाधर्मः परमगहनो योगिनामप्यगम्यः 1.285.
the obligations of service. -विलासिनी a female servant. -वृत्तिः a livelihood gained by service.-व्यवहारः the practice or law of service.
Apte 1890
Englishसेवा [सेव्-अ] 1 Service, servitude, dependence
attendance
सेवां लाघवकारिणीं कृतधियः स्थाने श्ववृत्तिं विदुः Mu. 3. 14
हनिसेवा न कर्तव्या H. 3. 11.
2 Worship, homage, honouring
3 Addiction or devotion to, fondness for.
4 Use, practice, employment, exercise.
5 Frequenting, resorting to.
6 Flattery, coaxing or flattering words
अलं सेवया मध्यस्थतां गृहीत्वा भण M. 3.
Comp.
आकार a. in the form of servitude
V. 3. 1.
काकुः change of voice in service
(this is a variant in V. 3. 1 for सेवाकारा).
धर्मः {1} the duty of service
सेवाधर्मः परमगहनो योगिनामप्यगम्यः Pt. 1. 285. {2} the obligations of service.
व्यवहारः the practice or law of service.
Monier Williams Cologne
EnglishMonier Williams 1872
Englishसेवा, f. service, attendance, servitude
worship,
homage
devotion or addiction to
use, practice,
employment
resorting to, frequenting.
—सेवा-काकु,
उस्, f. change of voice in service (i. e. sometimes
speaking loudly, sometimes softly, sometimes angrily,
sometimes sorrowfully).
—सेवा-धर्म, अस्, m. the
duty or rule of service
the functions or obligations
of service.
—सेवा-भृत्, त्, त्, त्, maintaining service,
doing service, serving.
—सेवावलम्ब (°वा-अव्°),
अस्, आ, अम्, depending on the service of another.
—सेवा-व्यवहार, अस्, m. the practice of service.
Benfey
Englishसेवा सेव् + आ,
1. Service, Man. 4,
5
Vikr. d. 42.
2. Servitude, Hit. i.
d. 136, M.M.
3. Practice, Rājat. 5,
280.
4. Worship, Bhag. 4, 34.
5.
Homage, Rājat. 5, 154.
--
अ-,
avoiding to serve, Man. 2, 96.
वार-,
1. harlotry. 2. a set of courtesans.
स्त्री-, libertinism. हिन- (vb. हा),
serving a low person,
Böhtl. Ind. Spr. 3355.
Hindi
Hindiसेवा
Apte Hindi
Hindiसेवा
- सेव् + अङ् + टाप्
"प्रिचर्या, खिदमत, दासता, टहल"
सेवा
- सेव् + अङ् + टाप्
"पूजा, श्रद्धांजलि, सम्मान"
सेवा
- सेव् + अङ् + टाप्
"संलग्नता, भक्ति, चाव"
सेवा
- सेव् + अङ् + टाप्
"उपयोग, अभ्यास, काम में लगना, प्रयोग"
सेवा
- सेव् + अङ् + टाप्
"बार-बार आना जाना, आश्रय लेना"
सेवा
- सेव् + अङ् + टाप्
"चापलूसी, बहकाना, चिकने चुपड़े शब्द"
L R Vaidya
EnglishBopp
LatinIndian Epigraphical Glossary
EnglishWordnet
Sanskrit सेवा
अन्येषां हिताय सुविधायै वा केनचित् मनुष्येण समूहेन वा कृतं कार्यम्।
"भ्रमणध्वनेः उद्योगसंस्थया स्वग्राहकाणां कृते एका नूतना सेवा आरब्धा।"
सेवा
केन अपि उपकरणेन सङ्घटनेन वा विशिष्टकार्यस्य कृते प्रदत्ता व्यवस्था।
"अस्मिन् भ्रमणध्वनौ आन्तर्जाल-सेवा अपि उपलभ्यते।"
सेवा
अन्येषां कृते कर्तव्यस्य पालनं द्रव्यसामग्रीणाम् उपपादनञ्च।
"अत्रत्येषु भोजनालयेषु उत्तमाः सेवाः सन्ति।"
सेवा, दास्यम्, भृतिः
भृत्यस्य कार्यम्।
"विंशतिः वर्षाणि अभवन् अहम् अस्य गृहस्य सेवां कुर्वन् अस्मि।"
उपचारः, सेवा
रुग्णस्य पालनम्।
"परिचारिका सर्वात्मना रुग्णस्य उपचारम् अकरोत्।"
सेवा, उपसत्तिः, देवना, दोस्थः, परिसर्या
पूज्यादीनां सुखार्थे कृतं कर्म।
"सः अहोरात्रं पित्रोः सेवां करोति।"
आदरः, सत्कारः, सम्मानः, मानः, अर्चनम्, अर्हा, अर्हणम्, अर्चा, अभ्यर्चा, अभ्यर्चनम्, पूजा, नमस्कारः, सेवा, सम्भावना, आराधनम्, पुरस्कारः, श्लाघा
सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
"मातुः पितुः च आदरः करणीयः।"
Sanskrit Tibetan
Tibetanbkur sti
१) चित्रीकरणता २) परिचर्या ३) भक्त ४) भक्ति ५) मान ६) मान्य ७) सत्कार ८) सत्कृत्य ९) सेवा
gcam tshul
सेवा
mchod pa
१) अर्चन २) अर्चना ३) ४) आराधना ५) कारा ६) परिचर्या ७) पूज ८) पूजन ९) पूजना १०) पूजा ११) पूजित १२) पूज्य १३) पूज्यमान १४) भक्ति १५) महित १६) महीयते १७) मानना १८) सत्कार १९) सपर्या २०) संपूजित २१) सेवा
अभिधानचिन्तामणिः
Sanskritसहायोऽभिचरोऽनोश्च जीविगामिचरप्लवाः ।
सेवकोऽथ सेवा भक्तिः परिचर्या प्रसादना ॥ ४९६ ॥
शुश्रूषाराधनोपास्तिवरिवस्यापरीष्टयः ।
उपचारः पदातिस्तु पत्तिः पद्गः पदातिकः ॥ ४९७ ॥
पादातिकः पादचारी पदाजिपदिकावपि ।
सहाय (पुं), अभिचर (पुं), अनुजीविन् (पुं), अनुगामिन् (पुं), अनुचर (पुं), अनुप्लव (पुं), सेवक (पुं), सेवा (स्त्री), भक्ति (स्त्री), परिचर्या (स्त्री), प्रसादना (स्त्री), शुश्रूषा (स्त्री), आराधना (स्त्री), उपास्ति (स्त्री), वरिवस्या (स्त्री), परीष्टि (स्त्री), उपचार (पुं), पदाति (पुं), पत्ति (पुं), पद्ग (पुं), पदातिक (पुं), पादातिक (पुं), पादचारिन् (पुं), पदाजि (पुं), पदिक (पुं)
अभिधानरत्नमाला
Sanskritवरिवस्या
वरिवस्या, परिचर्या, शुश्रूषा, उपासना, परीष्टि, सेवा, भक्ति, उपास्ति, प्रसादन, आराधन, उपचार
वरिवस्या परिचर्या शुश्रूषोपासना परीष्टिः स्यात् ।
सेवा भक्तिरुपास्तिः प्रसादनाराधनोपचाराश्च ॥ १२९ ॥
verse 1.1.1.129
page 0016
Tamil
Tamilஸேவா : தொண்டு, பணிவிடை, பூஜை, வணக்கம், உபயோகம், பற்றுதல்.
अमरकोशः
SanskritWord: सेवा
Root: सेवा
Gender: undefined
Number: undefined
Meaning(s):
⇒ abode
⇒ house
⇒ refuge
⇒ shelter
⇒ dwelling
⇒ reliance
⇒ protection
⇒ possessing anything
⇒ furnished or provided with
⇒ relating or belonging to zrI
Shloka(s):
3|2|12|1 ► उन्नाय उन्नये श्रायः श्रयणे जयने जयः। (सङ्कीर्णवर्गः)
3|3|225|2 ► प्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः॥ (नानार्थवर्गः)
Synonym(s):
➠ 3|2|12|1 ⇢ श्रायः (श्राय) (पुं) ⇒ abode, house, refuge, shelter, dwelling, reliance, protection, possessing anything, furnished or provided with, relating or belonging to zrI
➠ 3|2|12|1 ⇢ श्रयणम् (श्रयण) (नपुं) ⇒ asylum, refuge, shelter, mixture, mixing up, protection, recourse to, act of going to or approaching
➠ 3|3|225|2 ⇢ भिक्षा (भिक्षा) (स्त्री) ⇒ alms, hire, wages, service, begging, act of begging or asking, any boon obtained by begging
Related word(s):
गुण-गुणी-भावः ➡ सेवकः
जातिः ➡ क्रिया
उपजीव्य_उपजीवक_भावः ➡ सेवकः
शब्दकल्पद्रुमः
Sanskritसेवा, (सेवृ सेवने + “गुरोश्च हलः ।” ३ ।३ । १०३ । इत्यः । टाप् ।) सेवनम् । तत्प-र्य्यायः । श्ववृत्तिः २ । इत्यमरः । २ । ९ । २ ॥
(यथा, मनुः । ४ । ६ ।“सत्यानृतञ्च बाणिज्यं तेन चैवापि जीव्यते ।सेवाश्ववृत्तिराख्याता तस्मात् तां परिवर्ज्जयेत् ॥
”)आराधना । उपभोगः । आश्रयणम् ॥
इतिसेवधात्वर्थदर्शनात् ॥
(यथा, मनुः । १२ । ८७ ।“वेधाभ्यासस्तपो ज्ञानमिन्द्रियाणाञ्च संयमः ।अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥
”)अथ माघादिद्वादशमासेषु विष्णुसेवाविधिस्तत्-फलञ्च । यथा, --व्यास उवाच ।“विप्र द्वादशमासेषु माघादिषु सनातनः ।पूजितव्यो विधानैश्च शृणु तानि वदाम्यहम् ॥
माघे मासि समायाते सर्व्वमासोत्तमे शुभे ।आमिषं मैथुनञ्चैव वर्ज्जयेद्वैष्णवो जनः ॥
प्रातःस्नायी भवेन्नित्यं तैलान्यपि च वर्ज्जयेत् ।द्विर्भोजनं परान्नञ्च माघे मासि परित्यजेत् ॥
प्रातः शुक्लाम्बरधरः कृतपञ्चमहाध्वरः ।सपर्य्यामारभेद्विष्णोः स्थिरवृत्तो हि वैष्णवः ॥
ईषदुष्णजलैर्द्दिव्यैः स्नापयेद्विष्णुमव्ययम् ।अतिश्लक्ष्णै श्चन्दनैश्च विष्णोरङ्गञ्च लेपयेत् ॥
पूजायै जगदीशस्य देवदेवस्य चक्रिणः ।प्रक्षालितानि पात्राणि जलहीनानि कारयेत् ॥
स्नापयित्वा जगन्नाथमीषदुष्णजलैस्ततः ।प्रोञ्छितव्य तच्छरीरं दिव्यवस्त्रेण यत्नतः ॥
सलिलैरीषदुष्णैश्च यः स्नापयति केशवम् ।माघे मासि द्विजश्रेष्ठ फलं तस्य मयोच्यते ॥
विमुक्तः पातकैः सर्व्वैर्ज्जन्मजन्मान्तरार्ज्जितैः ।इह भुक्त्वा सुखं सर्व्वं शेषे याति हरेर्गृ हम् ॥
यत्नात् प्रक्षाल्य पात्राणि कृत्वा हीनानिवारिभिः ।यः पूजयेज्जगन्नाथं तस्य पुण्यं निशामय ॥
इह भुक्त्वा वरान् भोगान् रोगशोकविवर्ज्जितः ।अन्ते युगसहस्राणि तिष्ठेत् केशवमन्दिरे ॥
प्रभातेऽपि च सन्ध्यायां पुरतश्चक्रपाणिनः ।ज्वलन्तं स्थापयेद्वह्निं निर्धूमं वैष्णवो जनः ॥
शीतस्यावरणार्थाय प्रातः सायञ्च यो जनः ।माघे विष्ण्वग्रतो वह्निं ज्वालयेत्तत्फलं शृणु ॥
इह भुक्त्वाखिलान् भोगान् पुत्त्रपौत्त्रसमन्वितः ।अन्ते विष्णुपुरं याति दैवतैरपि दुर्लभम् ॥
यथैवात्मा तथा विष्णुः सन्देहो नात्र विद्यते ।तस्मादात्मानुमानेन विष्णुसेवा विधीयते ॥
प्रभाते रौद्रदेशे च पवित्रे स्थापयेद्धरिम् ।न भुनक्ति द्विजश्रेष्ठ यावत् शीतं सुदुःसहम् ॥
स्वपन्तं देवदेवेशं पर्य्यङ्कोपरि केशवम् ।स्थापयेन्निशि निर्व्वाते देशे च वैष्णवो जनः ॥
न प्राप्नोति यथा शीतं देवदेवो जगदगुरुः ।शुक्लैः पवित्रैर्द्दिव्यैस्तं वस्त्रे राच्छादयेद्ब धः ॥
आत्मनः कुरुते मर्त्यो यथा शीतनिबारणम् ।तथा शीतक्षयं कुर्य्याद्दे वदेवस्य चक्रिणः ॥
क्षीरेण स्नापयेद्यस्तु माघे मासि जनार्द्धनम् ।तस्मै देवोत्तमो विष्णुः सन्तुष्टो न ददाति किम् ॥
यः पूजयेत् सकृन्माघे स्नापयित्वा जनार्द्दनम् ।नारिकेलोदकैर्द्दुग्धैः फलं तस्य वदाम्यहम् ॥
नरकाब्धौ मज्जमानान् दुस्तरे स्वेन कर्म्मणा ।उद्धृत्य कोटिपुरुषान् मन्दिरं याति चक्रिणः ॥
माघे मासि च शुक्लायां पञ्चम्यां द्विजसत्तम ।एकादश्याञ्च सप्तम्यां हरिः पूज्यो विशेषतः ॥
दातव्यो देवदेवाय सपद्माय मुरारये ।पायसोऽपूपसहितो माघे मासि दिने दिने ॥
अपूपं पायसं यस्तु माघे यच्छति चक्रिणे ।तस्य पुण्यमहं वच्मि शृणु वेष्णव जैमिने ॥
अन्ते विष्णुपुरं गत्वा मन्वन्तरचतुष्टयम् ।भुङ्क्ते मनोरथान् भोगान् प्रसादाच्चक्रयाणिनः ॥
पुनरागत्य धरणीं चक्रवर्त्ती नृपो भबेत् ।भुङ्क्ते भोगञ्च सुचिरं मृतो याति हरेगृहम् ॥
पञ्चम्याञ्चैव सप्तम्यामेकादश्याञ्च जैमिने ।अशक्त्या वैष्णवो दद्यात् परमान्नं मुरारये ॥
कृष्णपक्षाद्ध्विजश्रेष्ठ शुक्लपक्षो विशिष्यते ।शुक्लपक्षं तिथिष्वासु दद्यादन्नं मुरारये ॥
एकाहमपि यो माघे विष्णवे दैत्यजिष्णवे ।सापूपं पायसं दद्यान्न तस्य दुर्ल्लभो हरिः ॥
यत्किञ्चित् विष्णुतृप्त्यर्थं माघे मासि प्रदीयते ।तदक्षय भवेत् सर्व्वं कोऽपि नास्त्यत्र संशयः ॥
माघे मासि कृतं कर्म्म शुभं वाशुभमेव च ।तस्य नास्ति क्षयं विप्र मन्वन्तरशतैरपि ॥
माघे चम्पकपुष्पेण योऽर्च्चयेत् कमलापतिम् ।स गच्छेत् परमं धाम विमुक्तः सर्व्वपातकैः ॥
यावन्ति स्वर्णपुष्पाणि दीयन्ते चक्रपाणये ।तावत् युगसहस्राणि स्थीयते विष्णुमन्दिरे ॥
मेरुतुल्यसुवर्णानि दत्त्वा भवति यत् फलम् ।एकेन स्वणपुष्पेण दत्त्वा भवति तत् फलम् ॥
सुवर्णपुष्पं विप्रेन्द्र सर्व्वंदा केशवप्रियम् ।माघं मासि विशेषेण पवित्रे केशवोपमे ॥
सुवर्णकुसुमैर्द्दिव्यैर्येन नाराधितो हरिः ।रत्नैर्हीनः सुवर्णाद्यैः स भवेज्जन्मजन्मनि ॥
”इति पाद्मे क्रियायोगसारे ९ । १० अध्यायौ ॥
* ॥
व्यास उवाच ।“फाल्गुने ब्राह्मणश्रेष्ठ श्रीकृष्णं सुरवन्दितम् ।पूजयेद्भक्तिभावेन प्रत्यहं वैष्णवो जनः ॥
फाल्गुने स्नापयेद्यस्तु सर्पिषा देवकौसुतम् ।फलं तस्य प्रवक्ष्यामि मत्तः सम्यक् निशामय ॥
सर्व्वयज्ञफलं प्राप्य सर्व्वदानफलं तथा ।अन्ते याति हरेः स्थानं सर्व्वपापविवर्ज्जितः ॥
युगकोटिसहस्राणि भुक्त्वा भोगं हरेर्गृहे ।तत्रैव मोक्षमाप्नोति संप्राप्य ज्ञानमुत्तमम् ॥
यस्तु यच्छति कृष्णाय शिशिरे गोपमूर्त्तये ।तिलानां मोदकं दिव्यं स गच्छेद्धरिमन्दिरम् ॥
यो दुग्धलड्डुकं दद्यात् केशवाय महात्मने ।स पिबेदमृतं स्नात्वा मन्वन्तरशतावधि ॥
हरये ललितं खण्डं यस्तु यच्छति जैमिने ।तस्य विष्णुः प्रसन्नात्मा छिन्नत्ति भवबन्धनम् ॥
विचित्रफाणितं यस्तु दद्याद्भगवते द्विज ।अन्ते शक्रपुरं गत्वा स भवेत् सुरवन्दितः ॥
निर्म्मलां शर्करां यच्छेद्यस्तु कृष्णाय भक्तिमान्स किं न लभये विप्र वासुदेवप्रसादतः ॥
सुपक्वं फाल्गुने मासि मधुरं बरदीफलम् ।यस्तु यच्छति कृष्णाय फलं तस्य मयोच्यते ॥
इह भुङ्क्ते सुखं सव्वं पुत्त्रपौत्त्रसमन्वितः ।अन्ते हरेर्गृहं याति रथमारुहा शोभनम् ॥
न दद्याद्गुडसंयुक्तं हरये बदरीफलम् ।अज्ञानाद्ब्राह्मणश्रेष्ठ दद्याच्चेन्नारकी भवेत् ॥
फाल्गुने मासि यो दद्याद्धरये दाडिमीफलम् ।सुपक्वं तत्फलंविप्र वदतो मे निशामय ॥
तत्र यावन्ति बीजानि तिष्ठन्ति दाडिमीफले ।तावन्मन्वन्तरं विष्णोर्गृहे तिष्ठति वैष्णवः ॥
फाल्गुने मासि यो दद्याद्धरये गुडपिष्टकम् ।सविज्ञेयो द्विजश्रेष्ठ वाजिमेधसहस्रकृत् ॥
* ॥
चैत्रे मासि द्विजश्रेष्ठ मधुना मधुसूदनम् ।स्नापयेल्लभते मर्त्यस्तद्विष्णोः परमं पदम् ॥
मधुना स्नापयेत् यस्तु नारायणमनामयम् ।न चर्च्चा क्रियते तस्य कदाचिद्रविसूनुना ॥
चैत्रे किंशुकपुष्पेण योऽर्च्चयेत् कमलापतिम् ।तन्नाम चित्रगुप्तेन पञ्जिकायां न लिख्यते ॥
चैत्रिके जगतामीशं कृष्णं तिलकपुष्पकैः ।यजतो नास्ति वै जन्म पुनरस्मिन् महीतले ॥
कृष्णं वञ्जुलपुष्पेण सर्व्वदेवशिरोमणिम् ।पूजयेन्मनुजो विप्र लभते नापदं क्वचित् ॥
वासन्तीभिः सुगन्धाभिर्व्वसन्ते यस्तु पूजयेत् ।भगवन्तं परात्मानं स देवैरपि पूज्यते ॥
जयाकिशलयैर्द्दिव्यैरखण्डैर्योऽर्च्चयेद्धरिम् ।तं वदन्ते समुत्थाय स्वयं पीठाद्यमोऽपि च ॥
धात्रीपत्रैर्नवीनैश्च कोमलैर्हरिमर्च्चयन् ।अचिरेणैव लभते सकलं वाच्छितं जनः ॥
शाण्डिल्याखण्डपत्रैश्च धुस्तूरैश्चार्कपुष्पकैः ।योऽर्च्चयेद्धिष्णुमीशञ्च स संसाराब्धिपारगः ॥
यो दद्याद्विष्णवे विप्र कदलीफलमुत्तमम् ।शक्राद्यास्त्रिदशाः सर्व्वे वदन्ते तमहर्न्निशम् ।यो दद्याच्चैत्रिके मासि भक्त्या गोपालरूपिणे ।गोधूमपिष्टकं विप्र सर्व्वपापैः प्रमुच्यते ॥
* ॥
आयाते माधवे मासि पवित्रे माधवप्रिये ।आमिषं मैथुनं तैलं विष्णुभक्तः परित्यजेत् ॥
प्रातः समाचरेत् स्नानं माधवे मासि वैष्णवः ।परित्यजेत् परान्नञ्च न च कुर्य्यात् द्विभोजनम् ॥
प्रभाते पूजयेद्विष्णुं पूर्व्वोक्तविधिना द्बिजः ।वैशाखे स्नापयेद्विष्णुं पुष्पवासितवारिणा ॥
स्नापयेत् शीततोयेन सन्ध्यापर्य्यन्तमच्युतम् ।त्रिसन्ध्यं पूजयेद्भक्त्या नैविद्यैर्व्विविधैः प्रभुम् ॥
वैशाखे चामलस्रग्भिर्लक्ष्मीपतिरलङ्कृतः ।न किं ददातिःविप्रर्षे प्रसन्नः परमेश्वरः ॥
वैशाखे मासि यो दद्यात् यवान्नं चक्रपाणये ।तस्य पुण्यानि संख्यातुं कः समर्थोऽस्ति पण्डितःयत्किञ्चिन्माधवे मासि माधवप्रीतिहेतवे ।दीयते मानवैर्व्विप्र तत् सर्व्वमक्षयं भवेत् ।यदन्यत् सुकृतं कर्म्म क्रियते मासि माधवे ।माधवप्रीतये विप्र क्षयं तस्य न विद्यते ॥
वैशाखो दुर्ल्ल भो मासः सर्व्वकामफलप्रदः ।पूजितव्यो हरिस्तत्र हित्वा कार्य्यशतान्यपि ॥
एकाहमपि यः पूजां वैशाखे कुरुते हरेः ।शतवर्षं हरिं यष्ट्वा यत् फलं लभते स तत् ॥
वैशाखे मासि यः कुर्य्यात् प्रपां माधवतुष्टये ।दिने दिनेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥
वैशाखे सिञ्चयेन्नित्यं विष्णुमश्वत्थरूपिणम् ।चतुर्व्वर्गफलावाप्तिहेतवे वैष्णवो जनः ॥
गण्डूषमात्रतोयेन कुर्य्याद्योऽश्वत्थसेचनम् ।सोऽपि याति परं स्थानं विमुक्तः पाप-कोटिभिः ॥
व्यास उवाच ।साक्षाद्देवः स्वयं विष्णुरश्वत्थोऽखिलविश्वराट् ।तद्भक्तिं कुर्व्वतः पुंसो विद्यते नाशुभं क्वचित् ॥
अश्वत्थं सेवते यस्तु विष्णुबुद्ध्या नरोत्तमः ।तस्य प्रसन्नो भगवान् ददाति परमं पदम् ॥
”इति पाद्मे क्रियायोगसारे ११ अध्यायः ॥
* ॥
व्यास उवाच ।“ज्यैष्ठे मासि द्विजश्रेष्ठ भगवन्तं जनार्द्दनम् ।पूजयेद्भक्तिभावेन जलैः संस्थाप्य शीतलैः ॥
उद्वर्त्तनञ्च दातव्यं सुगन्धामलकीं तथा ।तैलं सुगन्धं हरये ग्रीष्मकाले दिने दिने ॥
सुवासिते शीतले च मन्दिरेऽतिमनाहरे ।प्रत्यहं कमलाकान्तं स्थापयेत् जलमण्डपे ॥
न रौद्रदेशे विप्रे न्द्र सधूमे रन्धनालये ।न सूतिकागृहे चैव स्थापयेत् कमलापतिम् ॥
चामरैर्वीजितः श्वेतैः सुदीर्घैः कमलापतिः ।ज्यैष्ठे मासि द्विजश्रेष्ठ सुप्रीतः किं न यच्छति ॥
मयूरपुच्छव्यजनैर्निदाघे पूजितो हरिः ।ददात्यभिमतं सर्व्वं अचिरेणैव सत्तम ॥
तालवृन्तकवातेन पवित्राम्बरवायुना ।यैर्ग्रीष्मे वीज्यते विष्णु स्ते सर्व्वे स्वर्गगामिनः ॥
यो गात्रलेपनं कुर्य्यात् सुवन्धैर्यक्षकर्द्दमैः ।ग्रीष्मे हरेश्चन्दनेश्च स विशेन्माधवीं तनुम् ॥
गन्धैर्म्मृगमदाद्यैश्च यो लिम्पेन्माधवीं तनुम् ।उष्मागमे द्बिजश्रे ष्ठ स मुक्तो नात्र संशयः ॥
प्रफुल्लकुमुदोद्याने तुलसीकानने तथा ।सन्ध्यायां स्थापयेद्विष्णुं देशे धीरसमीरणे ॥
स्रग्भिः पाटलिपुष्पाणां येन विष्णु रलङ्कृतः ।ज्यैष्ठे मासि स विज्ञेयो वाजिमेधसहस्रकृत् ॥
यस्तु मुक्तावलीं दद्यात् ग्रीष्मे श्रीपतये जनः ।भूपालत्वं हरिस्तस्मै यच्छेज्जन्मनि जन्मनि ॥
यस्तु मण्डयति ग्रीष्मे श्रीकृष्णं मणिमालया ।तस्य पुण्यफलं विप्र वदतो मे निशामय ॥
यावद्ब्रह्मा सृजत्येतत् जैमिने सकलं जगत् ।तावद्विष्णुपुरे तिष्ठे न्मणिमालाविभूषितः ॥
सुवर्णाभरणैर्यस्तु रजताभरणेस्तथा ।कृष्णं मण्डयति ग्रीष्मे सोऽपि तत्फलमाप्नुयात्विचित्रं यस्तु पर्य्यङ्कं सगण्डूकं प्रयच्छति ।हरये देवदेवाय न स्याद्दुःखी कदापि सः ॥
ग्रीष्मकाले न देयानि गुरूणि वसनानि च ।हरये ब्राह्मणश्रेष्ठ देयं तन्वंशूकं शूचि ॥
यस्तु चूतफलैर्दिव्यैः सुपक्वैः पूजयेद्धरिम् ।अन्ते शक्रपुरं गत्वा स पिबेदमृतं मुदा ॥
पियालानां फलैः पक्कैर्योऽर्च्चयेत् कमलापतिम्सोऽपि तत्फलमाप्नोति किमन्यैर्ब्बहुभाषितैः ॥
निदाघे हरये दद्याद्यवागूमतिशीतलाम् ।नानाव्यञ्जनसंयुक्तां श्रद्धया वैष्णवो जनः ॥
* ॥
आषाढे मासि विप्रेन्द्र देवदेवं जगत्पतिम् ।दधिभिः स्नापयित्वा तु पूजयेद्भक्तितो बुधः ॥
दधिभिः स्नापयेद्यस्तु भगवन्तं जनार्द्दनम् ।मातुः पयोधरपयः पुनस्तेन न पीयते ॥
घनागमे घनश्यामं कदम्बकुसुमैर्हरिम् ।आराध्य यान्ति विप्रर्षे पापिनोऽपि परांगतिम् ॥
कदम्बपुष्पमालाभिर्म्मण्डयत्यब्जलोचनम् ।यस्तस्य ब्राह्मणश्रेष्ठ पुण्यं वच्मि निशामय ॥
तस्यां यावन्ति मालायां तिष्ठन्ति कुसुमानि वै ।प्रतिपुष्पे द्विजश्रेष्ठ वाजिमेधफलं लभेत् ॥
सुगन्धैः केतकीपुष्पैः पूजितः कमलेक्षणः ।सर्व्वं दुःखं हरत्येष मानवानां द्विजोत्तम ॥
पनसानां फलैर्दिव्यैः सुपक्वैर्घृतमिश्रितैः ।पूजितो भगवान् विष्णुर्द्द दात्यैश्वर्य्यमुत्तमम् ॥
आषाढे मासि दध्यन्नं हरये प्रतिवासरम् ।श्रद्धया वैष्णवो दद्यान्मुक्तिमिच्छुर्द्विजोत्तम ॥
कृष्णाय नवनीतं यो ददाति वैष्णवो जनः ।तस्य पुण्यं न संख्यातुं शक्नोम्यब्दशतैरपि ॥
हैयङ्गवीनं यो दद्याद्गोपालाय महात्मने ।आमिक्षां सगुडाञ्चैव स महात्मा हरेः प्रियः ॥
सशर्कराणि दुग्धानि कृष्णाय यस्तु यच्छति ।तस्य प्रसन्नो भगवान् ददात्यभिमतं फलम् ॥
* ॥
श्रावणे मासि विप्रेन्द्र दैवकीनन्दनं प्रभुम् ।स्नापयेन्निर्म्मलैस्तोयैः शुद्धैः कलुषवर्ज्जितैः ॥
मल्लिकाकुसुमैर्विष्णुं योऽर्च्चयेद् वैष्णवो जनः ।विमुक्तः सकलैः पापैर्ब्रह्मलोकं स गच्छति ॥
शेफालिकाप्रसूनैश्च यूथिकाकुसुमैस्तथा ।अर्च्चयन् कमलाकान्तं मनुजो नावसीदति ॥
सुगन्धैस्तगरैः पुष्पैः सप्तलाकुसुमैस्तथा ।योऽर्च्चयेत् कमलाकान्तं तस्य वश्यं जगत्त्रयम् ॥
प्रफुल्लैर्म्मालतीपुष्पैः सुगन्धैर्योऽर्च्चयेद्धरिम् ।तत्पुण्यं नास्ति तत्तुल्यो येन स्याद्भुविमानवः ॥
कुन्दपुष्पै श्च बन्धूकैर्ज्जगद्बन्धुं जनार्द्दनम् ।अर्च्चयन् सकलं काममाप्नोति भुवि मानवः ॥
महासहाप्रसूनैश्च तथा कुरुवकैर्हरिम् ।कुरुण्टकैः पूजयेद्यस्तस्य तुष्टः सदा हरिः ॥
शैरीषकुसुमैर्विष्णुं प्रस्थपुष्पैश्च योऽर्च्चयेत् ।करवीरप्रसूनैश्च स याति हरिसन्निधिम् ॥
श्रावणे मासि यो दद्यात् लाजान् घृतसम-न्वितान् ।हरये तस्य विप्रर्षे न विपत्तिर्गृहे भवेत् ॥
श्रावणे पिष्टकं यस्तु हरये मुद्गपूरकम् ।ददाति तस्य विप्रर्षे गृहे श्रीर्निश्चला भवेत् ॥
* ॥
भाद्रे मासि द्विजश्रेष्ठ नारायणमनामयम् ।श्रद्धया पूजयेत् प्राज्ञश्चतुर्व्वर्गफलप्रदम् ॥
निवीडे नूतनागारे सर्व्वोपद्रववर्ज्जिते ।स्थापयेत् पुण्डरीकाक्षं भगवन्तं जनार्द्दनम् ॥
दंशैश्च मसकैश्चैव प्रकीर्णैर्म्मक्षिकादिभिः ।हरिं पुरातनागारे स्थापयेन्न हि भक्तिमान् ॥
सकर्दमे पतद्वारि गलद्भित्तौ गृहे तथा ।हरिं न स्थापयेत् प्राज्ञो वर्षासु परमेश्वरम् ॥
विष्ण्वालये द्विजश्रेष्ठ बध्नीयाद्यस्तु भानवः ।चन्द्रातपं विचित्रञ्च चन्द्रलोकं स गच्छति ॥
, रात्रौ नानाविधैर्धूपैर्म्मन्दिरे जगतीपतेः ।दंशांश्च मशकांश्चैव वर्षाकाले निवारयेत् ॥
मसारिकाभिः प्रावृत्य मञ्चशायिनमच्युतम् ।प्रावृषि स्थापयेद्विष्णुं निशायां दिव्यमन्दिरे ॥
कह्लारपत्रर्देवेशं सुगन्धैर्नूतनैस्तथा ।मुमुक्षुः पूजयेन्मर्त्यो भाद्रेमासि दिने दिने ॥
न भाद्रे केतकीपुष्पैः पूजितव्यो जनार्दनः ।यतो भाद्रपदे मासि केतकी स्यात् सुरासमा ॥
पक्वस्तालफलैर्द्दिव्यैर्योऽर्च्चयेद्यदुनन्दनम् ।गर्भवाममहादुःखं स भूयो लभते न हि ॥
संयुक्तं घृतदुग्धाभ्यां पक्वतालं मुरारये ।या दद्यात् श्रद्धया मर्त्यः स गच्छेन्मन्दिरं हरेः ॥
भाद्रे मासि द्विजश्रे ष्ठ हरये तालपिष्टकम् ।सघृतं वैष्णवो दद्यात् कैवल्यप्राप्तिहेतवे ॥
मासि भाद्रपदे विप्र न कुर्य्याच्छाकभक्षणम् ।न रात्रौ भोजनं कुर्य्यान्मुमुक्षुर्वैष्णवो जनः ॥
* ॥
आश्विने मासि विप्रेन्द्र केशवं क्लेशनाशनम् ।पूजयेद्भक्तिभावेन पूर्व्वोक्तविधिना जनः ॥
पूर्व्वाह्णे पूजयेद्यस्तु भक्त्या लक्ष्मौपतिं हरिम् ।विष्णुपूजाफलं विप्र सम्पूर्णं तेन लभ्यते ॥
यत्तोयं दीयते विप्र पूर्व्वाह्णे हरये जनैः ।पीयूषमिव तत्तोयं गृह्णाति कमलापतिः ॥
मध्याह्ने दीयते यच्च सलिलं चक्रपाणये ।तोयं तोयमिव स्वामी तद्गृह्णाति द्विजोत्तम ॥
अपराह्णे तु यत्तोयं गोविन्दाय प्रदीयते ।ततोयं रक्ततुल्यं स्यान्न गृह्णाति यतो हरिः ॥
अतएव द्विजश्रेष्ठ पूर्व्वाह्णे हरिमर्च्चयेत् ।मकलं लभते कामं केशवस्यानुकम्पया ॥
एकवस्त्रेण विप्रेन्द्र न कुर्य्यात् पूजनं हरेः ।कुर्य्याद्वापि तदा पूजां तां न गृह्णाति केशवः ॥
अधौतेन च वस्त्रेण या पूजा कमलापतेः ।विफला मा च पूजा स्यान्न च विष्णः प्रसोदतियस्त्ववद्वशिखः पूजां चक्रिणः कुरुते जनः ।पूजाफलं न चाप्नोति अनिर्ग्राह्या च सा भवेत् ॥
असंस्कृतगृहे पूजा क्रियते या जगत्पतेः ।सा पूजा ब्राह्मणश्रेष्ठ अनिर्ग्राह्या भवेत् खलु ॥
स्नानं देवार्च्चनञ्चैव दानञ्च पितृतर्पणम् ।तिलकेन विना विप्र न च कुर्य्याद्विचक्षणः ॥
तिलकान्न गृहोत्वा यत् पुण्यकर्म्म विधीयते ।भस्मीभवति तत् सर्व्वं कर्त्ता च नारकी भवेत्शङ्खचक्रगदापद्मेरङ्कितं यस्य दृश्यते ।शरीरं ब्राह्मणश्रेष्ठ विज्ञेयः सोऽच्य तः स्वयम् ॥
”इत्यादि ॥
“त्रिपत्रीकृतदूर्व्वाभिराश्विने योऽर्च्चयेद्धरिम् ।दूर्व्वेव सन्ततिस्तस्य अविच्छिन्ना प्रवर्त्तते ॥
आश्विने मासि यो दद्याद्धरये कर्क्कटीफलम् ।शोको न जायते तस्य कदाचिद्धृदये द्विज ॥
* ॥
कार्त्तिके तु समायाते सर्व्वमासोत्तमे शुभे ।दामोदरं देवदेवं भक्त्या प्राज्ञः प्रपूजयेत् ॥
कार्त्तिके मासि विप्रेन्द्र विष्णुप्रीणनहेतवे ।यथोक्तविधिना प्राज्ञः प्रातःस्नानं समाचरेत् ॥
आमिषं मैथुनञ्चैव कार्त्तिके मासि यस्त्यजेत् ।जन्मान्तरार्ज्जितैः पापैर्म्मुक्तो याति परां गतिम् ॥
तुलाराशिगते सूर्य्ये प्रातःस्नानं द्विजोत्तम ।हविष्यं ब्रह्मचर्य्यञ्च महापातकनाशनम् ॥
आमिषं मैथुनञ्चैव कार्त्तिके यस्तु न त्यजेत् ।जन्मजन्मनि विप्रेन्द्र स भवेत् ग्राम्यशूकरः ॥
द्विर्भोजनं परान्नञ्च तैलञ्च वैष्णवो जनः ।आयाते कार्त्तिके मासि यत्नादपि परित्यजेत् ॥
दामोदराय नभसि प्रदीपं यस्तु यच्छति ।फलं तस्य प्रवक्ष्यामि समासेन शृणु द्विज ॥
ब्रह्महत्यादिभिः पापैर्व्विमुक्तः क्लेशदायकैः ।दामोदरपुरं गत्वा तिष्ठेत् कोटियुगावधि ॥
दीपं ज्वलन्तं नभसि त्रिदशा वासवादयः ।विलोक्य हर्षिताः सर्व्वे वदन्तीति परस्परम् ॥
असौ पुण्यात्मनां श्रेष्ठः केशवार्च्चनतत्परः ।प्रदीपं कार्त्तिके मासि यतो यच्छति चक्रिणे ॥
आगमिष्यति पुण्यात्मा कदायं त्रिदिवं प्रति ।करिष्यामि कदा सख्यमनेन हरिसेविना ॥
मुहूर्त्तमपि यो दद्याद्दीपं नभसि चक्रिणे ।कात्तिके मासि विप्रे न्द्र तस्य तुष्टः सदा हरिः ॥
दद्यादक्षयदीपं यः कार्त्तिके हरिमन्दिरे ।दिने दिनेऽश्वमेधस्य फलं प्राप्नोति मानवः ॥
तुलसीदललक्षैर्यः कार्त्तिके पूजयेद्धरिम् ।लक्षैकवाजिमेधस्य मानवो लभते फलम् ॥
विल्वच्छदनलक्षेण योऽर्च्चयेत् विष्णुमव्ययमकार्त्तिके शङ्करं वापि लभते सोऽपि तत् फलम्कार्त्तिके वकपुष्पेण हरिपूजनकृन्नरः ।परम मोक्षमाप्नोति प्रसादाज्जगतीपतेः ॥
यत्किञ्चित् कार्त्तिके मासि विष्णुमुद्दिश्य दीयतेतदक्षयं भवेत् सर्व्वं सत्यमेतन्मयोच्यते ॥
घृताक्तं शूरणान्नं यः कार्त्तिके विष्णवे नरः ।दद्याद्दिने दिने विप्र तस्य विष्णुपुरे स्थितिः ॥
प्रफुल्लपद्मपुष्पेण सितेनाप्यसितेन वा ।योऽर्श्चयेत् कमलाकान्तंतस्य किं भुवि दुर्लभम्कमलैः कार्त्तिके मासि सितैर्व्वा लोहितैस्तथा ।संपूज्य पद्मिनं मर्त्यो लभते परमं पदम् ॥
प्रदत्तं कार्त्तिके मासि हरये येन पङ्कजम् ।न दत्तं तेन किं विप्र विष्णवे दैत्यजिष्णवे ॥
एकमेवाम्बुजं यस्तु ददाति कैटभारये ।तस्मै किं भगवान् विष्णुर्न ददाति श्रियः पतिः ॥
कमलैः कार्त्तिके मासि येन नाराधितो हरिः ।जन्मजन्मनि तद्गेहे कमला न हि तिष्ठति ॥
पद्यबीजानि यो दद्यात् केशवाय महात्मने ।स जायते विप्रकुले शुद्धे च प्रतिजन्मनि ॥
ब्राह्मणस्य कुले जातः स चतुर्व्वेदविद्भवेत् ।धनवान् बहुपुत्त्रश्च कुटुम्बानाञ्च पोषकः ॥
नास्ति पद्मसमं पुष्पं जैमिने सत्यमुच्यते ।येन संपूज्य गोविन्दं पापात्मापि च मोक्षभाक् ॥
सत्यं सत्यं पुनः सत्यं सत्यमेव मयोच्यते ।कमलैर्हरिमभ्यर्च्च्य लभते परमं पदम् ॥
एकमेवारविन्दं यः प्रददाति मुरारये ।तस्य नास्ति पुनजन्म ससारेऽस्मिन् सुभैरवे ॥
”इति पाद्मे क्रियायोगसारे १२ अध्यायः ॥
* ॥
व्यास उवाच ।“मार्गशीर्षे द्विजश्रे ष्ठ महालक्ष्म्या समन्वितम्पूजयेदव्ययं विष्णं भक्तिभावेन वैष्णवः ॥
उच्छिष्टदेशे विप्रेन्द्र तथेव पतितालये ।दुर्गन्धैश्च परिव्याप्ते स्थाने विष्णुं न पूजयेत् ॥
पाषण्डानां समीपे तु महापातकिनां तथा ।असत्यभाषिणाञ्चैव न कुर्य्याद्विष्णुपूजनम् ॥
तस्मादेकमना भूत्वा भक्तिश्रद्धासमन्वितः ।पूजयेत् कमलाकान्तं चतुर्व्वर्गफलाप्तये ॥
शाल्यन्नं सघृतञ्चैव मुद्गपूपसमन्वितम् ।सवास्तूकादिशाकञ्च दद्यात् सदधि विष्णवे ॥
नागरङ्गफलं दिव्यं सुपक्वं यस्तु यच्छति ।केशवाय द्विजश्रे ष्ठ सोऽस्माभिरपि पूज्यते ॥
यद्यन्यं नूतनं वस्तु प्रियं भगवतो हरेः ।तदेवाग्रहायणे मासि भक्त्या दद्यान्मुरारये ॥
* ॥
पौषे मासि समायाते श्रीकृष्णं वरदं प्रभुम् ।नित्यमिक्षुरसैर्द्दिव्यैः स्नापयेद्वैष्णवो जनः ॥
यः स्नापयति विप्रेन्द्र विष्णुमिक्षुरसैः प्रभुम् ।इह भुङ्क्ते सुखं सर्व्वं मृतो यातीक्षुसागरम् ॥
यो दद्यादिक्षुनैवेद्यं देवदेवाय विष्णवे ।सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषितैः ॥
सदुग्धं पृथुकं पौषे दधिभिर्व्वा समन्वितम् ।दत्त्वा मुरारये मर्त्त्यः सर्व्वान् कामानवाप्नु यात्सव्वं पुरातनं वस्त्रं दूरीकृत्य मुरारये ।शीतस्य वारणार्थाय दद्याद्वस्त्रञ्च नूतनम् ॥
पौषे संक्रमणे विप्र सलक्ष्मीकाय विष्णवे ।दद्यान्मुमुक्षुर्म्मनुजो दशवर्णञ्च पिष्टकम् ॥
यस्तु शङ्खध्वनिं कुर्य्यात् संपूज्य कमलापतिम् ।तस्य पुण्यफलं वच्मि शृणु वत्स समाहितः ॥
अगम्यागमनाच्चैव विमुक्तः सर्व्वपातकैः ।शेषे विष्णुपुरं गत्वा विष्णुना सह मोदते ॥
वैनतेयाञ्चितां घण्टां यस्तु वादयते हरेः ।पूजाकाले द्विजश्रेष्ठ तस्य पुण्यं वदाम्यहम् ॥
अभक्षभक्षणाच्चैव मुक्तः पापैः सुदारुणैः ।प्रयाति मन्दिरं विष्णो रथमारुह्य शोभनम् ॥
तत्र भुक्त्वाखिलं भोगं कल्पकोटिशतावधि ।पुनरागत्य धरणीं चतुर्व्वेदी द्विजो भवेत् ॥
तत्र भुक्त्वा सुखं सर्व्वं शोकदुःखविवर्ज्जितः ।पुनर्व्विष्णुपुरं गत्वा मोक्षं प्राप्नोत्यनुत्तमम् ॥
बीणां वादयते यस्तु पूजाकाले जगत्पतेः ।पण्डितानामग्रणीः स्यात् प्रतिजन्मनि जन्मनि ॥
मृदङ्गवाद्यकृद्यस्तु पूजायां कैटभद्विषः ।तस्य प्रसन्नो देवेशो ददात्यभिमतं फलम् ॥
डमुरुं डिण्डिमञ्चव झर्झरीं मधुरीं तथा ।पटहं दुन्दुभिञ्चैव काहलं सिन्धुवादनम् ॥
कांस्यञ्च करतालञ्च वेणुं वादयते च यः ।पूजाकाले महाविष्णोस्तस्य पुण्यं निशामय ॥
स्तेयाद्यैः पातकैर्म्मुक्तो मन्दिरं याति चक्रिणः ।परमं स्थानमासाद्य तत्रैव परिमुच्यते ॥
करशब्दञ्च यः कुर्य्यात् पूजाकाले जगद्गुरोः ।मुखवाद्यञ्च विप्रेन्द्र तस्य पुण्यं मयोच्यते ॥
कोटिकोटिकुलैर्युक्तः प्रयाति हरिमन्दिरम् ।ज्ञानमासाद्य तत्रैव मोक्षमक्षयमाप्नुयात् ॥
विष्णोरायतने यस्तु भक्तियुक्तः प्रनृत्यति ।स याति ब्राह्मणश्रे ष्ठ तद्विष्णोः परमं पदम् ॥
यस्तु गायति गीतानि भक्त्या नारायणाग्रतः ।स नर्त्तकत्वमाप्नोति गन्धर्व्वाणां पुरेषु च ॥
स्तौति स्तोत्रं जगन्नाथं यो भक्त्या वैष्णवो जनः ।तस्य प्रसन्नो भगवान् सर्व्वान् कामान् प्रयच्छतिमासे मासे हरिं यस्तु विधिनानेन पूजयेत् ।अचिरेणैव विप्रर्षे प्रसादयति सोऽच्युतम् ॥
जगदुदधिमिमं ये तर्त्तुमिच्छन्ति मर्त्याःप्रचुरतरगभीरं सर्व्वदुःखप्रदञ्च ।परमपुरुपपादाम्भोजयुग्मं मनोज्ञंत्रिदशनिवहसेव्यं ते तु सर्व्वे यजन्तु ॥
”इति पाद्मे क्रियायोगसारे १३ अध्यायः ॥
* ॥
अथ द्वात्रिंशत् सेवापराधाः । भगवद्भक्तानांक्षत्त्रियसिद्धान्नभोजनम् १ अनिषिद्धदिने दन्त-धावनमकृत्वा विष्णोरुपसर्पणम् २ मैथुनंकृत्वास्नात्वा विष्णोरुपसर्पणम् ३ मृतं नरंस्पृष्ट्वास्नात्वा विष्णुकर्म्मकरणम् ४ रजस्वलांस्पृष्ट्वा विष्णुगृहप्रवेशनम् ५ मानवं शवं स्पृष्ट्वा-स्नात्वा विष्णुंसन्निधावस्थानम् ६ विष्णुं स्पृशतःपायुवायुप्रयोगः ७ विष्णोः कर्म्म कुर्व्वतः पुरीष-त्यागः ८ विष्णुशास्त्रमनादृत्य शास्त्रान्तर-प्रशंसा ९ अतिमलिनं वासः परिधाय विष्णु-कर्म्माचरणम् १० अविधानेनाचम्य विष्णोरुप-सपणम् ११ विष्णोरपराधं कृत्वा विष्णोरुप्र-सर्पणम् १२ क्रुद्धस्य विष्ण्वस्पर्शनम् १३ निषिद्ध-पुष्पेण विष्ण्वर्च्चनम् १४ रक्तं वासः परिधायविष्णोरुपसर्पणम् १५ अन्धकारे दीपेन विनाविष्णोश्च स्पर्शनम् १६ कृष्णवस्त्रं परिधाय विष्णोःकर्म्माचरणम् १७ वायसोद्धृतवासः परिधायविष्णोः कर्म्माचरणम् १८ विष्णवे कुक्कुरोच्छिष्ट-दानम् १९ वराहमांसं भुक्त्वा विष्णोरुप-सर्पणम् २० हंसजालपदसरारिमांसं भुक्त्वाविष्णोरुपसर्पणम् २१ दीपं स्पृष्ट्वा हस्तमप्रक्षाल्यविष्णोः स्पर्शनं कर्म्मकरणं वा २२ श्मशानंगत्वास्नात्वा विष्णूपसर्पणम् २३ पिण्याकं भुक्त्वाविष्णोरुपसर्पणम् २४ विष्णवे वराहमांस-निवेदनम् २५ मद्यमादाय पीत्वा वा स्पृष्ट्वाविष्णुगृहप्रवेशनम् २६ परकीयेणाशुचिनावस्त्रेण परिहितेन विष्णुकर्म्माचरणम् २७विष्णवे नवान्नमप्रदाय तद्भोजनम् २८ गन्ध-पुष्पेऽप्रदाय धूपदीपदानम् २९ उपानहावारुह्यविष्णुस्थानप्रवेशनम् ३० भेरीशब्देन विना विष्णु-प्रबोधनम् ३१ अजीर्णे सति विष्णुस्पर्शनम् ३२ ।एतदुपलक्षणम् । इत्याह्निकाचारतत्त्वम् ॥
* ॥
अपि च ।धरण्युवाच ।“तवापराधात् देवेश वर्ज्यान् यान् वैष्णवेन च ।निरापराधो मनुजः सापराधश्च जायते ॥
कर्म्मणाचरणे येन करणेन जुगुप्सितम् ।तच्च पूजाफलं सर्व्वं जायते तद्वदस्व मे ॥
वराह उवाच ।कर्म्मणा मनसा वाचा ये पापरुचयो जनाः ।भक्षणं दन्तकाष्ठस्य राजान्नस्य तु भोजनम् ॥
मैथुनं शवसंस्पर्शं पुरीषोत्सगमेव च ।सूतक्युदक्याः क्षपणं स्पर्शनं मेहनं तथा ॥
अभाष्यभाषणं कोपं पिण्याकस्य च भक्षणम् ।रक्तपारक्यमलिनं वस्त्रधारित्वनीलिजम् ॥
गुरोश्चालीकनिर्ब्बन्धं पतितान्नस्य भक्षणम् ।अभक्ष्यभक्षणञ्चैव तण्डुलीयविभीतकम् ॥
अदानं तु वरान्नस्य जालपादवराकयोः ।भक्षणं देवतागारे सोपानत्कोपसर्पणम् ॥
तथैव देवपूजाजां निषिद्धकुसुमार्च्चनम् ।अनुत्तार्य्य च निर्म्माल्यं पूजा जीर्णान्धकारयोः ॥
पानं सुराया देवस्य अन्धकारे प्रबोधनम् ।वातकर्म्मार्च्चने विष्णोरनमस्करणं तथा ॥
अपराधास्त्रयस्त्रिंशत् समाख्याता मया धरे ।एभिर्युक्तस्तु पुरुषो विष्णुं नैव प्रपश्यति ॥
दूरस्थो न नमस्कारं कुर्य्यात् पूजा तु राक्षसी ॥
”तत्प्रायश्चित्तं यथा, --“एकरात्रं द्विरात्रं वा त्रिरात्रं स्नानमेव च ।स्रवासाः पञ्चगव्याशी मलवस्त्रान्तिकं क्रमात् ॥
नीलीरङ्गापनोदार्थं गोमयेन प्रघर्षणम् ।प्राजापत्येन शुद्धिः स्यात् नीलीवस्त्रस्य धार-णात् ।चान्द्रायणद्वयं कुर्य्यात् गुरोः क्षमितमुत्तमम् ।चान्द्रायणं पराकञ्च पतितान्नस्य भक्षणात् ॥
चान्द्रायणं पराकञ्च प्राजापत्यं तथैव च ।गोप्रदानञ्च भोज्यञ्च अभक्ष्यस्य च भक्षणे ॥
उपवासस्तु पञ्चाहं पञ्चगव्येन शुध्यति ।सोपानत्कश्चरेत् पादं कृच्छ्रस्य द्विरभोजनम् ॥
पुष्पाभावेऽर्च्चनं स्नानं देवस्पर्शञ्च कारयेत् ।अनिर्म्माल्ये नमस्कारं स्नानं पञ्चामृतेन तु ॥
सुरापाने द्विजातीनां चान्द्रायणचतुष्टयम् ।तथैव द्वादशाष्टौ तु प्राजापत्यत्रयं चरेत् ॥
ब्रह्मकूर्च्चेन शुद्धिः स्यात् गोप्रदानत्रयेण च ।त्रयाणामेकरात्रेण पञ्चामृतनिषेवणात् ॥
मुच्यते त्वपराधैस्तु तथा विष्णोः स्तवं पठन् ।एतत्ते कथितं गुह्यं किमन्यत् श्रोतमिच्छमि ॥
धरण्युवाच ।अस्ति कश्चिदुपायोऽत्र येन त्वं नृषु तुष्यमि ।पूजितः सफलश्चासि अपराधविशोधनः ॥
वराह उवाच ।संवत्सरस्य मध्ये तु तीर्थे सौकरवे मम ।कृतोपवासः स्नानेन गङ्गायां शुद्धिमाप्नु यात् ।मथुरायां तथाप्येवं सापराधः शुचिर्भवेत् ॥
अनयोस्तीर्थयोरेव यः सेवेत सकृन्नरः ।सहस्रजन्मजनि तानपराधान् जहाति सः ।स्नानात् पानात् तथा ध्यानात् कीर्त्तनाद्धारणात्तथा ।श्रवणान्मननाच्चैव दर्शनाद् याति पातकम् ॥
इति वाराहपुराणे अपराधप्रायश्चित्तनामा-ध्यायः ॥
वाचस्पत्यम्
Sanskritसेवा स्त्री सेव--अ । १ मजने २ आराधने ३ उपभोगे ४ आश्र-यणे च । सेवापराधाश्च अपराधशब्दे २३३ पृ० दशिताःवाराहेत्वन्यथोक्ता यथा “कर्मणा मनसा वाचा ये पापरु-चयो जना । मक्षणं दन्तकाष्ठस्य राजान्नस्य तु भोजनम् ।मैथुनं शवसंस्पशः पुरोषोत्सर्ग एव च । सूतक्युदक्या-क्षपणं स्पर्शनं मोडनं तथा । अभाष्यभाषष्णं कोपंपिण्याकस्य च भक्षणम् । रक्तपारक्यमलिबनीलजा-म्बरधारणम् । गुरोश्रालीकनिर्बन्धः पतिताश्चस्य मत्त्र-अम् । अभक्ष्यभक्षणञ्चैव तण्डुलीयविभीतकम् । आ-दानं तु वरान्नस्य जालपादवराकयोः । भक्षणं देव-तागारे सोपानत्कोपसर्पणम् । तथैव देवपूजायां निषिद्धकुसुमाचेनम् । अनुत्तार्य्य च निर्माल्य पूजा जी-र्णान्धकारयोः । पानं सुराया देवस्य अन्धकारे प्रबो-धनम् । वातकर्मार्चने विष्णोरनमस्करणं तथा । अप-राधास्त्रयस्त्रिंशत् समाख्याता मया धरे । । एभियुं क्तस्तुपुरुषो विष्णुं नैव प्रपश्यति । दूरस्थो न नमस्कारंकुर्य्यात् पूजा तु राक्षसी” ।
Burnouf
FrenchStchoupak
Frenchसेवा-
service (auprès du roi, etc.), cour (à, loc. gén. ifc.)
visite
-आं कृ- être au service de
hommage, culte, etc.
commerce
sexuel (avec, ifc.)
pratique assidue de (ifc.), jouissance.
°काकु- changement de ton dans les paroles d'un courtisan.
°दक्ष- a. adroit courtisan.
°धर्म- lois du service (royal).
°भृत्- ag. ifc. qui sert, qui honore.
°विवर्जित- a. v. sans fonction.
सेवाञ्जलि- añjali du courtisan, du serviteur.
सेवालम्ब- a. qui dépend d'autres dont (il) est courtisan.
सेवावसर- occasion de rendre hommage.
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
