न्यासः (nyAsaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishन्यासः [nyāsḥ], 1 Placing, putting down or upon, planting, तस्या खुरन्यासपवित्रपांसुम् 2.2
6.5
2.9
5.5
चरणन्यास, अङ्गन्यास
सैन्दूरं क्रियते जनेन चरण- न्यासैः पुनः कुट्टिमम् 1.1.
Hence, any impression, mark, stamp, print
अतिशस्त्रनखन्यासः 12.73
'where the nail-marks surpassed those of weapons'
दन्तन्यासः.
Depositing.
A pledge, deposit
प्रत्यर्पित- न्यास इवान्तरात्मा 4.22
12.18
2.67.
Entrusting, committing, giving over, delivering, consigning.
Painting, writing down.
Giving up, resigning, abandoning, relinquishing
शस्त्र˚
न्यासो दण्डस्य भूतेषु 7.15.8
काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः 18.2.
Bringing forward, adducing.
Digging in, seizing (as with claws).
Assignment of the various parts of the body to different deities, which is usually accompanied with prayers and corresponding gesticulations.
Lowering the tone or voice.
संन्यास q. v.
एवं वसन् गृहे कालं विरक्तो न्यासमास्थितः 9.6.53.
Written or literal text (यथान्यासम्).
Bringing forward, introducing (cf. अर्थान्तरन्यास).Comp. -अपह्नवः repudiation of a deposit. -धारिन् the holder of a deposit, a mortgagee.
Apte 1890
Englishन्यासः 1 Placing, putting down or upon, planting, तस्याः खुरन्यासपवित्रपांसुं R. 2. 2
Ku. 6. 50
M. 2. 9
Māl. 5. 5. चरणन्यास, अंगन्यास &c.
2 Hence, any impression, mark, stamp, print
अतिशस्त्रनखन्यासः R. 12. 73 ‘where the nail marks surpassed those of weapons’
दंतन्यास.
3 Depositing.
4 A pledge, deposit, प्रत्यर्पितन्यास इवांतरात्मा Ś. 4. 21, R. 12. 18
Y. 2. 67.
5 Entrusting, committing, giving over, delivering, consigning
6 Painting, writing down.
7 Giving up, resigning, abandoning, relinquishing
शस्त्र° Bg. 18. 2.
8 Bringing forward, adducing.
9 Digging in, seizing (as with claws)
10 Assignment of the various parts of the body to different deities, which is usually accompanied with prayers and corresponding gesticulations
11 Lowering the tone or voice.
Comp.
अपह्नवः repudiation of a deposit.
धारिन् m. the holder of a deposit, a mortgagee.
Apte Hindi
Hindiन्यासः
- नि+अस्+घञ्
"रखना, स्थापित करना, आरोपण करना, "
न्यासः
- नि+अस्+घञ्
"अतः कोई भी छाप, चिह्न, मोहर, ठप्पा"
न्यासः
- नि+अस्+घञ्
जमा करना
न्यासः
- नि+अस्+घञ्
"धरोहर, अमानत"
न्यासः
- नि+अस्+घञ्
"सौंपना, बचनबद्ध होना, सिपुर्द करना, हवाले करना"
न्यासः
- नि+अस्+घञ्
"चित्रित करना, लिख रखना"
न्यासः
- नि+अस्+घञ्
"छोड़ना, उत्सर्ग करना, त्यागना, तिलांजलि देना"
न्यासः
- नि+अस्+घञ्
"सम्मुख रखना, घटाना"
न्यासः
- नि+अस्+घञ्
"खोद कर निकालना, पकड़ना"
न्यासः
- नि+अस्+घञ्
शरीर के भिन्न भिन्न अंगों में भिन्न भिन्न देवताओं का ध्यान जो सामान्य रूप से मंत्र पाठ के साथ साथ तदनुरूप हाव भाव सहित सम्पन्न किया जाता है।
न्यासः
- नि+अस्+घञ्
लिखित पाठ या साहित्यिक मूल पाठ
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Shabdartha Kaustubha
Kannadaनि + असु = न्यासः ।
पदविभागः - > नामपदम्
कन्नडार्थः - > ಇಡು /ಅರ್ಪಿಸು
प्रयोगाः - > "न्यासं शुभं निश्चितयोगलक्ष्म्याः"
उल्लेखाः - > याद० १८-५६
Wordnet
Sanskrit विश्वासः, श्रद्धा, आशाबन्धः, प्रत्ययः, विश्रम्भः, आश्वासः, न्यासः
अन्यस्य कृते अन्येन सह वा किमपि कार्यं सहजतया कर्तुं शक्नोमि इति मनसि वर्तमानः भावः।
"बादशाहस्य विश्वासस्य सः दुरुपयोगम् अकरोत्।"
न्यासः, निक्षेपः
स्ववस्तुनः अन्यस्य समीपे विशिष्टकालपर्यन्तं स्थापनस्य क्रिया।
"अहं न्यासं न इच्छामि।"
न्यासः, उपनिधिः
कस्यचित् समीपे स्थापितम् अन्यस्य वस्तु।
"भवतः न्यासः मम समीपे सुरक्षितः अस्ति।"
न्यासः, आधिः, बन्धकः, आधानः, आधमनम्, उपनिधिः, निक्षेपः
ऋणादानसमये क्षतिपूर्त्यर्थम् न्यसितः मूल्यवान् वस्त्वादयः
"सुवर्णकारः न्यासम् गृहीत्वा ऋणम् यच्छति"
न्यासः, निक्षेपः
औपचारिकरूपेण नियुक्तः तथा च पञ्जीकृतः सः समूहः यदधीना सर्वा सम्पत्तिः अस्ति।
"निःसन्तानाभ्यां दम्पतिभ्यां सर्वा सम्पत्तिः न्यासाय दत्ता।"
न्यासः, स्थाप्यः, स्थाप्यम्, स्थाप्या, उपनिधानम्
पारिश्रमिकस्य अंशः यः क्रीणनाद् प्राक् कस्मादपि कार्याद् प्राक् वा अन्तिमनिर्णयस्य लक्षणरूपेण दीयते।
"तेन वस्तुक्रयणार्थे वणिजे न्यासः दत्तः।"
Tamil
Tamilந்யாஸ: : வைத்தல், ஸ்தாபித்தல், தள்ளி விடுதல், விட்டு விடுதல்.
शब्दकल्पद्रुमः
Sanskritन्यासः, (न्यस्यत इति । नि + अस + घञ् ।)उपनिधिः । स्थाप्यद्रव्यम् । इत्यमरः । २ । ९ ।८९ ॥
अस्य विवरणं निक्षेपशब्दे द्रष्टव्यम् ॥
* ॥
विन्यासः । अर्पणम् । यदाह कालिदासः ।“पदन्यासैरासीत् कमलपरिपूर्णा वमुमतीदृगान्दोलैरिन्दीवरमयमभूदम्बरतलम् ।इदं याचे किञ्चिद्विरचय वचः स्मेरमधुरंधरायामप्यास्तां विधुमुखि ! सुधायाः परि-चयः ॥
”त्यागः । यथा, श्रीभगवद्गीतायां १८ अध्याये ।“काम्यानां कर्म्मणां न्यासं सन्न्यासं कवयो विदुः ।सर्व्वकर्म्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥
”काशिकाख्यपाणिनिसूत्रव्याख्यानग्रन्थविशेषः ।यथा, माघे । २ । ११२ ।“अनुत्सूत्रपदन्यासा सद्वृत्तिः सन्निबन्धना ।शब्दविद्येव नो भाति राजनीतिरपस्पशा ॥
”सन्न्यासः । यथा, --“वक्ष्ये विविदिषान्यासं विद्वन्न्यासञ्च भेदतः ।हेतू विदेहमुक्तेश्च जीवन्मुक्तेश्च तौ क्रमात् ॥
”इति जीवन्मुक्तिप्रथमविवेकः ॥
* ॥
पूजाजपादेः प्राग्विघ्ननाशमन्त्रसिद्ध्याद्यर्थंदेहान्त-र्बहिर्व्वर्णादिविन्यासः । तत्र न्यासकालो यथा, “प्रातःकालेऽथवा पूजासमये होमकर्म्मणि ।जपकालेऽपि वा तेषां विनियोगः पृथक् पृथक् ।पूजाकाले समस्तं वा कुर्य्यात् साधकसत्तमः ॥
”इति योगिनीहृदयम् ॥
* ॥
अथ मातृकान्यासः । अस्य मातृकामन्त्रस्यब्रह्मऋषिर्गायत्त्री छन्दो मातृकासरस्वतीदेवता हलो बीजानि स्वराः शक्तयो लिपि-न्यासे विनियोगः । शिरसि ओँ ब्रह्मणे ऋषयेनमः । मुखे ओँ गायत्त्रीच्छन्दसे नमः । हृदिओँ मातृकासरस्वत्यै देवतायै नमः । गुह्येओँ व्यञ्जनेभ्यो बीजेभ्यो नमः । पादयोः स्वरेभ्यःशक्तिभ्यो नमः । तथा च ज्ञानार्णवे ।मातृकां शृणु देवेशि ! न्यसेत् पापनिकृन्तनीम् ।ऋषिर्ब्रह्मास्य मन्त्रस्य गायत्त्री छन्द उच्यते ॥
देवता भातृकादेवी बीजं व्यञ्जनसञ्चयम् ।शक्तयस्तु स्वरा देवि ! षडङ्गन्यासमाचरेत् ॥
ततः षडङ्गन्यासौ ।अं कं खं गं घं ङं आं अङ्गुष्ठाभ्यां नमः ।इं चं छं जं झं ञं ईं तर्ज्जनीभ्यां स्वाहा ।उं टं ठं डं ढं णं ऊं मध्यमाभ्यां वषट् ।एं तं थं दं धं नं ऐं अनामिकाभ्यां हुम् ।ॐ पं फं बं भं मं औं कनिष्ठाभ्यां वौषट् ।अं यं रं लं वं शं षं सं हं लं क्षं अः करतल-पृष्ठाभ्यां फट् । एवं हृदयादिषु । अं कं खं घं ङंआं हृदयाय नमः । इत्यादि ।तथा च ज्ञानार्णवे ।अं आं मध्ये कवर्गन्तु इं ईं मध्ये चवर्गकम् ।उं ऊं मध्ये टवर्गन्तु एं ऐं मध्ये तवर्गकम् ॥
ॐ औं मध्ये पवर्गन्तु बिन्दुयुक्तं न्यसेत् प्रिये ।अनुस्वारविसर्गान्तर्यशवर्गौ सलक्षकौ ॥
हृदयन्तु शिरो देवि ! शिखा कवचकं तथा ।नेत्रमन्त्रं न्यसेत् ङेऽन्तं नमःस्वाहा क्रमेण तु ॥
वषट् हुं वौषडन्तञ्च फडन्तं योजयेत् प्रिये ! ।षडङ्गोऽयं मातृकायाः सर्व्वपापहरः स्मृतः ॥
अथान्तर्मातृकान्यासः ।अकारादिषोडशस्वरान् सबिन्दून् षोडशदल-कमले कण्ठमूले न्यसेत् । ककारादिद्बादशवर्णान्सबिन्दून् द्वादशदलकमले हृदये न्यसेत् । डका-रादिदशवर्णान् सबिन्दून् दशदलकमले नाभौन्यसेत् । वकारादिषड् वर्णान् सबिन्दून् षड्-दलकमले लिङ्गमूले न्यसेत् । वकारादिचतुरोवर्णान् सबिन्दून् चतुर्द्दलकमले मूलाधारे न्यसेत् ।हक्षवर्णद्वयं सबिन्दुं द्बिदलकमले भ्रमधे न्यमेत् ।तथा च ज्ञानार्णवे ।“द्ब्यष्टपत्राम्बुजे कण्ठे स्वरान् षोडश विन्यसेत् ।द्बादशच्छदहृत्पद्मे कादीन् द्वादश यिन्य सेतु ॥
दशपत्राम्बुजे नाभौ डकारादीन्न्यसेद्दश ।षट्पत्रमध्ये लिङ्गस्थे वकारादीन्न्यसेच्च षट् ॥
आधारे चतुरो वर्णान् न्यसेद्वादीन् चतुर्द्दले ॥
हक्षौ भ्रूमध्यगे पद्मे द्विदले विन्यसेत् प्रिये ॥
”अगस्त्यसंहितायाम् ।“एकैकवर्णमेकैकपत्रान्ते विन्यसेत् प्रिये ।एवमन्तः प्रविन्यस्य मनसातो वहिर्न्यसेत् ॥
”वैष्णवे तु ।“एकैकवर्णमुच्चार्य्य मूलाधाराच्छिरोऽन्तकम् ।नमोऽन्तमिति विन्यास आन्तरः परिकीर्त्तितः ॥
अथान्तर्मातृकान्यासो मूलाधारे चतुर्द्दले ।सुवर्णाभे वशषसचतुर्व्वर्णविभूषिते ॥
षड्दले वैद्युतनिभे स्वाधिष्ठानेऽनलत्विषि ।बभमैर्यवलैर्युक्ते वर्णैः षड्भिश्च सुव्रते ।मणिपूरे दशदले नीलजीमूतसन्निभे ।डादिफान्तदलैर्युक्ते बिन्दूद्भाषितमस्तकैः ॥
अनाहते द्वादशारे प्रवालरुचिसन्निभे ।कादिठान्तदलैर्युक्ते योगिनां हृदयङ्गमे ॥
विशुद्धे षोडशदले धूम्राभे स्वरभूषिते ।आज्ञाचक्रे तु चन्द्राभे द्विदले हक्षलाञ्छिते ॥
सहस्रारे हिमनिभे सर्व्ववर्णविभूषिते ।अकथादित्रिरेखात्महलक्षत्रयभूषिते ॥
तन्मध्ये परविन्दुञ्च सृष्टिस्थितिलयात्मकम् ।एवं समाहितमना ध्यायेन्न्यासोऽयमान्तरः ॥
” * ॥
अथ वाह्यमातृकान्यासः ।अस्या ध्यानं यथा, --“पञ्चाशल्लिपिभिर्विभक्तमुखदोःपन्मध्यवक्षःस्थलांभास्वन्मौलिनिबद्धचन्द्रसकलामापीनतुङ्गस्तनीम् ।मुद्रामक्षगुणं सुधाढ्यकलसं विद्याञ्च हस्ताम्बुजै-र्विभ्राणां विषदप्रभां त्रिनयनां वाग्देवतामा-श्रये ॥
”एवं ध्यात्वा न्यसेत् । तत्राङ्गुलिनियमस्तन्त्रे ।“ललाटे नासिकामध्ये विन्यसेन्मुखपङ्कजे ।तर्ज्जनी मध्यमानामा वृद्धानामे च नेत्रयोः ॥
अङ्गुष्ठं कर्णयोर्न्यस्य कनिष्ठाङ्गुष्ठकौ नसोः ।मध्यास्तिस्रो गण्डयोश्च मध्यमाञ्चोष्ठयोर्न्यसेत् ॥
अनामां दन्तयोर्न्यस्य मध्यमामुत्तमाङ्गके ।मुखेऽनामां मध्यमाञ्च हस्तपादेषु पार्श्वयोः ॥
कनिष्ठानामिकामध्यास्तास्तु पृष्ठे च विन्यसेत् ।ताः साङ्गुष्ठा नाभिदेशे सर्व्वाः कुक्षौ च विन्यसेत् ॥
हृदये च तलं सर्व्वमंसयोश्च ककुत्स्थले ।हृत्पूर्व्वं हस्तपत्कुक्षिमुखेषु तलमेव च ॥
एतास्तु मातृकामुद्राः क्रमेण परिकीर्त्तिताः ।अज्ञात्वा विन्यसेद्यस्तु न्यासः स्यात्तस्यनिष्फलः ॥
”गौतमीये ।“ललाटमुखवृत्ताक्षिश्रुतिघ्राणेषु गण्डयोः ।ओष्ठदन्तोत्तमाङ्गास्यदोःपत्सन्ध्यग्रकेषु च ॥
पार्श्वयोः पृष्ठतो नाभौ जठरे हृदयेऽंशके ।ककुद्यंशे च हृत्पूर्व्वं पाणिपादयुगे तथा ॥
जठराननयोर्न्यस्येन्मातृकार्णान् यथाक्रमात् ॥
”तद्यथा । अं नमो ललाटे । आं नमो मुखे ।इं ईं चक्षुषोः । उं ऊं कर्णयोः । ऋं ॠंनसोः । ऌं ॡं गण्डयोः । एं ओष्ठे । ऐं अधरे ।ॐ ऊर्द्ध्वदन्ते । औं अधोदन्ते । अं ब्रह्मरन्ध्रे ।अः मुखे । कं दक्षबाहुमूले । खं कुर्परे । गंमणिबन्धे । घं अङ्गुलिमूले । ङं अङ्गुल्यग्रे । एवंचं ५ वामबाहुमूलसन्ध्यग्रकेषु । एवं टं ५ दक्षिण-पादमूलसन्ध्यग्रकेषु । एवं तं ५ वामपादमूल-सन्ध्यग्रकेषु । पं दक्षिणपार्श्वे । फं वामपार्श्वे ।बं पृष्ठे । भं नाभौ । मं उदरे । यं हृदि । रंदक्षबाहुमूले । लं ककुदि । वं वामबाहुमूले ।शं हृदादिदक्षहस्ते । ष हृदादिवामहस्ते ।सं हृदादिदक्षपादे । हं हृदादिवामपादे । लंहृदाद्युदरे । क्षं हृदादिमुखे । सर्व्वत्र नमो-ऽन्तेन न्यसेत् । तथा च ।“ओमाद्यन्तो नमोऽन्तो वा सविन्दुर्विन्दुवर्ज्जितः ।पञ्चाशद्बर्णविन्यासः क्रमादुक्तो मनीषिभिः ॥
”इति भट्टः ॥
अथ संहारमातृकान्यासः ।तस्या ध्यानं यथा, --“अक्षस्रजं हरिणपोतमुदग्रटङ्क-विद्याः करैरविरतं दधतीं त्रिनेत्राम् ।अर्द्धेन्दुमौलिमरुणामरविन्दरामांवर्णेश्वरीं प्रणमतस्तनभारनम्राम् ॥
”न्यासस्तु क्षक्राराद्यकारान्तः । यथा । क्षं नमोहृदादिमुखे इत्यादि ॥
* ॥
अपरञ्च ।“चतुर्धा मातृका प्रोक्ता केवला विन्दुसंयुता ।सविसर्गा सोभया च रहस्यं शृणु कथ्यते ॥
विद्याकरी केवला च सोभया भुक्तिदायिनी ।पुत्त्रदा सविसर्गा तु सविन्दुर्वित्तदायिनी ॥
”विशुद्धेश्वरे ।“वाग्भवाद्या च वाक्सिद्ध्यै रमाद्या श्रीप्रवृद्धये ।हृल्लेखाद्या सर्व्वसिद्ध्यै कामाद्या लोकवश्यदा ॥
श्रीकण्ठाद्यानिमान् न्यस्येत् सर्व्वमन्त्रः प्रसीदति ॥
”श्रीविद्यात्वषये नवरत्नेश्वरे ।“वाग्भवाद्या नमोऽन्ताश्च न्यस्तव्या मातृका-क्षराः ।श्रीविद्याविषये मन्त्री वाग्भवाद्यष्टसिद्धये ॥
”यामले ।“भूतशुद्धिलिपिन्यासौ विना वस्तु प्रपूजयेत् ।विपरीतफलं दद्यादभक्त्या पूजनं यथा ॥
”सामान्यन्यासे अङ्गुलिनियमो गौतमीये ।“मनसा विन्यसेन्न्यासान् पुष्पेणैवाथवा मुने ।अङ्गुष्ठानामिकाभ्यां वा चान्यथा विफलं भवेत् ॥
”विशेषन्यासे तु नायं नियमः ॥
* ॥
अथ पीठन्यासः ।ओँ आधारशक्तये नमः ओँ प्रकृतये नमः ओँकूर्म्माय नमः ओँ अनन्ताय नमः ओँ पृथिव्यैनमः ओँ क्षीरसमुद्राय नमः ओँ श्बेतद्वीपायनमः एवं मणिमण्डपाय कल्पवृक्षाय मणिवेदि-कायै रत्नसिंहासनाय एतत् सर्व्वन्तु हृदि ।ततो दक्षिणस्कन्धे ओँ धर्म्माय नमः । वामस्कन्धेओँ ज्ञानाय नमः । एवं वामोरौ वैराग्याय ।दक्षिणोरौ ऐश्वर्य्याय । मुखे अधर्म्माय । वाम-पार्श्वे अज्ञानाय । नाभौ अवैराग्याय । दक्षिण-पार्श्वे अनैश्वर्य्याय । सर्व्वत्र प्रणवादिनमोऽन्तेनन्यसेत् । तथा च शारदायाम् ।“अंसोरुयुग्मयोर्व्विद्बान् प्रादक्षिण्येन साधकः ।धर्म्मं ज्ञानञ्च वैराग्यमैश्वर्य्यं क्रमशः सुधीः ॥
मुखपार्श्वनाभिपार्श्वेष्वधर्म्मादीन् प्रकल्पयेत् ॥
”पुनर्हृदि । ओँ अनन्ताय नमः । एवं पद्मायनमः । अं सूर्य्यमण्डलाय द्वादशकलात्मने नमः ।उं सोममण्डलाय षोडशकलात्मने नमः । मंवह्निमण्डलाय दशकलात्मने नमः । सं सत्त्वायनमः । रं रजसे नमः । तं तमसे नमः । आंआत्मने नमः । अं अन्तरात्मने नमः । पं पर-मात्मने नमः । ह्रीं ज्ञानात्मने नमः । इत्यन्तंविन्यस्य हृत्पद्मस्य पूर्व्वादिकेशरेषु तत्तत्-कल्पोक्तपीठशक्तीर्मध्ये पीठमनुञ्च न्यसेत् ।यथा शारदायाम् ।“अनन्तं हृदये पद्मं तस्मिन् सूर्य्येन्दुपावकान् ।एषु स्वस्वकलां न्यस्य नामाद्यक्षरपूर्व्वतः ॥
सत्त्वादीन् त्रिगुणान् न्यस्य तथैवात्र गुरूत्तमः ।“आत्मानमन्तरात्मानं परमात्मानमेव च ।ज्ञानात्मानं प्रविन्यस्य न्यसेत् पीठमनुं ततः ॥
”अथ ऋष्यादिन्यासः ।ऋषिस्तु ।“महेश्वरमुखाज्ज्ञात्वा यः साक्षात्तपसा मनुम् ।संसाधयति शुद्धात्मा स तस्य ऋषिरीरितः ॥
गुरुत्वान्मस्तके चास्य न्यासस्तु परिकीर्त्तितः ।सर्व्वेषां मन्त्रतत्त्वानां छादनाच्छन्द उच्यते ॥
अक्षरत्वात् पदत्वाच्च मुखे छन्दः समीरितम् ।सर्व्वेषामेव जन्तूनां भाषणात् प्रेरणात्तथा ॥
हृदयाम्भोजमध्यस्था देवता तत्र तां न्यसेत् ।ऋषिच्छन्दोऽपरिज्ञानान्न मन्त्रफलभाग्भवेत् ॥
दौर्ब्बल्यं याति मन्त्राणां विनियोगमजानताम् ॥
”तन्त्रान्तरे ।“ऋषिं न्यसेन्मूर्द्ध्नि देशे छन्दस्तु मुखपङ्कजे ।देवतां हृदये चैव बीजन्तु गुह्यदेशके ॥
शक्तिञ्च पादयोश्चैव सर्व्वाङ्गे कीलकं न्यसेत् ॥
”अथाङ्गन्यासः । तत्राङ्गुलिनियमः ।त्रिद्ब्येकदशकद्वित्रिसंख्यया शैलसम्भवे ।अङ्गुलीनामिति वचनादिति सर्व्वसाधारणम् ॥
यामले ।“हृदयं मध्यमानामातर्ज्जनीभिः स्मृतं शिरः ।मध्यमातर्ज्जनीभ्यां स्यादङ्गुष्ठेन शिखा स्मृता ॥
दशभिः कवचं प्रोक्तं तिसृभिर्नेत्रमीरितम् ।प्रोक्ताङ्गुलीभ्यामस्त्रं स्यादङ्गकॢप्तिरियं मता ॥
तिसृभिस्तर्ज्जनीमध्यमानामाभिः ॥
तर्ज्जनीमध्यमानामा प्रोक्ता नेत्रत्रये क्रमात् ।यदि नेत्रद्बयं प्रोक्तं तदा तर्ज्जनिमध्यमे ॥
”इति भट्टधृतवचनात् ॥
“हृदयादिषु विन्यस्येदङ्गमन्त्रांस्ततः सुधीः ।हृदयाय नमः पूर्व्वं शिरसे वह्निवल्लभा ॥
शिखायै वषडित्युक्तं कवचाय हुमीरितम् ।नेत्रत्रयाय वौषट् स्यादस्त्राय फडितिक्रमात् ॥
षडङ्गमन्त्रानित्युक्तान् षडङ्गेषु नियोजयेत् ।पञ्चाङ्गानि मनोर्यत्र तत्र नेत्रमनुं त्यजेत् ॥
”इति शारदावचनम् ॥
वैष्णवे तु ।“अनङ्गुष्ठा ऋजवो हस्तशाखाभवेन्मुद्रा हृदये शीर्षके च ।अधोऽङ्गुष्ठा खलु मुष्टिः शिखायांकरद्वन्द्वाङ्गुलयो वर्म्मणि स्युः ॥
नाराचमुष्ट्युद्धृतबाहुयुग्म-काङ्गुष्ठतर्ज्जन्युदितो ध्वनिस्तु ।विश्वग्विशक्ता कथितास्त्रमुद्रायत्राक्षिणी तर्ज्जनिमध्यमे च ॥
”शारदायाम् ।“न्यासक्रमेण देहेषु धर्म्मादीन् पूजयेत्ततः ।पुष्पाद्यैः पीठमन्वन्तं तस्मिंश्च परदेवताम् ॥
”इति दर्शनात् शरीरे पीठपूजा ।“अङ्गहीनस्य मन्त्रस्य स्वेनैवाङ्गानि कल्पयेत् ॥
”तथा ब्रह्मयामले ।“स्वनामाद्यक्षरं बीजं सर्व्वेषामभिधीयते ॥
”अथ व्यापकन्यासः ।नवधा सप्तधा वापि मूलेन पञ्चधा त्रिधेतिभैरवतन्त्रवचनात् । नवधाकरणे शिरस्तःपादान्तं पादतः शिरोऽन्तम् । एवं चतुर्धा ।सप्तधाकरणे तादृशं त्रिधा । पञ्चधाकरणेतादृशं द्बिधा । त्रिधाकरणेऽपि तादृशमेकधा ।हृदादिमुखान्तन्तु शेषे एकधा सर्व्वत्रैव ।शतधाकरणे तु तादृशं पञ्चाशद्वारं हृदादि-मुखान्तं नास्तीति व्यापकन्यासः । इत्यागम-तत्त्वविलास्रः ॥
* ॥
नित्यं म्यासकरणफलंयथा, --“आगमोक्तन विधिना नित्यं न्यासं करोति यः ।देवताभावमाप्नोति मन्त्रसिद्धिः प्रजायते ॥
यो न्यासकवचच्छन्दो मन्त्रं जपति तं प्रिये ।विघ्ना दृष्ट्वा पलायन्ते सिंहं दृष्ट्वा यथा गजाः ॥
”न्यासाकरणे दोषो यथा, --“अकृत्वा न्यासजालं यो मूढत्वात् प्रजपेन्मनुम् ।सर्व्वविघ्नैः स बाध्यः स्याद्व्याघ्रैर्मृगशिशुर्यथा ॥
”इति तन्त्रसारः ॥
* ॥
एते न्यासाः सामान्यपूजाप्रकरणोक्ताः ।अन्ये च देवताविशेषे बहवः सन्ति बाहु-ल्यभिया तेषां प्रमाणादिकमलिखित्वा केवलंतत्र विष्णुविषये केशवकीर्त्त्यादि १ मूर्त्तिपञ्जर २तत्त्व ३ भूतिपञ्जर ४ दशाङ्ग ५ पञ्चाङ्ग ६न्यासाः । शिवविषये श्रीकण्ठादि १ ईशानादि-पञ्चमूर्त्ति २ मन्त्र ३ मूर्त्ति ४ गोलक ५ सुभ-गादि ६ भूषण ७ न्यासाः । अन्नपूर्णाविषयेपदन्यासः १ । श्रीविद्याविषये वशिन्यादि १ नव-योन्यात्मक २ पीठ ३ तत्त्व ४ पञ्चदशी ५षोडशी ६ संहार ७ स्थिति ८ सृष्टि ९ नाद १०षोढा ११ गणेश १२ ग्रह १३ नक्षत्र १४योगिनी १५ राशि १६ त्रिपुरा १७ षोडश-नित्या १८ कामरति १९ सृष्टिस्थिति २० प्रकट-योगिनी २१ आयुध २२ न्यासाः । तारा-विषये रुद्र १ ग्रह २ लोकपाल ३ न्यासाः ।एतेषां प्रमाणानि तन्त्रसारादौ द्रष्टव्यानि ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
