मृत्युः (mRtyuH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishमृत्युः [mṛtyuḥ], [मृ त्युक्]
Death, decease
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च 2.27
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति.
Yama, the god of death.
An epithet of Brahman.
Of Viṣṇu.
Of Māyā.
Of Kali.
The god of love.
The worldly life (संसार)
(नमो) अनात्मने स्वात्मविभक्तमृत्यवे 1.86.48.
of the 8th astrological house.
The deity taking away life in the body
यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति Bri. 1.4.11
यमं कालं च मृत्युं च-स्वर्गं संपूज्य चार्हतः * 12.2.3.
अशनाया q. v.
Bri. 1.2.1. -तूर्यम् a kind of drum beaten at obsequial rites. -द fatal. -द्वारम् the door leading to death. -नाशकः quicksilver. -नाशनम् the drink of immortality, ambrosia. -पाः an epithet of Śiva. -पाशः the noose of death or Yama.
पुष्पः the sugarcane.
the bamboo. -प्रतिबद्ध liable to death. -फलम् a kind of poisonous fruit. -फला, -ली the plantain. -बीजः, -वीजः a bamboo-cane. -भृत्यः sickness, disease. -राज् Yama, the god of death.
लोकः the world of the dead, the world of Death or Yama.
earth, the world of mortals
मर्त्यलोक.
वञ्चनः an epithet of Śiva.
a raven. -सूतिः a female crab
for explanation of this word read यथा कर्कटकी गर्भमाधत्ते मृत्यवे निजम् Purāṇam.
Apte 1890
Englishमृत्युः [मृत्युक] 1 Death, decease
जतस्य हि ध्रुवां मृत्युर्ध्रुवं जन्म मृतम्य च Bg. 2. 27
2 Yama, the god of death.
3 An epithet of Brahman
4 Of Viṣṇu.
5 Of Māyā.
6 Of Kali
7 The god of love
Comp.
तूर्यं a kind of drum beaten at obsequial rites.
द a fatal.
नशकः quicksilver.
नाशन the drink of immortality, ambrosia.
पाः an epithet of Śiva.
पाशः the noose of death or Yama.
पुष्पः the sugarcane.
प्रतिबद्ध a. liable to death.
फलं a kind of poisonous fruit.
फला,
ली the plantain.
बीजः,
वीजः a bamboo-cane.
भृत्यः sickness, disease.
राज् m. Yama, the god of death.
लोकः {1} the world of the dead, the world of Death or Yama. {2} earth, the world of mortals
cf. मर्त्यलोक.
वंचनः {1} an epithet of Śiva. {2} a raven.
सूतिः f. a female crab.
Hindi
Hindiमौत
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiमृत्युः
- मृ + त्युक्
मरण
मृत्युः
- -
मृत्यु का देवता यमराज
मृत्युः
- -
ब्रह्मा का विशेषण
मृत्युः
- -
विष्णु का विशेषण
मृत्युः
- -
माया का विशेषण
मृत्युः
- -
कलि का विशेषण
मृत्युः
- -
कामदेव
Wordnet
Sanskrit मृत्युः, मरणम्, निधनम्, पञ्चत्त्वम्, पञ्चता, अत्ययः, अन्तः, अन्तकालः, अन्तकः, अपगमः, नाशः, नाश, विनाशः, प्रलयः, संस्थानम्, संस्थितिः, अवसानम्, निःसरणम्, उपरतिः, अपायः, प्रयाणम्, जीवनत्यागः, तनुत्यागः, जीवोत्सर्गः, देहक्षयः, प्राणवियोगः, मृतम्, मृतिः, मरिमा, महानिद्रा, दीर्घनिद्रा, कालः, कालधर्मः, कालदण्डः, कालान्तकः, नरान्तकः, दिष्टान्तकः, व्यापदः, हान्द्रम्, कथाशेषता, कीर्तिशेषता, लोकान्तरता
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
"ध्रुवो मृत्युः जीवितस्य।"
शब्दकल्पद्रुमः
Sanskritमृत्युः, (म्रियते अस्मादिति मृ + “भुजिमृङ्भ्यांयुक् त्युकौ ।” उणा० । ३ । २१ । इति त्युक् ।)यमः । इति हेमचन्द्रः ॥
कंसः । यथा, --“प्रत्यर्प्य मृत्यवे पुत्त्रान् मोचये कृपणामिमाम् ।सुता मे यदि जायेरन् मृत्युर्व्वा न म्रियेतचेत् ॥
”इति श्रीभागवते १० स्कन्धे १ । ४९ ॥
मृत्युः, प्राणवियोगः । तत्पर्य्यायः । पञ्चता२ कालधर्म्मः ३ दिष्टान्तः ४ प्रलयः ५ अत्ययः ६अन्तः ७ नाशः ८ मरणम् ९ निधनः १० ।इत्यमरः ॥
पञ्चत्वम् ११ मृतम् १२ मृतिः १३ ।इति तट्टीकायां रमानाथः ॥
नैधनम् १४ ।इति तट्टीकासारसुन्दरी ॥
संस्था १५ कालः १६परलोकगमः १७ दीर्घनिद्रा १८ निमीलनम् १९अस्तम् २० अवसानम् २१ । इति हेमचन्द्रः ॥
भूमिलाभः २२ निपातः २३ विलयः २४ आत्य-यिकम् २५ । इति शब्दरत्नावली ॥
अप्ययः२६ । (मरणार्थे यथा, --“क्षीणस्य यस्य क्षुत्तृष्णे हृद्यैर्मिष्टैर्हितैस्तथा ।न शाम्यतोऽन्नपानैश्च तस्य मृत्युरुपस्थितः ॥
प्रवाहिका शिरःशूलं कोष्ठशूलञ्च दारुणम् ।पिपासा बलहानिश्च तस्य मृत्युरुपस्थितः ॥
”इति सुश्रुते सूत्रस्थाने ३१ अः ॥
“एकोत्तरं मृत्युशतमथर्व्वाणः प्रचक्षते ।तत्रैकः कालसंज्ञस्तु शेषास्त्वागन्तवः स्मृताः ॥
दोषागन्तुजमृत्युभ्यो रसमन्त्रविशारदौ ।रक्षेतां नृपतिं नित्यं यत्नाद्बैद्यपुरोहितौ ॥
”इति च तत्र तत्स्थाने । ३४ अः ॥
)तत्प्रमाणं यथा, --“अहमात्मोद्धवामीषां भूतानां सुहृदीश्वरः ।अहं सर्व्वाणि भूतानि तेषां स्थित्युद्भवाप्ययः ॥
”इति श्रीमद्भागवते ११ स्कन्धे । १६ । १० ॥
स तु ब्रह्मणो गुदतो जातः । यर्था, --“पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ! ।हिंसाया निरृते मृर्त्योर्निरयस्य गुदं स्मृतम् ॥
”इति श्रीभागवते २ स्कन्धे ५ अध्यायः ॥
कल्पान्तरे भयात् मायायां जातः । यथा, --“हिंसा भार्य्या त्वधर्म्मस्य तयोर्जज्ञे तथानृतम् ।कन्या च निकृतिस्ताभ्यां भयं नरकमेव च ॥
माया च वेदना चैव मिथुनं त्विदमेतयोः ।भयाज्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥
वेदना च सुतञ्चापि दुःखं जज्ञेऽथ रौरवात् । * ।अस्यापत्यादि यथा, --“मृर्त्योर्व्याधिर्जराशोकतृष्णाक्रोधाश्च जज्ञिरे ।दुःखोत्तराः स्मृता ह्येते सर्व्वे चाधर्म्मलक्षणाः ।नैषां भार्य्यास्ति पुत्त्रो वा सर्व्वे ते ह्यूर्द्ध्वरेतसः ॥
निरृतिश्च तथा चान्या मृत्योर्भार्य्याभवन् मुने ! ।अलक्ष्मीर्नाम तस्याञ्च मृत्योः पुत्त्राश्चतुर्द्दश ॥
अलक्ष्मीसूचका ह्येते मृत्योरादेशकारिणः ।विनाशकाले च नरान् भजन्त्येते शृणुष्व तान् ॥
इन्द्रियेषु दशस्वेते तथा मनसि च स्थिताः ।स्वे स्वे नरं स्त्रियं वापि विषये योजयन्ति च ॥
तथेन्द्रियाणि चाक्रम्य रागलोभादिभिर्नरान् ।योजयन्ति तथा हानिं यान्ति धर्म्मादिभिर्द्विज ! ॥
अहङ्कारगताश्चान्ये तथान्ये बुद्धिसंस्थिताः ।विनाशाय नरस्त्रीणां यतन्ते मोहसंश्रयाः ।एवं त्वधर्म्मेणोत्पन्नाः सर्व्वे चापि भयङ्कराः ॥
”इति मार्कण्डेयपुराणे दुःसहानुशासनं नामा-ध्यायः ॥
विष्णुपुराणे प्रथमेऽंशे सप्तमोऽध्यायश्च ॥
मृत्युज्ञापकारिष्टानि यथा, --दत्तात्रेय उवाच ।“अरिष्टानि महाराज ! शृणु वक्ष्यामि तानि ते ।येषामालोकनान्मृत्युं निजं जानाति योगवित् ॥
देवमार्गं ध्रुवं शुक्रं सोमच्छायामरुन्धतीम् ।यो न पश्येन्न जीवेत् स नरः संबत्सरात् परम् ॥
अरश्मि विम्बं सूर्य्यस्य वह्निञ्चैवांशुमालिनम् ।दृष्ट्वैकादशमासेभ्यो नरो नोर्द्ध्वं स जीवति ॥
वान्त्यां मूत्रे पुरीषे वा सुवर्णं रजतं यथा ।प्रत्यक्षमथवा स्वप्ने जीवितं दशमासिकम् ॥
दृष्ट्वा प्रेतपिशाचादीन् गन्धर्व्वनगराणि च ।सुवर्णवर्णान् वृक्षांश्च नव मासान् स जीवति ॥
स्थूलः कृशः कृशः स्थूलो योऽकस्मादेव जायते ।प्रकृतेश्च निवर्त्तेत तस्यायुश्चाष्टमासिकम् ॥
खण्डं यस्य पदं पार्ष्ण्योः पादस्याग्रेऽथवा भवेत् ।पांशुकर्द्दमयोर्म्मध्ये सप्त मासान् स जीवति ॥
कपोतगृध्रकाकोला वायसो वापि मूर्द्धनि ।क्रव्यादो वा खगो लीनः षण्मासायुःप्रदर्शकः ॥
हन्यते काकपङ्क्तीभिः पांशुवर्षेण वा पुनः ।स्वच्छायाञ्चान्यथा दृष्ट्वा पञ्च मासान् स जीवति ॥
अनभ्रे विद्युतं दृष्ट्वा दक्षिणां दिशमाश्रिताम् ।पयसीन्द्रधनुर्व्वापि जीवितं द्बित्रिमासिकम् ॥
घृते तैले तथादर्शे तोये वा चात्मनस्तनुम् ।यः पश्येदशिरस्कां वा मासादूर्द्धं न जीवति ॥
यस्य वस्तसमो गन्धो गात्रे शवसमोऽपि वा ।तस्यार्द्धमासिकं ज्ञेयं योगिनो नृप ! जीवितम् ॥
यस्य वै स्नातमात्रस्य हृत्पादमवशुष्यति ।पिवतश्च जलं शोषो दशाहं सोऽपि जीवति ॥
स्तम्भितो मारुतो यस्य मर्म्मस्थानानि कृन्तति ।न हृष्यत्यम्बुसंस्पर्शात्तस्य मृत्युरुपस्थितः ॥
ऋक्षवानरयुग्मस्थो गायन् यो दक्षिणां दिशम् ।स्वप्ने प्रयाति तस्यापि न मृत्युः कालमृच्छति ॥
रक्तकृष्णाम्बरधरा गायन्ती हसती च यम् ।दक्षिणाशां नयेन्नारी स्वप्ने सोऽपि न जीवति ॥
नग्नं क्षपणकं स्वप्ने हसमानं प्रदृश्य वै ।एणं वा वीक्ष्य वल्गन्तं विद्यान्मृत्युमुपस्थितम् ॥
आमस्तकतलाद्यस्तु निमग्नं पङ्कसागरे ।स्वप्ने पश्येत्तथात्मानं नरः सद्यो म्रियेत सः ॥
केशाङ्गारांस्तथा भस्म भुजगं निर्जलां महीम् ।दृष्ट्वा स्वप्ने दशाहन्तु मृत्युरेकादशेऽहनि ॥
करालैर्व्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः ।पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं समाप्नुयात् ॥
सूर्य्योदये यस्य शिवा क्रोशन्ती याति सम्मुखम् ।विपरीतं परीतं वा स सद्यो मृत्युमृच्छति ॥
यस्य वै मुक्तमात्रेऽपि हृदयं पीड्यते क्षुधा ।जायते दन्तसंघर्षः स गतायुरसंशयम् ॥
दीपादिगन्धं नो वेत्ति वमत्यग्निं तथा निशि ।नात्मानं परनेत्रस्थं वीक्षते न स जीवति ॥
शक्रायुधञ्चार्द्धरात्रे दिवा ग्रहगणं तथा ।दृष्ट्वा मन्येत संक्षीणमात्मजीवितमात्मवान् ॥
नासिका वक्रतामेति कर्णयोर्नम्रतोन्नती ।नेत्रञ्च वामं स्रवति यस्य तस्यायुरुद्गतम् ॥
आरक्ततामेति मुखं जिह्वा वापि सिता तथा ।तदा प्राज्ञो विजानीयानृमृत्युमासन्नमात्मनः ॥
उष्ट्ररासभयानेन यः स्वप्ने दक्षिणां दिशम् ।प्रयाति तं विजानीयात् सद्यो मृत्युं नरेश्वर ! ॥
पिधाय कर्णं निर्घोषं न शृणोत्यात्मसम्भवम् ।नश्यते चक्षुषोर्ज्योतिर्यस्य सोऽपि न जीवति ॥
पततो यस्य वै गर्त्ते स्वप्ने द्वारं पिधीयते ।न चोत्तिष्ठति यः श्वभ्रात्तदन्तं तस्य जीवितम् ॥
ऊर्द्ध्वा च दृष्टिर्न च संप्रतिष्ठारक्ता पुनः संपरिवर्त्तमाना ।मुखस्य चोष्मा शिशिरा च नाभिःशंसन्ति पुंसामपरं शरीरम् ॥
स्वप्नेऽग्निं प्रविशेद्यस्तु न च निष्क्रमते नरः ।जलप्रवेशादपिवा तदन्तं तस्य जीवितम् ॥
यश्चाभिहन्यते दुष्टैर्भूतै रात्रावथो दिवा ।स मृत्युं सप्तरात्रान्तात् पुमानाप्नोत्यसंशयम् ॥
स्ववस्त्रममलं शुक्लं रक्तं पश्यत्यथोऽसितम् ।यः पुमान् मृत्युमापन्नं तस्यापि हि विनिर्द्दिशेत् ॥
स्वभाववैपरीत्यन्तु प्रकृतेश्च विपर्य्ययः ।कथयन्ति मनुष्याणां समासन्नौ यमान्तकौ ॥
येषां विनीतः सततं यस्य पूज्यतमा मताः ।तानेव योऽवजानाति तानेव च विनिन्दति ॥
देवता नार्च्चयेद्वृद्धान् गुरून् विप्रांश्च निन्दति ।मातापित्रोरसत्कारं जामातॄणां करोति यः ॥
योगिनां ज्ञानविदुषामन्येषाञ्च महात्मनाम् ।प्राप्तान्तकालः पुरुषस्तद्बिज्ञेयं विचक्षणैः ॥
योगिना सततं यत्नादरिष्टान्यवनीपते ! ।मंवत्सरान्ते तज्ज्ञेन फलदानि दिवानिशम् ।विलोक्यानि सदा चैव फलपङ्क्तिषु भीरुणा ॥
”इति मार्कण्डेयपुराणे अलर्कोपाख्याने ४३ अः ॥
कर्म्मविशेषान्मृत्युविशेषो यथा, --“येनानृतानि नोक्तानि प्रीतिभेदः कृतो नच ।आस्तिकः श्रद्दधानश्च स सुखं मृत्युमृच्छति ॥
आगारदाहिनो दाहं क्षुधं चानन्नदायिनः ।प्राप्नुवन्ति नराः काले तस्मिन् मृत्यावुपस्थिते ॥
देवब्राह्मणपूजायां ये रताश्चानसूयवः ।श्लक्ष्णा वदान्या ह्नीमन्तस्ते नराः सुखमृत्यवः ॥
यो न कामान्न संरम्भान्न द्वेषाद् धर्म्ममुत्सृजेत् ।यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥
शीतं जयन्तीन्धनदास्तापं चोदकदायिनः ।प्राणघ्नीं वेदनां कष्टां ये चान्ये द्वेषकारिणः ॥
मोहाज्ञानप्रदातारः प्राप्नुवन्ति महद्भयम् ।कूटसाक्षी मृषावादी यश्चासदनुशास्ति वै ।ते मोहमृत्यवः सर्व्वे तथान्ये वेदनिन्दकाः ॥
”इति मार्कण्डेयपुराणे पितापुत्त्रसम्बादे १०अध्यायः ॥
* ॥
मृत्युकालकर्त्तव्यक्षुद्रजन्तुबधप्रायश्चित्तं यथा, --“बधेऽपि क्षुद्रजन्तूनां हिंसकानाञ्च पण्डितः ।कार्षापणं समुत्सृज्य मृत्युकाले प्रमुच्यते ॥
अहिंसकानां क्षुद्राणां वधे शतगुणं ध्रुवम् ।प्रायश्चित्तं मृत्युकाले कथितं पद्मयोनिना ॥
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ७ अध्यायः ॥
मृत्युसमये गङ्गागमनमावश्यकं यथा, --“अहो सगरवंशेभ्यो निर्व्वाणमुक्तिदायिनी ।वैकुण्ठगामिनां मार्गसोपानरूपिणी वरा ॥
अतोऽपि मृत्युसमये सतां पुण्यस्वरूपिणाम् ।आदौ पादौ च विन्यस्य मुखे तोयं प्रदीयते ॥
गङ्गासोपानमारुह्य सन्तो यान्ति ममालयम् ॥
”इति तत्रैव ३४ अध्यायः ॥
* ॥
जन्मवतां मृत्योरपरिहार्य्यत्वं यथा, --“मृत्युर्जन्मवतां वीर ! देहेन सह जायते ।अद्य वाब्दशतान्ते वा मृत्युर्वै प्राणिनां ध्रुवः ॥
”इति श्रीभागवते १० स्कन्धे १ अध्यायः ॥
अपि च ।“जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।तस्मादपरिहार्य्येऽर्थे न त्वं शोचितुमर्हसि ॥
”इति श्रीभगवद्गीता ॥
* ॥
अकालमृत्युप्रशमनं स्तोत्रं यथा, --सूत उवाच ।“स्तोत्रं तत्संप्रवक्ष्यामि मार्कण्डेयेन भाषितम् ।नारायणं सहस्राक्षं पद्मनाभं पुरातनम् ।प्रणतोऽस्मि हृषीकेशं किं मे मृत्युः करिष्यति ॥
१ ॥
गोविन्दं पुण्डरीकाक्षमनन्तमजमव्ययम् ।केशवञ्च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥
२ ॥
वासुदेवं जगद्योनिं भानुमन्तमतीन्द्रियम् ।दामोदरं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥
३ ॥
शङ्खचक्रधरं देवं छद्मरूपिणमव्ययम् ।अधोक्षजं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥
४ ॥
वाराहं वामनं विष्णुं नारसिंहं जनार्द्दनम् ।माधवञ्च प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥
५ ॥
पुरुषं पुष्करं पुण्यं क्षेत्रबीजं जगत्पतिम् ।लोकनाथं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥
६ ॥
सहस्रशीर्षं देवेशं व्यक्ताव्यक्तं सनातनम् ।महायोगं प्रपन्नोऽसि किन्नो मृत्युः करिष्यति ॥
७ ॥
भूतात्मानं महात्मानं यज्ञयोनिमयोनिजम् ।विश्वरूपं प्रपन्नोऽस्मि किं मे मृत्युः करिष्यति ॥
८ ॥
इत्युदीरितमाकर्ण्य स्तोत्रं तस्य महात्मनः ।अपयातस्ततो मृत्युर्विष्णुदूतैः प्रपीडितः ॥
इति तेन जितो मृत्युर्मार्कण्डेयेन धीमता ॥
प्रसन्ने पुण्डरीकाक्षे नृसिं हे नास्ति दुर्लभम् ॥
मृत्व्यष्टकमिदं पुण्यं मृत्युप्रशमनं शुभम् ।मार्कण्डेयहितार्थाय स्वयं विष्णुरुवाच ह ॥
य इदं पठति स्तोत्रं त्रिकालं नियतः शुचिः ।नाकाले तस्य मृत्युः स्यान्नरस्याच्युतचेतसः ॥
हृत्पद्ममध्ये पुरुषं पुराणंनारायणं शाश्वतमादिदेवम् ।विचिन्त्य सूर्य्यादतिराजमानंमृत्युं स योगी जितवांस्तदैव ॥
”इति गारुंडे २३८ अध्यायः ॥
* ॥
शुभकर्म्मप्रतिबन्धकमृत्युदा योगा यथा, --“आदित्यभौमयोर्नन्दा भद्रा शुक्रशशाङ्कयोः ।बुधे जया गुरौ रिक्ता शनौ पूर्णा च मृत्युदा ॥
”अपि च ।“रव्यादिदिवसैर्युक्ता विशाखादिचतुश्चतुः ।उत्पाटा मृत्यवः काला अमृतानि यथाक्रमम् ॥
”इति ज्योतिस्तत्त्वम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
